________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् न्यायकन्दली तस्याः सद्भावे किं प्रमाणम् ? दुःखसन्ततिम्मिणी अत्यन्तमच्छिद्यते सन्ततित्वाप्रदीपसन्तति वदिति ताक्किकाः। तदयुक्तम्, पार्थिवपरमाणुरूपादिसन्तानेन व्यभिचारात्। "अशरीरं वाव सन्तं प्रियाप्रिये न स्पृशतः" इत्यादयो वेदान्ताः प्रमाणमिति तु वयम् / भूतार्थानामेषामप्रामाण्यप्रसङ्ग इति चेन्न, प्रत्यक्षेणानकान्तिकत्वात् / अथ मतं भूतार्थप्रतिपादकं वचनमनुवादकं स्यात्, ततश्चाप्रमाणत्वं प्रमाणान्तरसापेक्षत्वात्, प्रमायां साधकतमत्वाभावादिति / न सिद्धार्थप्रतिपादकत्वम नुवादकत्वम्, प्रत्यक्षस्याप्यनुवादकत्वप्रसङ्गात् / किन्त्व धिगतार्थाधिगन्तृत्वम्, ईदशश्च वेदान्तानामर्थो यदयं भूतोऽपि प्रत्यक्षादेः प्रमाणान्तरस्य न विषयः, कुतस्तेषामनुवादकता कुतश्च सापेक्षत्वम्, स्मृतेरिव तेभ्यः पूर्वाधिगमसंस्पर्शनार्थप्रतीतेरभावात् / अत एव पुरुषवाक्यमपि प्रमाणम् / [टि.] दुःखसन्ततिः इति - एकाश्रयतया सजातीयकार्योत्पादः सन्ततित्वम् / तदयुक्तम् इति - ननु सर्वमुक्तिपक्षाभ्युपगमे उत्पादकस्यादृष्टस्याभावात् पार्थिवपरमाणुरूपादिसन्ततिरप्यत्यन्तमुच्छिद्यते इति कथमनकान्तिकत्वम् ? नवम्,सर्वमुक्तिपक्षानभ्युपगमात् / 'अभ्युपगमे 'वा तदानीं रूपादिसन्तत्युत्पादककारणवत् विनाशकस्याप्यभावेन पार्थिवपरमाणुरूपादीनामनुच्छेदात् / अदृष्टविनाश एव नाशकारण मिति चेत्, न; प्रयोजनं विना विनाशस्याभावात् / ... साध्य एवार्थे शब्दप्रामाण्यवादिनो मीमांसका अनुमानयन्ति, भूतार्थं वाक्यमप्रमाणम्, भूतार्थप्रतिपादकत्वात् ग्रावोन्मज्जनाहिवाक्यवत्, व्यतिरेके 'अग्निष्टोमेन यजेतेत्यादिवाक्यवदिति / तद् आशङ्कते भूतार्थानामित्यादि / न प्रत्यक्षेण इति :-प्रत्यक्षज्ञानस्य हि विधिरूपत्वाभावेऽपि प्रमाणत्वात् / ततश्चाप्रमाणत्वम इति-अप्रमाणत्वे हेतुः प्रमायाम इत्यादि / साधकतमत्वाभावेऽपि हेतुः, प्रमाणान्तरसापेक्षत्वाद् इति / स्मृतिवत् / [कु०] [10] अभिमतं महोदयं निर्धारयति तस्मादिति (कं. 4.11) / आत्यन्तिकत्वं निवृत्तेनिवृत्तजातीयस्य तत्रव पुनरनुत्पादः / पार्थिवपरमाणुरूपादिसन्तानेन व्यभिचारादिति (कं. 4.13) / ननु सर्वमुक्तौ भूतृणामदृष्टस्योत्पत्तिकारणस्य वै पार्थिवपरमाणुरूपादिसन्तानस्याप्युच्छेद इति कथं व्यभिचार इति असदेत [त्] न सर्वमुक्तेः प्रमाणान्तरसिद्धत्वे सिद्धसाधनतापत्तेः। एतदनुमानसाध्यत्वे इतरेतराश्रयप्रसङ्गात् / सर्वमुक्तौ जातायामदृष्टरूपकारणाभावात् कार्याभाव इति रूपादिसन्तानोच्छेदज्ञानाद् व्यभिचाराभावज्ञाने सर्वमुक्त्यनुमानमिति / अथ विमता सन्तान्त] तिरित्येवं पक्षीकरणान्न व्यभिचार इति चेत् सन्ततित्वमिह सजातीयानां कार्यकारणभावप्रवाहो वा समानाधिकरणानां निरन्तरोत्पादविनाशा वा अधिकरण्या[णा] नियमो वा? आद्यऽसिद्धो हेतुः दुःखानां कार्यकारणभावनियमाभावात् / द्वितीये दृष्टान्तस्य सन्दिग्धसाधनता / पूर्वप्रदीपारम्भकैरेव परमाणुभिरुत्तरप्रदीपारम्भनिश्चयाभावात् / तृतीये सन्दिग्धसाध्यता / प्रदीपजातीयस्यैव कदाचिदत्यन्तोच्छेदानिश्चयादिति भावः / . 1 तस्य-जे. 1, जे. 2 / 2 दीप-कं. 1, कं. 2 / 3 रिवेति-जे. 3 / 4 अनुवादकता-जे. 1; जे. 3 / 5 धिगताधिगन्तृत्वम्-कं. 1; कं.२; धिगतार्थगन्तृत्वम्-जे. 3 / 6 अभ्युपगमत् तदानी-अ. 7 अभ्युपगमे वा-ङ, ८'कोरणमिति-अ. 9 अग्निमेन-अ; 10 ततश्च प्रमाणत्वम्-अ.