________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली प्रकरणसमेन स्वसामर्थ्यात् साध्यं साधयितव्यमेव / अथ न शक्नोति साधयितुं प्रतिपक्षसंशयाक्रान्तत्वात् ? न हि त्रैरूप्यमात्रेण 'गमकत्वमिति असत्प्रतिपक्षत्वमपि रूपान्तरमास्थेयम्, सति प्रतिपक्षे हेतुत्वाभावादसति तद्भावात् / एवं कालात्ययापदिष्टेऽपि वाच्यम् / यदि त्रैरूप्यमात्रेण लिङ्गत्वं कृतकत्वाद्वह्नावनुष्णत्वमस्त्येवेति कथमनैकान्तिकत्वम् ? अथ सत्यपि कृतकत्वे वह्नावनुष्णत्वं न भवति 'प्रत्यक्षेणवोष्णताप्रतीतेः, तदा प्रत्यक्षाविरोधे सति प्रतिपादनं न तद्विरोध इत्यबाधितविषयत्वमपि रूपान्तरमनुसरणीयम् / तस्मादन्यथोच्यते, पक्षो नाम साध्यपर्यायः, साध्यं च तद्भवति यत्साधनमर्हति, सम्भाव्यमानप्रतिपक्षश्चार्थो न साधनमर्हति, वस्तुनो द्वैरूप्याभावादित्ययमपक्षधर्म एव। तथा प्रत्यक्षादिविरुद्धोऽपि पक्षो न भवति, रूपान्तरेण सिद्धस्य रूपान्तरेण साधनानहत्वात् / अतः प्रकरणसमकालात्यया'पदिष्टावपक्षधर्मावुभौ 'यदनुमेयेन सम्बद्धम्' 'इत्यनेनैव पराहतो, अनुमेयाभासाश्रयत्वात् / [टि०] प्रकरणसमे 'तु तुल्यबलप्रमाणसम्भवितप्रतिपक्षत्वान्न पक्षतां, ततः पक्षलक्षणाभावात् तत्र च वर्तमानो हेतुराश्रयासिद्ध इत्यभिप्रायः। 'नयायिकैस्तु 'विपरीतार्थनिश्चायकम्, विपरीतार्थसम्भावकं प्रमाणमुपजीव्य पक्षधर्मताया अभावो 'वैशेषिकैस्तावदभ्युपगम्यते 'इत्यत उपजीव्यमेव बाधितविषयत्वं सत्प्रतिपक्षत्वं च "मुख्यतया दोषोऽङ्गीक्रियते इति / [पं०] अथ श्रीधरः प्राह एतदयुक्तमिति (कं. 203.1) / एतत् प्रकरणसमकालात्ययापदिष्टयोरनकान्तिकत्वप्रतिपादनमयुक्तमित्यर्थः / पक्षव्यापकत्वे इति (कं. 203.1) पक्षधर्मत्वे। साधयितव्यमेवेति (कं. 203.3) : गमकत्वेनाभिमतस्य पक्षधर्मत्वादित्रयस्याविकल्पनात् / असत्प्रतिपक्षत्वमपि रूपान्तरमास्थेयमिति (कं. 203.5) मैयायि कानां मते हेतुः पञ्चरूपः पक्षधर्मत्वम् 1, सपक्षे सत्वं 2, विपक्षे चासत्वं 3, असत्प्रतिपक्षत्वं 4, अबाधितप्रत्ययत्वं 5 चेति / तद्धावादिति (कं. 203.6) हेतुत्वभावात् / बहावनुष्णत्वमस्त्येवेति (कं. 203.7) त्ररूप्यभावात् / प्रतिपादनमिति (कं. 203.9) गमकत्वम् / न तद्विरोध इति (कं. 203.9) न प्रत्यक्षविरोधे / रूपान्तरमिति (कं. 203.9) हेतोः सत्कम् / अपक्षधर्म एवेति (कं. 203.12) असिद्धः। रूपान्तरेण उष्णत्वेन / रूपान्तरेणेति (कं. 203.13) अनुष्णत्वेन / अनुमेयाभासाश्रयत्वादिति (कं. 203.14) पक्षभासाश्रितत्वात् / [कु०] सति प्रतिपक्ष इति (कं. 203.5) अन्वयव्यतिरेकाभ्यां त्रैरूप्यवदसत्प्रतिपक्षत्वस्यापि लिङ्गरूपत्वादित्यर्थः / एवं कालात्यया पदिष्टोऽपीति (कं. 203.6) अननुसन्धानेन विपक्षत्वहेतुनैव साध्यावस्थात्तदनुसन्धाने तु तेनैव दूषितस्य दूषणान्तरं मृतमारणकल्पमित्यर्थः / तस्मादन्यथेति (कं. 203.10) यस्मात्तदभावे च नास्त्येवेत्यनेन दुर्वचनं तयोरनपजीवनेनैकान्तिकत्वमपि सुवचम् / मृतमारणन्यायश्चाप्युभयत्रापि तुल्यस्तथापि प्रथमरूपप्रतिपत्यवसरे रूपान्तरप्रतिपत्तेरभिसम्भवत्याः परित्यागे न कारणमस्तीति भावः / सामान्यलक्षणत्वमभिप्रेत्य शङ्कते। 1 गमकत्वम् -जे. 1; जे. 2 / 2 प्रत्यक्षेणो-कं. 1, कं. 2 / 3 पदिष्टावुभौ-कं. 1, कं. 2; पदिष्टावपक्षधर्मावेती-जे. 1; जे. 2 / 4 इत्यन्तेनैव निराकृतौ-कं. 1; कं. 2 / 5 'तु' अबपुस्तकयो स्ति। 6 अत्र-नैयायिकस्तु विपरीतार्थनिश्चायकं प्रमाणमुपजीव्य यत्र पक्षधर्मतायाः अभावो वैशेषिकस्तावद् अभ्युपगम्यते (तत्र) उपजीव्यमेव बाधितविषयत्वं सत्प्रतिपक्षत्वं च मुख्यतया दोषोऽङ्गीक्रियते इत्यन्वयः / 7 विपरीतार्थ:-भ। 8 शेषिक:-अ / 9 इत्यत्र- अ, ब / 10 -मुष्यतया-अ, ब / 11 * पदिण्टेऽपि - कं /