________________ न्यायकन्दलीसंवलितप्रशस्तपावमाव्यम् प्रशस्तपादभाष्यम् [175] लिङ्ग पुनः यदनुमेयेन सम्बद्धं प्रसिद्धं च तदन्विते / तदभावे च नास्त्येव तल्लिङ्गमनुमापकम् // न्यायकन्दली वक्ष्यामः / अन्ये तु विद्याधिकारेण संशयविपर्ययौ व्युदस्यन्ति / अनर्थजायाश्च स्मृतेव्युदासार्थ 'तद्धि द्रव्यादिषु पदार्थेषुत्पद्यते' इत्यावर्त्तयन्ति / तदयुक्तम्, वाक्यलभ्येऽर्थे प्रकरणस्यानपेक्षणात्, अनर्थजत्वात्, स्मृतिव्युदासे चातीतानागतविषयस्य लैङ्गिकज्ञानस्यापि व्युदासप्रसङ्गात् / [175] लिङ्गस्य लक्षणमाह-लिङ्ग पुनरिति / अनुमेयः प्रतिपिपादयिषितधर्मविशिष्टो धर्मी, तेन यत् सम्बद्धं तस्मिन् वर्तत इत्यर्थः / यथा विपक्षकदेशे वर्तमान मपि लिङ्ग विपक्षवृत्ति भवति, एवं पक्षकदेशे वर्तमानमनुमेयेन सम्बद्धमेव / ततश्चतुर्विधाः परमाणवोऽनित्या गन्धवत्त्वादित्यस्यापि भागासिद्धस्य हेतुत्वं प्राप्नोतीति चेत् ? 'न, वैधात् / [वि.] नन्वनुमेयेन सम्बद्धमित्यत्र सर्वस्मिन्नित्यभणनाद् भागासिद्धस्यापि हेतुत्वं स्यादित्याशडते यथा 'विपक्षकदेशेति / यः साध्यसाधनव्यावृत्तिविषय इति :-ननु यदि साधनव्यावृत्तिविषयो विपक्षः तदा विपक्षे वर्तमानो हेतुरनकान्तिक इति 'न घटेत, हेत्वाधारस्य विपक्षत्वाभावात् विपक्षत्वे च तत्र हेतो त्यभावादिति / नैवम् , प्रस्तुतस्य सम्यग्हेत्वभिप्रायेणेदमुक्तम्, सम्यग्धेतोः साध्यसाधनव्यावृत्ते विपक्षे वृत्त्यभावात्, विपक्षस्तु साध्यविपरीतधर्मवेति / किन्तु [पं०] सम्यग्जन्मेत्यत्र (कं. 200.9) काक्वा व्याख्याः / अनुभवपारतन्त्र्यादिति (कं. 200.12) अर्थजन्यस्वात्। अन्ये विति (कं. 200.12) व्योमशिवप्रायाः। अतीतानागतविषयस्येति (कं. 200.15) अभूद् वृष्टिस्तथाविधनदीपूरदर्शनात् / भविष्यति वृष्टिस्तथाविधमेघोन्नत्यन्यथानुपपत्तेः / व्युवासप्रसङ्गादिति (कं. 200.16) तस्याप्यनर्थजत्वात् / / [175] 'अनुमेय इति (कं. 200.23) व्याख्येयपदम् / प्रतिपिपादयिषितधर्मविशिष्टो धर्मीति व्याख्यानपदम् / परवाक्यं यथेत्यादि (कं. 200.24) / चतुबिधा इति (कं. 200.25) पार्थिवाप्यतैजसवायवीयभेदात् / भागासिद्धस्यति (कं. 201.1) पार्थिवानामेव गन्धवत्वाद् भागे आप्यादित्रयेऽसिद्धं गन्धवत्त्वास्यं लिजम / श्रीधर वाक्यं नेत्यादि (कं. 201.2) / वैधादिति (कं. 201.2) दृष्टान्तदाान्तिकवैषम्यात् / वैधम्यंमेवोपपादयति [कु.] दयिषितेति (कं. 200.23) / अनेन पक्षत्वं दर्शितम् / समुदायस्य पक्षत्वमवलम्ब्य भागासिद्धेति न व्याप्तिमाशङ्कते यति ( कं. 200.24) / समुदायिन एव पक्षाः, एवं सति भागासिद्धोऽपि स्वरूपासिद्ध एवेत्यभिप्रायवान् परिहरति नेति (कं. 201.2) / वैधयं दृष्टान्तस्य बैधात् / ‘स न समुदितेभ्य इति (कं. 201.3) न समुदायादित्यर्थः / किन्तु चतुर्वपि इति (कं. 201.5) न प्रत्येकमिति शेषः / समवितानामिति (कं. 201.6) न पुनः प्रत्येकमित्यर्थः / 1 मपि च - कं. 1; कं. 2 / 2 नैवं-जे. 1, जे. 2 / 3 विपक्षकदेश-मु. जे. 1, जे. 3 / 4 इति घटेत-अ, ब / 5 व्यावत्यभावादिति-अ, ब, क / 6 जानीयस्थ-कं.१। ७अनुमेयमिति पञ्जिका-अ,ब। 8 कन्दल्या 'स'नास्ति /