________________ टिप्पणपञ्जिकाकुसुमोद्गमारिटोकात्रयोपेतम् न्यायकन्दली प्रत्यशक्तेश्चाकस्मादनुच्छेदात्, किञ्च पूर्वे क्षणाः स्वरसपरिनिर्वाणाः, अयमपूर्वो जातः, सन्तानश्चैको न विद्यते, बन्धमोक्षौ चैकाधिकरणौ न विषयभेदेन वर्तेते, तत्कस्येयं मुक्तिर्य एतदर्थ प्रयतते 'य प्राप्य च निवत्तो भवति ? __ [9] (3) प्रकृतिपुरुषविवेकदर्शनादुपरतायां प्रकृतौ पुरुषस्य स्वरूपेणावस्थानं 'महोदय इत्यन्ये / तन्न, प्रवृत्तिस्वभावायाः प्रकृतेरौदासीन्यायोगात् / पुरुषार्थनिबन्धना तस्याः प्रवृत्तिः, विवेकख्यातिश्च पुरुषार्थः। तस्यां सजातायां सा निवर्त्तते कृत [टि०] भावनाप्रचयस्य सहकारिणो विरहात्, तत्सहकृतास्तु 'निमलं चित्तक्षणमारप्स्यन्ते इति काऽनुपपतिः ? सहकारिभेदेन कार्यभेदाभ्युपगमाद, अन्यथा पीताकारज्ञानक्षण सन्तती नीलसहकारिसदभावेऽपि नीलाकारता न स्यादित्याशङ्कयाह - किञ्चपूर्वेक्षणा इति स्वरसेन स्वभावेन 'निर्वाणाः / ननु - " यस्मिन्नेव हि सन्ताने 'आहिता कर्मवासना / फलं तत्रैव सन्धत्ते कसे रक्तता यथा // " इति / यत्रव सन्ताने बन्धस्तत्रैव मोक्ष इति / [बन्धमोक्षयोरेकाधिकरणत्वमेवेत्याह सन्तानश्चक ] इति / [9] ननु यथा "स्वभावादेव पुरुषार्थाय प्रवर्तते तथा १२विमर्शनमन्तरेण स्वभावादेव निवतिष्यते इत्याह [10] समलचित्तक्षणानामित्यादिना-- चित्तशब्देन ज्ञानम् / अकस्मादिति - निर्हेतुकम् / पूर्वेक्षणा इति = समलचित्तक्षणाः स्वरसपरिनिर्वाणा इति = स्वभावेन विनष्टा इत्यर्थः / एतावता निर्हेतुकविनाश सूचा (त्र) कृता / अमिति = निर्मलचित्तक्षणः / सन्तानश्चैको न विद्यत इति - अनवच्छिन्नप्रवाहेण वर्तमानज्ञानक्षणा एव हि संतान इष्यते भवद्भिरित्यर्थः / बन्धनमोक्षो चेकाधिकरणाविति - य एव बद्धः स एव विमच्यते / [9) प्रकृतिपुरुषविवेकदर्शनादिति = प्रकृतिपुरुषभेदज्ञानादित्यर्थः / उपरतायामिति-प्रकृतिनो (?) निवृतायाम् / अन्य इति = सांख्याः / तस्याः इति = प्रकृतेः / विवेकख्यातिरिति = प्रकृतिपुरुषभेदज्ञानम् / तस्यामिति = विवेकख्याती। [कु.] ननु स्थायिसंस्काराभावेऽपि पूर्वपूर्वज्ञा [न] लक्षणत्व [व] सित एवोत्तरक्षण उत्पद्यते रक्तकाप्पासबीजसन्तानवदित्यत आह समलेति (कं. 4.1) / ननूपदेशजन्यज्ञानप्रवाहस्य सदृशारम्भणेऽपि प्रथमं परोक्षतयोन्त्यं तस्य निर्मलस्यान्ते निर्मलनतेर्भवसाक्षात्कारादन्वव्याप्यं कृतपायं? न दोष इत्यत आह किञ्चेति (कं. 4.2) / / " [9] सत्त्वरजस्तमसां साम्यावस्था प्रकृतिरकारणा, अकारणमकायं च कूटस्थचैतन्यरूपः पुरुषः उभयोरनादिविवेकाग्रहः / ततो महदादिभावेन परिणममाणा प्रकृतिराद्यविकारे दर्पणस्थानीये महति बिम्बिते पुरुषे धर्मान् कर्तृत्वभोक्तृत्वादीन् दर्पण इव मलिनिमानं प्रतिचिते मुखे उपदधानां संसारहेतुः / उपदेशाद् विवेकाग्रहे? (कग्रहे?) -1 स्वरसनिर्वाणा:-कं. 1; कं. 2 / 2 करणौ विषयभेदेन,-कं. 1; कं.२। 3 य एव च प्रवर्तते-कं.१; कं.२ / 4 मोक्ष-कं. 1; कं.२। 5 निर्मलमपि-अ, ब, क. 6 सन्ततो अ, ब, सन्तानो-क. 7 निर्वाण:-ड. 8 ह्याहिता-अ, ब. 9 [ ] एतच्चिह्नान्तर्गतो पाठः ड पुस्तके नास्ति / 10 स्वभावाद्-अ, स्वभावाय-ब. 11 तेन तथा-अ, ब, क. 12 विमर्शमन्तरेण-ह. विमर्शमन्तरे-अ. ब.