________________ न्यायकन्दलीसंवलितप्रशस्तपावसाव्यम् न्यायकन्दली तस्माद्वधर्म्यदृष्टान्तेऽनेष्टोऽवश्यमिहाश्रयः। तवभावेऽपि तन्नेति वचनादपि तद्गतेः // इति / तनिवृत्त्यर्थं प्रमाणत इति / साध्यविपरीते यत् प्रमाणतोऽस'तल्लिङ्गन तु वाङमात्रेणेत्यर्थः / प्रमाणशून्यस्य वचनमात्रस्य सर्वत्र सम्भवे हेतुहेत्वाभासव्यवस्थानुपपत्ति'प्रसङ्गः। अतिव्यापकमिदं लिङ्गलक्षणम्, प्रकरणसमे कालात्ययापविष्टे च भावादिति चेत् ? अत्राह कश्चित्-प्रकरणसमकालात्ययापदिष्टावनैकान्तिक एवान्तर्भवतः, संदिग्ध- . विपक्षे साध्यमिणि प्रकरणसमस्य भावानिश्चितविपक्षे च कालात्ययापदिष्टस्य 'प्रवत्तेः। .. तथा च प्रकरणसमः 'यतः प्रकरणचिन्ता स निर्णयार्थम पदिष्टः प्रकरणसमः' 'प्रक्रियेते प्रस्तुयेत इति प्रकरणे पक्षप्रतिपक्षौ, तयोश्चिन्ता विचारः, सा यत्कृता स निर्णयार्थम-. [टि०] साध्यस्यानुष्णत्वस्य विपरीतेनोष्णत्वेनाक्रान्तत्वात् पक्षीकृत एव वह्निविपक्षस्तत्र वर्तमान एकस्मिन्नन्ते नियतो न भवतीत्यनकान्तिक इत्यर्थः / ] 'एवं कालात्ययापदिष्टेऽपि इति वह्निरनुष्णः इत्यत्र हि भौमानलेन्धनत्वादिविशेषाविवक्षया तेजोऽवयवी पक्षीकृतः, तेन सौरालोकोऽपि पक्षान्तर्भूत एव न तु विपक्ष इति न तावदस्य हेतोविपक्षवृत्तित्वम् / [पं०] इसमपीति (कं. 202.7) कृतकत्वादि / तस्मादित्यादि श्लोकः (क. 202.9) / व्याख्या-यस्मात्कारणाद् यत्रे नास्ति तत्रेदमपि नास्तीति वचनादपि साध्यव्यावृत्त्या साधनव्यावृत्तिप्रतीतिसंभवस्तस्मात्कारणादिह वैध्ययं दृष्टान्ते / मात्रयो गगनादिरवश्यं निश्चितेन दृष्ट: वैधHदृष्टान्ते अवश्यमाश्रयेण भवितव्यमिति निश्चयो नास्ति तत्त्वसदपि हि मगनं दृष्टान्ततया प्रयोज्यमित्यर्थः / न चाश्रयमन्तरेण कथं वैध→विगम: ? उच्यते - तदभावेऽपि तदपि न (के.. 202.10) इति वचनादपि वैधय॑विगमादिति श्लोकार्थः / एकदेशीयः प्राह अतिव्यापकमित्यादि (कं. 202.13) / भावादिति (कं. 202.14) तत्रापि भाष्यसक्तश्लोकलक्षणभावादित्यर्थः / ___अत्राह कश्चिदिति (कं. 202.14) अत्रोत्तरमाह बौद्ध इत्यर्थः / सन्दिग्धविपक्षे इति (कं. 202.15) सन्दिग्धो विपक्षो यत्रेति समासः। साध्यमिणीति (कं. 202.15) शब्दादी। सा इति (कं. 202.18) चिन्ता / [कुo] साध्यविपरीत इति (कं. 202.11) अभावस्यापि भावात्तुल्ययोगक्षेमतया प्रमाणगम्यत्वे न तुच्छत्वम् / तथा च यत्रेदं तदमिति यथा सपक्षः प्रामाणिक इष्यते तथा व्यतिरेकनिरूपणे प्रामाणिक एव दृष्टान्त एषितव्यः / इतरया सपक्षस्य प्रामाणिकस्य स्वीकारप्रसङ्गादिति भावः। "अस्त्येवमपीत्यत आह प्रमाणशून्यस्येति (कं. 202.12) / कल्पिते विपक्षे व्यावृत्तिकल्पनावदनुवृत्तेरपि कल्पितया हेतोरपि हेत्वाभासत्वप्रसङ्गात् / एवं कल्पिते सपक्षेऽनुवृत्तिकल्पनया असाधारणस्यापि हेतुत्वप्रसङ्गादिति भावः / नत्विति-व्यापकमिति / तथा चाबाधितविषयत्वासत्प्रतिपक्षत्वे अपि रूपे इति भावः / अनेकान्तिक एवेति (कं. 202.14) ततश्च तदभावेऽपि न नास्त्येवेत्यनेनैव प्रकरणसमकाला१ दृष्टान्तोऽनिष्टो-कं. 1, कं. 2 / 2 असल्लिङ्गम्-कं. 1; कं. 2 / / प्रसङ्गात्-जे. 1, जे. 2, जे. 3 / 4 वृते:-कं.१; कं. 2 / 5 उपदिष्ट:-कं.१, कं.२। 6 प्रक्रियते प्रस्तूयते इति प्रकरणं-कं.१ .2 / 7 पदिष्टोऽपि-ब, क। 8 दृष्टान्तो-कं.१। 9 तन्न- कं. 1 / 10 अस्त्येवमित्यारभ्य..हेतुत्वप्रसङ्गात् इति पर्यन्तोभागः पुनरावृत्तः हस्तलिखितपुस्तके-सं /