________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् न्यायकन्दली धर्मिणा सह यद्देशविशेषे कालविशेषे वा 'सहचरितं 'सम्बद्धम्, अनुमेयधर्मान्विते चान्यत्र सपक्षे सर्वस्मिन्नेकदेशे वा प्रसिद्धं प्रमाणेन प्रतीतम्, अनुमेयविपरीते च साध्यव्यावृत्तिविषये चार्थे सर्वस्मिन् प्रमाणतोऽसदेव 'तदप्रसिद्धार्थस्य साध्य'धर्मिण्यप्रतीतस्यार्थस्य साध्यधर्मस्यानुमापकं लिङ्गं भवति / यावति देशे काले वा दृष्टान्तर्मिणि लिङ्गस्य साध्यधर्मेणाविनाभावो 'निशितस्तावत्येव देशे काले वा साध्यमिणि प्रतीयमानस्य 'गमकत्वमिति प्रतिपादनार्थमुक्तम्-देशविशेषे कालविशेषे वा सहचरितमिति / सर्वसपक्षव्यापकवत् सपक्षकदेशवृत्तेरपि हेतुत्वार्थ सर्वस्मिन्नेकदेशे वा प्रसिद्धमित्युक्तम् / 'समस्तविपक्षव्यापकवद्विपक्षकदेशवृत्तेरप्यहेतुत्वावद्योतनार्थं सर्वस्मिन्नसदेवेति पदम् / केचित् प्रवादुका एवं वदन्ति-नावश्यं प्रमाणसिद्धो वैधHदृष्टान्त एव 'एष्टव्यः 'यत्रेदं नास्ति तत्रेदमपि नास्ति' इति वचनादपि साध्यव्यावृत्त्या साधन व्यावृत्तिप्रतीतिसम्भवात् / तथा च तेषां ग्रन्थः[टि०] स्यात् धूमस्यापि वा लिङ्गाभावता स्यात् / अत्राह इति कश्चिद् बौद्धः। यथा नित्यः शब्दः इति :- एतच्च ग्रन्थरीत्योक्तम् वादकाले तु शब्दो नित्य इति प्रथमं धर्मनिर्देशः कार्य:, अन्यथाऽवयवविपर्यासो "नाम निग्रहस्थानं स्यात् / नित्यानां व्योमादीनामनित्यानां घटादीनां यो धर्मावकृतकत्वकृतकत्वे तयोः / "[एवं कालात्ययापदिष्टोऽपि इति [20] विपक्षः। तत्रैकदेशे विद्युदादौ विद्यतेऽनित्यत्वं नाकाशादौ / एते प्रयत्नानन्तरीयकत्वादयो हेतवः सपक्षकदेशप्रसिद्धा अपि सम्यग्घेतव इत्यर्थः / अनुमेय-विपरीते चेति (कं. 201.24) व्याख्येयं पदे, साध्यव्यावृत्तिविषये चेति (कं. 201.25) व्याख्यानपदे / अर्थे इति (कं. 201.25) विपक्षे / तावत्येव देशे काले चेति (कं. 202.2) नहि पर्वते धूम उपलभ्यमानो देशान्तरस्थदहनं गमयति किन्तु पर्वतस्थमेव / नापि मध्याह्न धूमो रात्रिसत्कवह्वर्गमक: किन्तु मध्याह्नसत्कस्य / दृष्टान्ते तथैव दर्शनात् महानसादौ हि यत्रैव यदैव च धूमस्तत्रैव तदैव चाग्निमनुमापयति / सपक्षेकदेशवृत्तरिति (कं. 202.4) प्रयत्नानन्तरीयकत्वादेः। विपक्षकदेशवृत्तरिति (कं. 202.5) यथा च 'अयं पिण्डो गौविषाणित्वात्' अयं हि सपक्षव्यापकः सर्वगोपिण्डेषु वृत्तेः, विपक्षे च महिषादौ वर्तते नाश्वादौ / केचिदिति (कं. 202.6) बौद्धाः / नावश्यं "प्रमाणसिद्ध इति (कं. 202.6) बौद्धान्तं हि शब्दानित्यत्वे साध्ये व्यतिरेके "गगनम् / तच्च तेषां न प्रमाणसिद्धम् / यत्रेवमिति (कं. 202.7) भत्र 'इदम्' अनित्यत्वम् / [कु०] क्वचित्प्रयोजकत्वादेवमुक्तमिति भावः / अनयोश्चोदाहरणम्-एवं सर्वत्र देशकालाविनाभूतमितरस्य लिङ्गमित्येतद्भाष्यव्याख्यानावसरे वक्ष्यति / अयं तेषामाशयः, व्यावृत्तेस्तुच्छत्वं तादृशेनाप्यधिकरणेन निरूपणं सम्भवतीति वैधर्म्यदृष्टान्ते वैधर्योदाहरणे अवश्यं प्रामाणिक आश्रयो नेषितव्यः / 1 सहचरितं च-जे. 1, जे. 2 / 2 सम्बद्धमिति-जे.३। 3 तदप्रसिद्धस्य-जे. 1, जे. 2, जे. 3 / 4 धर्मिणो -कं. 1, कं. 2 / 5 निरूपितः-जे. 1, जे. 2, जे. 3 / 6 गमक -कं. 1, कं.२। 7 सर्व-जे. 3 / 8 द्रष्टव्यः-कं. 1; कं. 2 / 9 व्यावृत्तिसम्भवात्-जे. 1, जे. 2 / 10 नाम-अ। 11 [ ] एतच्चिह्नान्तगंतः पाठः भबपुस्तकयो स्ति / 12 प्रमाणसिद्धौ-कं.१। 13 गमनम्-ब /