________________ 474 म्यायकन्दलीसंवलितप्रशस्तपावभाव्यम् न्यायकन्दली विषयं बुद्धिगोचरीकरोति परस्य च वक्तुमिच्छति तस्य सर्वस्य प्रमेयत्वाभिधेयत्व'प्राप्तेः / न चास्ति विशेषो विपक्षे सत्यव्यभिचारः कारणं न विपक्षाभावादिति / तेन प्रमेयत्वमभिधेयत्वं गमयति / व्यतिरेकी च सात्मकं जीवच्छरीरं प्राणाविमत्त्वादिति / अस्य पक्षादन्यः सर्व एव विपक्षः, तथापि हेतुत्वं विपर्ययसम्बन्धाव्यभिचारात् / घटादिष्वप्राणादिमत्त्वेन निरात्मकत्वस्य व्याप्तिरपगता, अप्राणादिमत्त्वस्य च जीवच्छरीरे निवृत्तिः प्रतीयते / तत्प्रतीत्या 'तद् व्याप्तस्य निरात्मकत्वस्य निवृत्त्यनुमानम् / / अथ मन्यसे योऽर्थो नावगतस्तद्वयतिरेकोऽपि न शक्यते प्रत्येतुम्, प्रतिषेधस्य : विधिविषयत्वात् / आत्मा च न क्वचिदवगतः, कथं तस्य घटादिभ्यो व्यावृत्तिप्रतीतिरिति / तदयुक्तम् / परस्य तावत् समस्तवस्तुविषयं नैरात्म्यमिच्छतो घटादिभ्यः [टि०] भन्यथासिद्धिस्तहि स्थाल्यादिसद्भावेऽपि वह्नि'सिद्धिः स्याद् अत आह तस्य तु व्यभिचारप्रतीतिः इति / अपवादिका बाधिकेत्यर्थः / न चास्ति इति / विशेषो वक्ष्यमाणलक्षणः / 'तमेव दर्शयति विपक्षे सति इत्यादि। सात्मकम् इति :-एतावता म्रत्येन केवलान्वयिनि त्ररूप्याभावा[६] स्याव्यापकत्वं प्रतिपाद्य केवलान्वयव्यतिरेकिण्यपि परस्तदर्शयति व्यतिरेकी च इत्यादि / अत्र च बौद्ध 'चार्वाकादीनामात्मप्रतीत्यभावादप्रसिद्धविशेषणः पक्षः . [पं०] (कं. 203.22) धूमस्य / अन्यस्य सिद्धिरिति (कं. 203.22) अग्नेः सिद्धिः / ननु यदन्यस्य सद्भावादम्यस्य सिद्धिस्तहि स्थाल्यादिसद्भावेपि वह्निसिद्धिः स्यादित्यत आह तस्य त्वित्यादि (कं. 203.22) / अपवादिकेति (कं. 203.23) बाधिका / शामिति (कं. 203.24) संदेहं नापि / शङ्कामारोहतीत्यस्मात्पुरो यत इत्यध्याहार्यम् / गोचरीकरोतीति (कं. 203.25) प्रमेयत्वपरामर्शः / परस्य च वक्तुमिच्छतीति (कं. 203.25) अभिधेयत्वपरामर्शः / प्रमेयत्वाभिधेयत्वप्राप्तेरिति (कं. 203.25) अभिधेयत्वप्राप्तेरित्यर्थः / अव्यभिचार इति (कं. 203.26) अन्वयस्येति द्रष्टव्यम् / प्रमेयत्वमिति (कं. 204.1) कर्तृभूतम् / सर्व एवेति (कं. 204.2) घटादिः / विपर्ययसम्बन्धाव्यभिचाराविति (कं. 204.3) विपर्ययेण व्यतिरेकेण स च यः सम्बन्धो व्याप्तिस्तदन्यभिचारातु / 'अप्राणादिमत्वेन निरात्मकत्वस्य व्याप्तिरवगतेति (कं. 204.3) अप्राणादिमत्त्वं व्यापकं निरात्मकत्वं व्याप्यं व्यतिरेकिणि।। अप्राणाविमत्त्वस्य च जीवच्छरीरे निवृत्तिः प्रतीयते इति (कं. 204.4) व्यापकं हि निवर्तमानं व्याप्यमपि निवर्तयति / [कु०] व्यतिरेकविषयमिति (कं. 203.24) विपक्षमित्यर्थबुद्धया गोचरीकरणम् / प्रमेयत्वप्राप्ती हेतुर्वक्तुमिच्छाऽभिधेयत्वप्राप्ती तथाप्यव्यभिचारो गमकत्वे कारणमिति. शलामपनयति न चास्ति विशेष इति (कं. 203.26) / विपर्ययसम्बन्धाव्यभिचाराविति (कं. 204.3) साध्यसाधनयोविपर्ययो निरात्मकत्वाप्राणादिमत्वे तयोर्न प्रकरणसमकालात्ययापदिष्टयोरतिव्याप्तिः परिहृता अन्यथा, अन्येनानुमेयेन सम्बन्ध []मित्यनेनातिव्याप्तिपरिहार उच्यत इत्यर्थः। यद्यपि कालात्ययापदिप्टप्रकरणसमयोरनुपजीवने सपक्षधर्मत्वमपि सम्बुद्धौ व्यतिरेकव्याप्तिः तस्या भव्यभिचारात् / निवृत्यनुमानमिति (कं. 204.5) व्यापकनिवृत्ती व्याप्यनिवसेरवश्यंभावित्वादित्यर्थः / 1 च्याप्ते:-जे.१। 2 व्याप्तस्य-कं. 1, कं. 2 / 3 सिदि स्यात् -अ,ब। 4 तामेव-भ। 5 स सात्मकम् -अ, ब / 6 चार्वादीना-अ। 7 अप्रमाणादि-अ पुस्तके; तत्तु न शुद्धम्-सं।