________________ टिप्पणपञ्जिकाकुसुमोदगमाविटीकात्रयोपेतम् / न्यायकन्दली 'पविष्ट उभयपक्षसाम्यान्न प्रकरण समोऽन्यतरपक्षनिर्णयाय कल्पते। यथा नित्यः शब्दोऽनित्यधर्मानुपलब्धेः, '[अनित्यः शब्दो नित्यधर्मानुलब्धेरिति] शब्द नित्यानित्यधर्मयोरनुपलम्मानित्यानित्यत्वसंशये सति तद्विचारोऽभत्, अन्यतरधर्मग्रहणे तत्त्वनिश्चयाद्विचारस्याप्रवृत्तेः / तत्रानित्यधर्मानुपलम्भो 'नित्यत्वविनिश्चयार्थमुपदिष्टः, नित्यधर्मानुपलम्भोऽनित्यत्वविनिश्चयार्थमुपदिष्टः, नित्यधर्मानुपलम्भं प्रतिपक्षमनतिवर्तमानो न निर्णयाय कल्पते तत्प्रतिबन्धात् / स चायं संभवत्प्रतिपक्षे मिणि वर्तमान एकस्मिन्नन्ते नियतो न भवतीत्यनैकान्तिकः / एवं कालात्ययापदिष्टोऽप्यनैकान्तिकः, प्रत्यक्ष निश्चितोष्णत्वे वह्नौ विपक्षे 'कृतकत्वस्य भावात् / / 'एतदयुक्तम् / यदि पक्षव्यापकत्वे सति सपक्षे सद्भावो 'विपक्षाच्च तस्य व्यावत्तिरित्येतावतव हेतोर्गमकत्वम्, तदास्तु नाम साध्यमिणि प्रतिपक्षसम्भावना तथापि [टि०] अवयविनश्न पक्षीकृतत्वात् परमाण्वव्यापकत्वेऽपि न भागासिद्धिरिति पक्षधर्मत्व"मप्यस्ति सपक्षे च घटादी सत्त्वात् सपक्षसत्त्वमप्यस्तीति कृतकस्य त्ररूप्यम् / / सिद्धान्तवाद्याह - पक्षो नाम साध्यपर्याय इति बलवत्प्र"माणानिश्चिततुल्यबलप्रमाणासम्भवि प्रतिपक्षी जिज्ञासितधर्म"विशिष्टो हि पक्षः साधनमहति / अत्र कालात्ययापदिष्टे बलवत्प्रमाणनिश्चितप्रतिपक्षत्वान्न प्रतिपक्षत्वम् / [पं०] नित्यः शब्द इति (कं. 202.19) शब्दो नित्य इति पक्षो दृष्टव्यः / प्रथमं हि धर्मिनिर्देशः कार्यस्तदनु धर्मनिर्देशः कार्योऽन्यथा अवयवविपर्यासो नाम निग्रहस्थानमापतति / अनित्यः शब्द इति (कं. 202.19) अत्रापि शब्दोनित्म इति पक्षो द्रष्टव्योऽन्यथाऽवयवविपर्यासाख्यनिग्रहस्थानप्रसङ्गात् / अनुपलम्भादिति (कं. 202.20) युगपदनुपलम्भनात् / तत्त्वनिश्चयाद्विचारस्याप्रवृत्तरिति (कं. 202.21) ("संदेतोरिमि) संदिग्धे हि हेतुः प्रयुज्यते / अनतिवर्तमान इति (कं. 202.23) अनतिक्रामन् / तत्प्रतिबन्धाविति (कं. 202.24) तेन प्रतिपक्षण प्रतिक्षेपात् / एकस्मिन्नन्ते इति (कं. 202.25) एकस्मिन्नशे नित्यत्वेऽनित्यत्वे वा। वह्नौ विपक्षे कृतकत्वस्य भावापिति (कं. 202.26.) 'अनुष्णो वह्निः कृतकत्वाद् घटवत्' अस्य हि प्रत्यक्षनिश्चितोष्णत्वे वह्निविपक्षस्तत्र कृतकस्य भावाद-नैकान्तिकः / [कु०] त्ययापदिष्टयोरतिव्याप्तेः परिहृतत्वादिति भावः / सन्दिग्धविपक्ष इति (कं. 202.15) बलवता प्रमाणेन साध्यविपर्ययस्य ग्रहणाद्विपक्षत्वेन निश्चित इत्यर्थः / तत्र प्रकरणसमस्य सन्दिग्धविपक्षवृत्तितयाऽनैकान्तिकत्वं समानतन्त्र तल्लक्षणब्याख्यानेन दर्शयति तथा चेति (कं. 202.16) / एतावतेति (कं. 203.2) यदि त्ररूप्यमित्यर्थः / 1 उपदिष्ट:-कं. 1: कं. 2 / 2 साम्ये-कं. 1; कं. 2 / 3 [ ] एतच्चिह्नान्तर्गतः पाठः जे. 1, जे. 2 जे. 3 पुस्तकेषु नास्ति। 4 नित्यत्वविनिश्चयार्थमपदिष्ट: नित्यत्वधर्मानुपलम्भं-जे. 1, जे. 2, जे. 3 / 5 कृतकस्यजे. 1; जे. 2 / 6 एतदप्ययुक्तम् - जे. 1; जे. 2 / 7 विपक्षाच्च व्यावृत्ति-कं. 1, कं.२। 8 ने स्व-अ। 9 विपक्ष-ड। 10 त्वस्या-अ, ब, क / 11-12 प्रमाण-अ, ब, क। 13 शिष्टो-अ। 14 पक्षत्वं ततः प्रकरणसमे-अ, ब; पक्षत्वां करणे-ड। 15 निरर्षकमिव भाति / इदं पुनरावृत्तं सकृदस्माभिर्गृहीतम् / .