________________ टिप्पणपञ्जिकाकुसुमोदगमाविठीकात्रयोपेतम् प्रशस्तपादभाष्यम् [179 to 181] विधिस्तु यत्र धूमस्तत्राग्निर ग्न्यभावे धूमोऽपि न भवतीत्येवं प्रसिद्धसमयस्यासन्दिग्धधूमदर्शनात् साहचर्यानु स्मरणात् तदनन्तरमग्न्यध्यवसायो भवतीति / न्यायकन्दली स हि सपक्षे साध्यधर्मेण सह प्रसिद्धोऽपि धर्मिणि वृत्त्यभावावहेतुः / सन्दिग्धश्चेत्यनैकान्तिकाभिधानम् / स हि धर्मिणि दृश्यमानः किं साध्यधर्मसहचरितः किं वा तद्रहित इति सन्दिग्धो भवति, न पुनरेक धर्ममुपस्थापयितुं शक्नोति / उभयथा दृष्टत्वादहेतुः / [179] इदमनेनाविनाभूतमिति ज्ञानं यस्य नास्ति तं प्रति मिणि धर्मस्यान्वयव्यतिरेकवतोऽपि लिङ्गत्वं न विद्यते, तदर्थमविनाभावस्मरणमनुमेयप्रती'तावपाय इति दर्शयति-विधिस्त्विति / विधिस्तु अनुमेयप्रतीतिप्रकारस्तु, यत्र धूमस्तत्राग्निरग्न्यभावे धूमो न भवतीति / [टि०] ज्ञानमित्यर्थः / नन्वेवं द्वितीय इतिः-धूमवांश्चायमित्येवं रूपं 'पक्षतावच्छेदकविशिष्ट 'धूमज्ञानं व्याप्तिस्मरणात्पूर्व यद् धूमदर्शनं तदपेक्षया द्वितीयमिति द्वितीयलिङ्गपरामर्शः / ब्याप्तिग्रहणकालसञ्जातधूमज्ञाना'पेक्षया त्वस्यापि ज्ञानस्य * तृतीयत्वं 'ग्रन्थान्तरे सम्मतमिति / न च स्मृत्यनन्तरभावित्वाद् इति स्मृतियाप्तिस्मरणम् / ननु तर्हि धूमवांश्चायमित्युल्लिखितस्योपनयस्य वैयर्थ्यमित्याह नाप्युपनयेति :-अवयवान्तरर्हेतुः दृष्टान्तादिभिः / ननु परार्थानुमानेऽप्युप [पं०] [179] यस्येति (कं. 205.7) प्रमातुः / . . द्वितीय इति (कं. 206.12) प्रथमं धूमवत्त्वादित्युक्त्वा द्वितीयवेलायां यः क्रियते नौद्धस्य पक्षधर्मता स्वस्य तु [10] [179] 'प्रसिद्ध च तदन्विते' तदभावे प्रमाणतोऽसन्नेवेति सपक्षे सत्त्वस्य विपक्षाद्वयावृत्तेश्च ज्ञानमनुमानाङ्गम्। ननु तयोः सत्तामात्रमित्युक्तं, सोऽयं नियमः कुत इति शङ्कानिवर्तकतया भाष्यमवतारयति इदमनेनेति (कं. 205.7) / अथवाऽन्वयव्यतिरेकप्रसिद्धेरेवाविनाभावनिश्चयोपायता न पुनः कार्यकारणभावादेरित्येतत् कुत इति शङ्कानिराकरणपरतया भाष्यावतारणमित्यवगन्तव्यम् / तत्रोदाहरणापेक्षस्तथेत्युपसंहारो न तथेति वा साध्यस्योपनय इति; समानतन्ने व्याप्तिस्मृतिसहितस्यैव पक्षधर्मस्य प्रतिपादकं वचनमुप[नय] इति लक्षणात् / व्याप्तिस्मृते [:] उत्तरकालभाविलिङ्गपरामर्शोऽनुमितिसाधनमिति प्रतीयते इत्यभिप्रायवांश्चोदयति नन्वेवमिति (कं. 206.12) / उदाहरणापेक्ष इति पदमुप[नय] स्योदाहरणानन्तर्यमात्रपरं न तु व्याप्तिस्मृते[:]उत्तरकालमेत [त्] 1 रनरभावे-दे। 2 नुस्मरणादनन्तरम् -दे। 3 तावनुमानाङ्गमिति-कं.१; कं.२। 4 पर्वता-ड / 5 घूमवद्ज्ञानं - अ, ब। 6 पेक्षत्वस्यापि - अ, ब; पेक्षत्वेस्यापि - क। 7 ग्रन्थान्तरेण - अ, ब / 8 ननुमानेभ्युपनय - अ, ब /