________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् .. 475 न्यायकन्दली सिद्धवात्मव्यावृत्तिः / स्वस्यापि जीवच्छरीरेष्वेवात्मनो बुद्धयादिभिः कार्यः सह कार्यकारणभावे सिद्धे घटादिभ्यो बुद्धचादिव्यावृत्त्या तदुत्पादनसमर्थस्य विशिष्टात्मसम्बन्धस्याभावसिद्धिः। यथा धूमाभावे क्वचित्तदुत्पादनयोग्यस्य वह्नरभावसिद्धिः / यद्येवमास्मापि जीवच्छरीरेषु सिद्ध एव, सम्बन्धिप्रतीतिमन्तरेण सम्बन्धप्रतीते'रसम्भावात् / ततश्च 'व्यतिरेक्यनमानवैयर्थ्यम, निष्पादितक्रिये कर्मणि साधनस्य 'साधनन्यायातिपातात् / नैवम्, स्वसिद्धस्यात्मनः परं प्रत्यसिद्धस्य साध्यत्वात् / न चान्वयाव्यभिचारः प्रतिपादको न व्यतिरेकाव्यभिचार इत्यस्ति नियमहेतुः / तस्माद्वयतिरेकिणोऽपि हेतुत्वात् तेन प्रसिद्धं च तदन्विते इत्यव्यापकम् / अत्रके समानतन्त्रप्रसिद्धचा केवलान्वयिनः केबलव्यतिरेकिणश्च परिग्रह इति वदन्ति / अपरे तु व्यस्तसमस्तं लक्षणं 'वर्णयन्ति / [टि०] तस्मान्नेदं निरात्मकमिति कार्यम् / न चात्राप्यात्मप्रतीतिमन्तरेण निरात्मकप्रतीत्यभावे तन्निबोधोऽपि कथं शक्य इति वाच्यम् / निरात्मकत्वस्य लोष्टादौ परस्य प्रतीतत्वात् / म च 'सपक्षविपक्षव्यावृत्तेन 'गन्धवत्त्वस्येवास्याप्यसाधारणत्वात् / अस्या तु सपक्षेऽविद्यमाने तत्रावर्तमानत्वात् / ननु तहि प्रत्येकसमुदायाभ्यामव्यापकमिदं लक्षणमित्याह साध्यसाधनत्वमिति / [पं०] केवलव्यतिरेकिवादी उत्तरयति तवयुक्तमिति (कं. 204.7) / परस्येति (कं. 204.7) बौद्धस्य / नैरात्म्यमिच्छत इति (कं. 204.8) सर्वे भावा निरास्मान इति वचनात् / स्वस्यापीति (कं. 204.9) वादिनोऽपि / तदुत्पादनसमर्थस्येति (कं. 204.10) बुद्धयादिजननक्षमस्य / क्वचिदिति (कं. 204.11) पर्वतादौ। तदुत्पावनयोग्यस्येति (कं. 204.11) धूमजननक्षमस्य अप्रदीप्तान्धनस्येत्यर्थः / परवाक्यं योवमित्यादि (कं. 204.12) / आत्माऽपि जीवच्छरीरेषु सिद्ध एवेति (कं. 204.13) ततश्चान्वय एव सिद्धः किं व्यतिरेकिणेत्यभिप्रायः / सम्बन्धिप्रतीतिमिति (कं. 204.13) सम्बन्धिनोऽत्र बयादय आत्मा च / सम्बन्धप्रतीतेरिति (कं. 204.13) भावप्रतीतेः / व्यतिरेकिवादी प्राह नैवमिति (204.14) व्यतिरेक्यनुमान युक्तमेवेत्यर्थः / प्रसिद्ध [च] सदन्वित (कं. [कु०] अथेति (क. 204.5) अन्यस्याव्याप्यभूताया निवृत्तेरप्रतीतौ कथं व्याप्तिनिश्चय इत्यर्थः / आत्मनोऽप्रतीतो घटादौ तन्निवृत्तिनं प्रतीयत इति किं नैरात्म्यवादी वदेत् ? किं वा स्वदूष्यः ? नाच इत्याह परस्य सावदिति ' (कं. 204.7) / अन्यथापसिद्धान्तप्रयोगादित्यर्थः / न द्वितीय इत्याह स्वस्यापीति (कं. 204.9) / 'विशिष्टस्यात्मसम्बन्धस्य (कं. 204.10) अष्टद्रव्यातिरिक्तद्रव्यसम्बन्धस्येत्यर्थः / तदुत्पादनयोग्यस्येति (कं. 204.11) आर्दैन्धनवत इत्यर्थः / स्वसिद्धस्येति (कं. 204.14) स्वयं तावन्मम शरीरं' 'ममेन्द्रियाणि' तेन बुद्धिरिति बद्धीन्द्रियशरीरसङ्गात परिहारेणाष्टद्रव्यातिरिक्त एव सिद्धः। स एव परं प्रति केवलव्यतिरेकिणा साध्यत इत्यर्थः / (अ) प्रसिद्धति 1 रसम्भवात-कं. 1, कं.२। 2 व्यतिरेकानुमान-जे.१; जे.३। 3 साधनत्वाति-जे. 1; जे 3 / 4 वदन्ति-कं. 1, कं. 2 / 5 स्वपक्ष-ड। 6 गन्धत्वस्ये वा-अ, ब / 7 विशिष्टात्म...कं। 8 अत्र कन्दल्यां 'प्रसिद्धया' इति प्रतीकं स्यात् तच्च मुद्रितकन्दल्यां नास्ति अतः टीकाकारस्य पुस्तकेऽयं पाठः स्यात् मुद्रितकन्दल्यां तु समानतन्त्रप्रसिद्धचा इत्येव पाठः-सं।