________________ 480 व्यायकम्बलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली कार्यस्यैतदेव कार्यत्वं यत् तस्मिन् सत्येव भावोऽसत्यभाव इति तादात्म्यप्रतीत्याप्यविनाभावो निश्चीयते / 'भावस्य स्वभावव्यभिचारे, निःस्वभावत्वप्रसङ्गात् / तावात्म्यनिश्चयो विपक्षे 'बाधकप्रमाणवृत्त्या सिद्धयति / अप्रवृत्ते तु बाधके शतशः सहभावदर्शनेऽपि कदाचिदेतद्विपक्षे स्यादिति शङ्कायाः को 'निवारयिता? तदुक्तम् कार्यकारणभावाद्वा स्वभावाद्वा नियामकात्। अविनाभावनियमोऽदर्शनान्न 'न दर्शनात् // इति / ___कार्यकारण भावानियामकात् स्वभावाद्वा नियामकादविना'भावस्य नियमः, न सपक्षे वर्शनाद्विपक्षे चादर्शनादिति / [सिं०] तादात्म्यनिश्चयोऽपि इति :-वृक्षोत्पादकसामग्यन्तर्भूता शिंशपोत्पादिका सामग्री शिशपाज़निका, बीजं हि 'सामान्यवृक्षोत्पादकसामग्री क्षितिसलिलादिकमपेक्ष्य स्वकार्य जनयति / तस्माद् वृक्षोत्पादकसामग्रीरूप "[व्यापकनिवृत्त्या शिशपोत्पादकसामग्रीरूप] व्याप्यनिवृत्तिरिति बाधकं प्रमाणम् / पार्थिवत्वादेः इति न हि यथा धूमो वह्निगमक एवं [पं०] धूमावी (धी) रधस्तयोः। एक उपलम्भ इति (कं. 207.1) धूमज्ञानम् / "कारणस्योपलम्भानुपलम्भादिति . (कं. 207.1) वह्निज्ञानम् अधीस्तयोः / ____ तादात्म्यनिश्चयो विपक्षे "बाधकप्रमाणप्रवृत्त्या सिध्यतीति (कं. 207.5) वृक्षोत्पादकसामग्यन्तर्भूता शिंशपोत्पादिका सामग्री। शिशपाबीजं हि सामान्यं वृक्षोत्पादिकासामग्री क्षितिसलिलादिकामपेक्ष्य स्वकार्य जनयति / तस्माद् वृक्षोत्पादकसामग्रीरूपव्यापकनिवृत्या शिंशपोत्पादकसामग्रीरूपव्याप्यनिवृत्तिरिति बाधक प्रमाणम् / बाधके इति (कं. 207.6) विपक्षे विषये / नियामकादिति (कं. 207.8-10) विपर्यये साधनप्रवृत्तिनिकारकात् / / [कु.] धूमोत्पती नियमेन वढेरुपलम्भः / वह्निमन्तरेण धूमस्यानुपलम्भ इति / सत्येवेति (कं. 207.2) वह्निघूमस्य कारणमिति निश्चीयते इत्यर्थः / नन्वेवं पञ्चभिरपि प्रत्यक्षनियतस्य बहः कारणत्वं निश्चीयतां कारणान्तराभावस्तु कुतो निश्चेयः यतः शङ्का निवर्तते इत्यत आह "कार्यस्यापीति (कं. 207.3) / यथा नियतस्य वह्वः पञ्चभिः प्रत्यक्षः कारणत्वं गम्यते तथा नियतावधिमतस्तदेककार्यत्वमित्यर्थः। विपक्षे "बाधकेति (कं. 207.5) यदि शिंशपा वृक्षात्मिका न स्यात्तत्तत्सामग्रीमतिपतन्तीं तदन्तभूतायाः स्वसामग्र्या अतिपातेन स्वयमेव न स्यादिति बाधकं प्रमाणं सम्भवत्येव / ततस्तादात्म्यनिश्चयो भवत्येव / तदभावे हि संशय इत्यर्थः / नन्वेवं विपक्षे बाधकप्रवृत्तावन्वयव्यतिरेकाभ्यामप्यविनाभावो निश्चेष्यते इत्यत आह "दर्शने हीति (कं. 207.6) न हि तत्र तादात्म्यतदुत्पत्तिवत्किञ्चिनिवमेकमस्ति येन शङ्का निवर्त्यतीति भावः / 1 भावस्य न स्वभावव्यभिचार:-कं. 1; कं. 2 / 2 बाधकस्य प्रमाणप्रवृत्त्या- कं. 1; कं. 2 / 3 निवारयितुं प्रभवति-कं. 1, कं. 2 / 4 तु-कं. 1; कं. 2 / 5 भावाद्वा-जे. 1, जे. 2 / 6 भावनियमः-कं. 1, कं. 2 / 7 निश्चयः मु. जे. 1, जे.२, जे. 3 / 8 शिशिपा-अ, ब, क / 9 वृक्षोत्पादकसामग्रीं-क; वृक्षोत्पादकसामग्रीअ,ब। 10[ एतच्चिह्नान्तर्गतः पाठः अपुस्तके नास्ति। 11 कारणस्य च-कं.१। 12 बाधकस्यकं.१। 13 कार्यस्य-कं. 'भपि' न विद्यते। 14 बाधकस्य-कं। 15 सहभावदर्शने-कं।