________________ न्यायकन्दलीसंवलिसप्रशस्तपादमाध्यम न्यायकन्दली कार्यत्वादिति चेन्न, तस्या अचेतनाया विमृश्यकारित्वाभावात् / यथेयं कृतेऽपि शब्दाद्युपलम्भे पुनस्तदर्थं प्रवर्तते, तथा विवेकख्यातौ कृतायामपि पुनस्तदर्थं प्रतिष्यते स्वभावस्यान पेतत्वात् / [10] (4) नित्यनिरतिशयसुखाभिव्यक्तिर्मुक्तिरित्यपरे / 'तदप्यसारम्, अग्रे निराकरिष्यमाणत्वात / तस्मादहितनिवृत्तिरात्यन्तिकी महोदय इति युक्तम् / [टि०] 'यथेयं कृतेऽपि इति / ___ [10] ['तस्मादहितनिवृत्तिरात्यन्तिको] इति / - ननु किमिदमात्यन्तिकत्वम् ? न तावन्निवृत्तस्य पुनरनुत्पादः, तस्य संसारि साधारण्यात्। 'संसारिणामपि हि यदुःखं निवृत्तं न तत्पुनरुत्पद्यते / नाप्युच्छित्तिः, प्रलयेऽपि निर्वाणप्रसंगात् / नापि निवृत्तजातीयस्य पुमरनुत्पादः / कोऽयमुत्पादो नाम ? किं प्रागभावः ? उत प्रध्वंसाभावः ? अतरेतरताभावः ? अहो स्विदत्यन्ताभावः ? तत्र न तावत्पूर्वत्रितयम्, "संसारिसाधारण्यात् / नापि तुर्यः / स किं दुःखमात्रस्य वा ? दुःखविशेषस्य वा? नाद्यः / तस्य भोगावस्थायां सम्भवेन त्रैकाल्याऽसत्त्वाऽसिद्धेस्त्रकालिकाभावस्यैवात्यन्ताभावत्वात् / म द्वितीयः, तस्य "संसारावस्थायामपि सम्भवात् / किञ्चिद्धि तदपि दुःखमस्ति यत्संसारिणापि नानुभूयते / नापि समूलं दुःखनिवृत्तिरात्यन्तिकत्वम् / सा किं विद्यमानयोर्दुःखतन्मूलयोः? अविद्यमानयोर्वा? नाद्यः / विद्यमानयोः कतिचित्कालपरिपाकवशाद"वश्यम्भाविनिवृत्तित्वेन तन्निवृत्त्यर्थं ज्ञानाभ्यासादिप्रयासर्वयर्थ्यम् / विद्यमानस्येश्वरेणापि निर्व (वर्तयित्मशक्यत्वात् / नापि दुःखप्रागभावसहतित्वम, प्रागभावाभावे सति दुःखस्वीकारप्रसङ्गात्, "सहवर्तित्वाभावस्याभावचतुष्टयत्वेन विकल्प्यमानस्य "पूर्वदोषप्रसङ्गाच्च / "उच्यते, दुःखप्रध्वंसरूपाया दुःखनिवृत्तेरा गामिदुःखमात्रात्यन्ताभावसहकृतत्वमात्यन्तिकत्वमिति / [पं०] सा इति = प्रकृतिः / तस्या इति = प्रकृतेः / इयमिति = प्रकृतिः / स्वभावस्येति = प्रकृतलक्षणस्य / [10] अपरे इति = जैमिनीयाः / वार्तामिति- वार्तामात्रमसारमित्यर्थः / अन इति = अदृष्टगुणप्रकरणे / [कु०] सति भ; दृष्टदोषा स्वैरिणीव पुरुष प्रति न विपरिणमते / ततश्च पुरुषस्य स्वरूपेणावस्थानं महोदयो भवतीति साङ्खयमतमाशङ्कत / प्रकृतीति (कं. 4.4) / तत्र प्रकृतेरप्रवृत्ते स्वभावत्वे संसारानुपपत्तेः प्रवृत्तिस्वभावत्वमङ्गीकर्तव्यम् / तथा चानिर्मोक्ष इत्याह तन्नेति (कं. 4.5) / शङ्कर्ते पुरुषार्थेति (कं. 4.6) दूषयति-नेति (कं. 4.7) / अविमृश्यकारित्वमेव दर्शयति यथेति (कं. 4.8) / 1 अस्या-कं. 1; कं. 2 / 2 नपायित्वात्-कं. 1; कं. 2 / 3 तदपि वार्तम्-जे. 1; जे. 3 / 4 यथेदं-अ, ब. 5 [ ] एतच्चिह्नान्तर्गतो पाठः अ पुस्तके नास्ति, तस्मादहितनिवृत्तिः-ड. 6 -त्यन्तित्वम्-अ, ब. 7 साधारणियात्-अ, ब. 8 संसारिणां हि-अ. 9 रनुत्पादा-अ. 10 संसार-अ, ब. 11 संसारातस्थायामपि-अ. 12 वश्य-अ, ब, क. 13 सहवति त्वाभावचातुष्टयेन-अ, सहवर्तित्वाभावचातुष्टयत्वेन-ब, 14 प्रसङ्गात्-अ, ब, क. 15 उद्यते-अ. 16 रागानि-अ.ब.