________________ 468 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् [176-177] विपरीतमतो यत् स्यादेकेन द्वितयेन वा।। विरुद्धासिद्धसन्दिग्धमलिङ्ग 'काश्यपोऽब्रवीत् // यदनुमेयेनार्थेन देशविशेषे कालविशेषे वा सहचरितमनुमेयधर्मान्विते चान्यत्र सर्वस्मिन्नेकदेशे वा प्रसिद्धमनुमेयविपरीते च सर्वस्मिन् प्रमाणतोऽसदेव, तदप्रसिद्धार्थस्यानुमापकं लिङ्गं भवतीति / न्यायकन्दली [176] लिङ्ग व्याख्याय लिङ्गाभासं व्याचष्टे-विपरीतमतो यत् स्यादिति / अत उक्तलक्षणाल्लिङ्गाद्यदेकेन 'द्वितयेन वा लिङ्गलक्षणेन विपरीतं रहितं विरुद्धमसिद्धं सन्दिग्धं तत् कश्यपात्मजोऽलिङ्गमनुमेयाप्रतिपादकमब्रवीत् / असिद्धमनुमेये नास्ति, अनेकान्तिकं विपक्षाद'व्यावृत्तमित्यनयोरेकेन लिङ्गलक्षणेन विपरीतत्वम् / विरुद्धं सपक्षे नास्ति, विपक्षादव्यावृत्तमिति तस्य द्वितयेन लिङ्गलक्षणेन रहितत्वम् / यदनुमेयेन सम्बद्धमिति श्लोकार्थ विवृणोति-यदनुमेयेनेति / अनुमेयेनार्थेन साध्य [टि०] [176] देश विशेषे इति :-कश्मीरेषु वाटिकारक्षणं स्वर्ण 'शा(श)लाकोमे, प्रातर्जयनान्दीनिनादो नृपतिप्रबोधे लिङ्गमिति / यत्रदं नास्ति इति :- इदं साध्यं यत्र नास्ति, तत्रेदं साधनमपि नास्ति यथा वाजिविषाणे इति प्रमाणासिद्ध एव वचनमात्रेणापि. दृष्टान्ते व्यावृत्तिः प्रतीयते इत्यर्थः / प्रमाणशून्यस्य इति मशकवतेरपि लिङ्गतां [पं०] [176] एकेनेति (कं. 201.13) एकेन लिङ्गलक्षणेन रहिती असिद्धानकान्तिको, द्वितीयेन लिङ्गलक्षणेन रहितस्तु विरुद्धः / अनुमेयाप्रतिपादकमिति (कं. 201.14) आभासत्वात् / असिद्धमनुमेये नास्तीति (कं. 201.15) अपक्षधर्मोऽसिद्ध इति वचनात् / अनयोरिति (कं. 201.16) असिद्धानकान्तिकयोः। सपक्षे इति (कं. 201.16) महानसादो। एकदेशे वेति (कं. 201.24) सपक्षकदेशे वा प्रसिद्धं, यथा 'अनित्यः शब्दः प्रयत्नानन्तरीयकत्वात्' / प्रयत्नानन्तरीयः पक्षो, घटादिः सपक्षः, तत्र सर्वत्र विद्यतेऽनित्यत्वम् / अप्रयत्नानन्तरीयक: पक्षोऽस्य विद्युद् आकाशादि [कु०] [176] लिङ्ग व्याख्यायेति (कं. 201.12) लिङ्गलक्षणराहित्येन लिङ्गाभासनिश्चयो वा लिङ्गनिश्चयो वेति विकल्पप्रदर्शनार्थमिति शेषः / अनुमेयाप्रतिपादकमिति (कं. 201.14) अनुमेयाप्रतिपत्त्यननुकूलमित्यर्थः / ननु देशकालविशेषावप्रयोजको अन्यथा महानसादिदेशविशेषस्य प्रातरादिकालविशेषस्य वाऽभावे धूमस्या'गमकत्वप्रसङ्गात् / अत आह यावति देश इति (कं. 202.1) / क्वचिद्प्रयोजकत्वो [त्वे] वि(ति) देशकालविशेषयोः 1 कश्यपो-दे। 2 द्वितयेन-कं. 1, कं. 2, द्वितयेन च जे.३। 3 अव्यावृत्तमनयो-जे. 1; जे. 2 / 4 अस्य-जे.३। 5 विशेष -अ, ब, क। 6 शिल्पकोद्गमे-म, ब; स्वर्णाशकोद्गमे-क /