________________ wwe ग्यायकानालीसंवसितप्रशस्तपादभाव्यम् न्यायकन्दली एवं प्रसिद्धसमयस्य प्रसिद्धाविनाभावस्य पुरुषस्यासन्दिग्धधूमदर्शनार्थीम एवायं न बाष्पाविकमिति ज्ञानात् साहचर्यानुस्मरणाद्यत्र धूमस्तत्राग्निरित्येव'मनुस्मरणादग्न्यध्यवसायो भवति, तदनन्तरमग्न्यनुमानं भवति / नन्वेवं द्वितीयो लिङ्गपरामर्शो न लभ्यते ? मालम्भि, नहि नस्तेन प्रयोजनम्, लिङ्गदर्शनव्याप्तिस्मरणाभ्यामेवानुमेयप्रतीत्युपपत्तेः।। न च स्मृत्यनन्तरभावित्वादनुमेयप्रतीतिरनियतदिग्देशा स्यात् ? लिङ्गदर्शनस्य नियामकत्वात् / नाप्युपनयवैयर्थ्यम्, अवयवान्तरैरप्रतिपादितस्य पक्षधर्मत्वस्य प्रतिपादनार्थ / परार्थानुमाने तस्योपन्यासात् / (eio] नयनमन्तरेणापि स्वार्थानुमानवत् लिङ्गदर्शनमात्रेणेव पक्षधर्मतानिश्चयो 'भविष्यति ? नवम् परं प्रत्यवैयधिकरण्यनिश्चयस्योपनयमन्तरेणाप्रदर्शनात् / स्वयं तु प्रत्यक्षादिनैव दर्शनात् / एतावता ग्रन्थेन स्वार्थानुमाने त्र्यवयवत्वं परार्थानुमाने च 'पञ्चावयवत्वमनुमानस्य दर्शितम् / [पं०] धूमश्चात्रेत्युपनयरूपः / स्मृत्यनन्तरभावित्वादिति (कं. 206.14) स्मृतिाप्तिस्मरणम् / नियामकत्वादिति (कं. 206.15) यत्रैव हि लिङ्गं दृष्टं तत्रैव लिङ्गी प्रतीयते / अप्रतिपादितस्येति (कं. 206.16) अज्ञापितस्य / तस्येति (कं. 206.16) उपनयस्य / [कु०] पक्षधर्मतानुसन्धानमवश्यंभावीति प्रतिपादनपरमित्यभिप्रायवान् परिहरति-न हि नस्तेनेति (कं. 206.13) / इह हि व्याप्तिस्मृतिसहितस्य पक्षधर्मतानुसन्धानस्यानुमितिसाधनत्वमित्यत्राविवादो वादिनाम् / [इतरत्र यदि व्याप्तिस्मृतेः पूर्वकालभावेऽपि पक्षधर्मतानुसन्धान विनश्यवस्थं यदि व्याप्तिस्मृत्या सहावतिष्ठेत तदा कीदृशो दोषः ? म च पूर्वकालभाविनो लिङ्गदर्शनस्य विषयनाशान्नाशः (ज्ञा [न]नाशान्नाश:) ज्ञानानां विषयनाश्यत्वानभ्युपगमात् / स्मृत्यानुमानेऽपि लिङ्गस्मृतिपूर्वकमेव व्याप्तिस्मरणमित्यविरोधः इति भावः / लिङ्गदर्शनस्येति (कं. 206.15) लिङ्ग हि व्याप्तिस्मृतेः पूर्वमेव दृश्यत इत्यभिप्रायः / अवयवान्तर इति (कं. 206.15) विप्रतिपन्नस्य प्रतिज्ञाहेतुपौर्वापर्यानुसन्धानबलेम सम्भवन्त्याः पक्षधर्मताप्रतीतेर्वादिना सन्दिह्यमानत्वात् परं प्रत्युपनयोऽपि पक्षधर्मता प्रतिपादयवानर्थ इति भावः / 1 मनुस्मरणात्तदनन्तर-कं. 1; कं. 2; मनुस्मरणादग्न्यध्यवसाय भवति / अग्न्यनमानं भवति-जे. 1; जे.३ / 2 भविष्यतीति-अ, ब / 3 पञ्चावत्त्वमनुमानस्य - अ, ब /