________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपैतम् .. न्यायकन्दली यः साध्यसाधनव्यावृत्तिविषयोऽर्थः स विपक्षः। साध्यसाधनयोावृत्तिनं समुदितेभ्यः, किन्तु प्रत्येकमेव सम्भवतीति प्रत्येकमेव विपक्षता। पक्षस्तु स भवति यत्र वादिना साध्यो धर्मः प्रतिपादयितुमिष्यते / न च वादिना पार्थिवपरमाणावेकस्मिन्ननित्यत्वं प्रतिपादयितुमिष्यते, किन्तु चतुर्वपि परमाणुष्विति समुदितानामेव पक्षत्वे स्थितेऽसिद्धवद्भागासिद्धस्यापि व्युदासः, अनुमेयसम्बन्धाभावात् / प्रसिद्धं च तदन्वित इति / तदिति योग्यत्वात् साध्यधर्मः परामृश्यते / तदन्विते साध्यधर्मान्विते 'सपक्षे प्रसिद्धं परिज्ञातमिति विरुद्धासाधारणयोर्व्यवच्छेदः / तदभावे च नास्त्येवेति / अत्रापि तदिति साध्यधर्मस्यैव परामर्शः, तस्य साध्यधर्मस्याभावे नास्त्येव न पुनरेकदेशेऽस्त्यपीत्यनैकान्तिकव्यवच्छेदः / तल्लिङ्गमनुमापकम् अनुमेयस्य ज्ञापकम् / [टि०] प्रत्येकमेव इति:-'ये हि साध्यसाधनव्यावृत्तिविषयास्ते प्रत्येकं विपक्षाः तेषा'मेककोऽपि विपक्षो न पुन: 'समुदितः समवायः सः, पक्षस्तु यावान् शब्देनोल्लिखितस्तावति सर्वस्मिन्नपि समुदाये लिङ्गमन्वेष्यम् / न पुनरेक देशेऽप्यस्ति इति :- नन्विदानीमेवेकैकस्यापि पृथक् विपक्षत्वं प्रतिपादितम्, तत 'एव' कारेणान्तरेणापि विपक्षकदेशवृत्तेरपि विपक्षवृत्तित्वाद्धेतुत्वाभावः सिद्ध एव किमर्थमेवकारः ? नवम्, यत्र विपक्षकदेशे नास्ति तावतांशेन हेतुत्वप्रसङ्गात्, भत्र च 'एवकारकरणेन सपक्षकदेशवृत्तेरपि हेतुत्वम्, भन्यथा सर्ववाक्यानामवधारणपरत्वा तस्य हेतुत्वं न स्यात् / [पं०] यः साध्येत्यादिना (कं. 201.2) / समुदितेभ्य इति (कं. 201.3) समुदितेभ्योऽर्थेभ्यो न साध्यसाधनयो वृित्तिरित्यर्थः / किन्तु प्रत्येकमेव सम्भवतीति (कं. 201.3) यथा अनित्यः शब्दः कृतकत्वाद घटवत् / यदनित्यं न - भवति तत्कृतकमपि न भवति यथा व्योम / एवं व्योम्ना व्यावृत्ते साध्यसाधने / एवं दिक्कालादिष्वपि प्रत्येक व्यावृत्ते / सपने 'च प्रसिद्धमिति (कं. 201.8) न केवलमनुमेयेन सम्बद्धं [सपक्षे च प्रसिद्धम् / विरुद्धासाधारणयोव्र्यवच्छेद इति (कं. 201.9) विरुद्धो हि विपक्षे एव भवति, असाधारणस्तु न सपक्षे नापि विपक्षे भवति / [कु०] असिद्धवदिति (कं. 201.6) एकव्यक्तिपक्षीकरण इति शेषः। भागासिद्धस्यापीति (कं. 201.6) प्रयोगलाघवायानेकव्यक्तिपक्षीकरण इति शेषः / योग्यत्वादिति (कं. 201.8) सपक्षे सत्त्वप्रतिपादनस्य प्रकृतपक्षपरामर्शेऽनुपपत्तिरयोग्यता। व्यक्तिद्वाराऽन्वयस्य दुनिश्चयत्वमभिप्रेत्य म्याचष्टे "साध्यधर्मसमानेति (कं. 201.8) / प्रसिद्धं परिजातमिति (कं. 201.9) अनेनान्वयो ज्ञात एव / लिङ्गलक्षणमिति / दर्शयति तदभावे च नास्त्येवेति (कं. 201.9) / वक्ष्यमाणावधारणपर्यालोचनया तदन्वित[त्वं] क्वचिदप्रसिद्धं चेति क्वाचित्कप्रसिद्धिमत्वादित्वम् / च शब्दः सपक्षकदेशवृत्तेरपि हेतुत्वं दर्शयतीति द्रष्टव्यम् / अभावेति (कं. 201.10) विपक्षे / अनेन व्यतिरेकेऽपि निश्चितं लिङ्गलक्षणमिति द्रष्टव्यम् / . 1 सपक्षे च-जे. 1, जे. 2, जे. 3 / 2 य हि-अ। 3 मेकैको न पुनः-अ; मेकैको विपक्षो न पुनः-ब, क / 4 समुचितुः-छ। 5 देशेऽस्त्यपि म. देशेऽप्यस्ति-जे. 1, जे. 3 / 6 एवकारणेन-अ, ब / 7 तस्यैव हेतुत्वं-अ, ब / . 8 'च'-कं. 1 पुस्तके नास्ति / 9 [ ] एतच्चिह्नान्तर्गतो पाठो 'ब' पुस्तके नास्ति / 10 साध्यधर्मान्विते.कं / -