________________ 476 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् / प्रशस्तपादभाष्यम् [178] यत्तु यथोक्तात् त्रिरूपाल्लिङ्गादेकेन धर्मेण द्वाभ्यां वा विपरीतं तदनुमेयस्याधिगमे लिङ्गं न भवतीति / एतदेवाह सूत्रकार:-"अप्रसिद्धोऽनपदेशोऽसन् 'सन्दिग्धश्चानपदेशः" (अ. 3 आ. 1 सू. 15) इति / न्यायकन्दली अनुमेयेन सम्बद्धं प्रसिद्धं च तदन्वित इति अन्वयिनो लक्षणम् / अनमेयेन सम्बद्धं तद्विपरीते च नास्त्येवेति व्यतिरेकिण इति / समस्तं लक्षणमन्वयव्यतिरेकिण इति / . साध्यसाधनत्वं 'सामान्यलक्षणं त्रयाणाम् / यथा प्रमाणानां यथार्थपरिच्छेदकत्वं सामान्यलक्षणम् / [178] विपरीतमतो यत् स्यादिति द्वितीयश्लोकस्यायं विवृणोति-[यत्तु यथोक्तात्त्रिरूपाल्लिङ्गादेकेन धर्मेण द्वाभ्यां वा धर्माभ्यां विपरीतं तदनुमेयस्याधिगमे लिङ्ग न भवतीत्येतदेवाह सूत्रकारः “अप्रसिद्धोऽनपदेशोऽसत सन्दिग्धश्च" / ] अनपदेश इति / अपदेशो हेतुर्न भवतीत्यपदेशोऽत्यनपदेशोऽहेतुरित्यर्थः / अप्रसिद्ध इति विरुद्धासाधारणयो। परिग्रहः, तयोः साध्यधर्मेण सह प्रसिद्ध्यभावादहेतुत्वम् / असन्नित्यसिद्धस्यावरोधः, [टि०] [178-179] साध्यधर्मेण इति :- सपक्षे प्रसिद्धयभावादित्यर्थः / 'अग्न्यध्यवसाय इति :-'सविकल्पक पं०] 204.17) इत्यव्यापकमित्यत्र अन्वयव्यतिरेकीति तृतीयो हेतुरुभयसम्मतत्वाच्चचितः / अथ श्रीधरवाक्यं तत्रके (कं. 204.17) इत्यादि / एके व्योमशिवा...दयः / समानतन्त्रप्रसिद्ध्येति (कं. 204.18) न्यायशास्त्रप्रसिद्धया। अपरे त्विति (कं. 204.19) वयं कन्दलीकाराः / [साध्य ] साधनत्वमिति (कं. 204.21) साध्याव्यभिचारित्वम् / [178] विपरीतमिति (कं. 204.23) रहितम् / प्रसिद्धयभावादिति (कं. 205.3) व्याप्त [प्तेर] भावात्। सपने इति (कं. 205.3) घटे। साध्यधर्मेणेति (कं. 205.3) अनित्यत्वेन / धर्मिणि वृत्त्यभावादहेतुरिति (कं. 205.4) यथा / अनित्यः शब्दः चाक्षुषत्वाद् घटवत्; चाक्षुषत्वं च सपक्षे घटेस्ति न धर्मिणि शब्दे। अत एवासिद्धनामहेत्वाभासः / उमयथादृष्टत्वादहेतुरिति (कं. 205.6) प्रमेयत्वादिः / अनित्यः शब्दः प्रमेयत्वात् प्रमेयत्वं हि नित्यानित्यादिकयोः साधारणत्वादनकान्तिकं कि पटवत् प्रमेयत्वादनित्यः शब्द आहोस्वित् आकाशवत् प्रमेयत्वान्नित्यः / [कु०] समानतन्त्रप्रसिद्धयेत्यर्थः / अपरे त्विति (कं. 204.18) वाक्यभेदेनेति शेषः / साध्यसाधनत्वमिति (कं. 20421) समानतन्त्रप्रसिद्धया। [178] कि साध्यधर्मेति (कं. 205.5) साध्यधर्ममुपस्थाप्य किं तेन सह चरिष्यति उत तद्विपरीतं धर्ममुपस्थाप्य साध्येन सह रहितो भविष्यतीत्येवमाकारस्य सन्देहस्य विषयो भवतीत्यर्थः / 'उभयथा परिदृष्टत्वात् [इति] (कं. 205.6 ) (अ) [स] पक्षे विपक्षे चेति शेषः / 1 भवतीत्याह-दे। 2 सन्दिग्धश्व - कं. 1, कं. 2; कि। 3 सामान्यं - जे. 3 / 4 [ ] एतच्चिह्नान्तर्गतः पाठः कं. 1, कं. 2 पुस्तकयो स्ति। 5 भवतीत्यनपदेशा-कं. 1, कं. 2 / 6 अन्यध्यवसाय अ, प्रतीकमिदं मु पुस्तके नास्ति किन्तु तत्रैव (8) अष्टमे पादटिप्पणे इ पुस्तकस्थं दर्शितम् - जे. 1, जे. 2, जे. 3 इत्यत्र नास्ति / 7 सविकल्पक-अ, ब, क। 8 अत्रके-कं. 1, ब। 9 उभयथा दृष्टत्वात्-कं /