________________ 18 न्यायकन्दलीसंवलितप्रशस्तपादमाध्यम न्यायकन्दली [11] नहि तदपि वक्तृप्रामाण्योत्थापनेनार्थ प्रतिपादयति, किन्त्वनपेक्षिततव्यापार स्वयमेव, उत्पत्तिमात्रं प्रति तदपेक्षणात् / स्वाभाविको हि पदानां पदार्थपरता, स्वाभाविकी च पदार्थाना माकाङक्षायोग्यतासन्निधिमतामितरेतरान्वययोग्यता। तेन यथा वेदे प्रमाणान्तरानपेक्षः 'शब्दः, शब्दसामर्थ्यादेवार्थप्रत्ययः, एवं लोकेऽपि य एव लौकिका त एव वैदिका इति न्यायेनोभयत्रापि शब्दशक्ते [टि०] [11] किन्त्वनपेक्षिनेति यथेन्द्रियादिना स्वशुदघनपेक्षेण ["पूर्वज्ञानानपेक्षेण] च प्रत्यक्षज्ञानमुत्पाद्यते एवं पुरुष वाक्येण पि वक्तृप्रामाण्यान पेक्षण प्रतिपाद्यपुरुषज्ञानानपेक्षेण चार्थः प्रतिपाद्यते। अप्रतिपन्नं हि" प्रति तस्य / प्रतिपादकत्वं न तु स्मृतिवत् प्रतिपन्नं प्रतीति / अत्र कारणमाह स्वामाविको हि इत्यादि / आकाक्षा "परस्परं कारकाणामपेक्षा / योग्यता उदकेन मिञ्चेत् न तु दहनेन सिञ्चेत् इति / सन्निधिः परस्परमासन्नता, न तु कामिनी पर्वतो १२वह्निमान मनोहरेत्यादिवत् / ननु शब्दशक्तिमाहात्म्यादेवार्थप्रतीतिस्तहि वक्तृप्रामाण्यं किमिति निरीक्ष्यते इत्याह वक्तृप्रामाण्यानुसरणं तु इति / [पं०] [11] अहितनिवृत्तिरिति = अहितं सुखदुःखम् / तन्निवृत्तिरहितनिवृत्तिः / [क०] भूतार्थानामिति (कं. 4.15) कार्याणां प्रामाण्यं नोपपद्यत इति भावः / अत्र भूतार्थवेनाप्रामाण्यानुमान वाऽनु [वादकतया प्रमाणान्तरसापेक्षत्वं वा साध्यते नान्य इत्याह म प्रत्यक्षणति (कं. 4.16) / द्वितीयं दूयितुमनुवदति अयेति (कं. 4.16) / दूषयति न सिद्धति (कं. 4.18) / अधिगतार्थगन्तृत्वं पूर्वानुभूतार्थस्मृतिजनकत्व नुसन्धेयं वैशेषिक: प्रमाणसम्प्लवस्येष्यमाणत्वात् / न च वेदान्तानां स्मारकत्वतथास्वमित्याह ईदशश्चेति (कं. 4.19) / अत एव प्रमाणान्तराविषयीकृत प्रतिपादकत्वादेव न तु कार्यार्थप्रतिपादकत्वात् / [11] ननु पुरुषवाक्यं वक्तृज्ञानलिङ्गं न तु स्वयमेवार्थप्रतिपादकमित्याशङ्कयाह नहीति (कं. 4.22) / तहि वक्तृप्रामाण्ये क्वोपयुज्यत इत्यत आह-"उत्पत्तिमात्रमिति (कं. 4.23) / तर्हि तृतीये प्रमाण[णा] (प्रामाण्या ? प्रमाणान्तरा? ) पत्तिरित्याशङ्कयाह स्वाभाविकीप्ति (कं. 4.24) / वक्तृज्ञानमननुमापयन्नपि शब्दस्तृतीयं प्रमाणम् / तथाहि पदार्थ वा तृतीयप्रमाणं संसर्ग वा ? न तावदाद्यः, पदानां विवक्षावच्छेदकपदार्थलिङ्गत्वात् / एवं हि शब्दमनुमान[नंम? नंऽ ? ]न्तर्भावयद् व्यज्यते / पुरुषो धर्मो ककुदादिमदर्थ विवक्षावान् गोशब्दोच्चारणकर्तृत्वात् अहमिवेति / न द्वितीयः विशिष्टानां पदार्थानामविभागेन संसर्गे लिङ्गत्वादिति भावः / यदि वक्तज्ञानमनुमापयन्नपि शब्द (:) प्रमाणं तमुनाप्तवाक्यस्यापि तथाप्रसङ्ग इत्यत आह "वक्तृप्रामाण्यं त्विति (कं. 5.2) / 1 मात्र एव-कं. 1; कं. 2 / 2 माकाङ्क्षासन्निधियोग्यतावताम्-कं. 1; कं. 2 / 3 'शब्द'-इति जे. 1; जे. 3 पुस्तकयो स्ति / 4 ये लौकिका वैदिकास्त एव चार्था इति न्यायेन-कं. 1; कं. 2 / 5 किन्त्वनपेक्षित्वेति अ, ब. 6 शुद्धधनुपेक्षेण अ, 7 [ ] एतच्चिह्नान्तर्गतो पाठ: अ-पुस्तके नास्ति। 8 वाक्येणापि म, ब; 9 नतेक्षण अ, ब. 10 प्रति हिड; 11 परस्पर अ, ब, क; 12 वह्निमात्ममनोहरेत्यादिवत् अ, ब, 13 उत्पत्तिमात्रः-कं. 1 / 14 प्रामाण्यानुसरणं तु-कं. 1 /