________________ टिप्पणपञ्जिकाकुसुमोद्गमाविटीकात्रयोपेतम् प्रशस्तपादभाष्यम् [174] लिङ्गदर्शनात् सञ्जायमानं लैङ्गिकम् / ___ न्यायकन्दली न च दुःखसाधनमेतदिति ज्ञानं तन्मा'ध्यस्थ्यदर्शनमुपेक्षाज्ञानमपि तदेव / सर्व चैतदभ्यासपाटवोपेतस्य व्याप्तिस्मरणमनपेक्षमाणस्य वस्तुस्वरूपग्रहणमात्रादेवाननसंहितलिङ्गस्यापरोक्षावभासितयोत्पादादभ्यासपाटवसहकारिणः प्रत्यक्षस्य फलमिति / [174] 'लिङ्गदर्शनात् सञ्जायमानं लैङ्गिकम् / दर्शनशब्द उपलग्धिवचनो न चाक्षुषप्रतीतिवचनः, अनुमितानुमानस्यापि सम्भवात् / लिङ्ग-दर्शनाल्लिङ्गविषयः संस्कारो जायते किन्त्वस्य न परिग्रहः, बुद्धचधिकारेण विशेषितत्वात् / संशग्वेन सम्यगर्थवाचिना संशयविपर्ययस्मृतीनां व्युदासः / लिङ्गस्य दर्शनासानात् सम्यग् जायमानं लैङ्गिकमिति वाक्यार्थः / तस्य च ज्ञानस्य सम्यग्जातीयस्य यथार्थपरिच्छेदकतयोत्पादः, सर्वधियां यथार्थपरिच्छेदकत्वस्य कुलधर्मत्वात् / संशयविपर्ययौ तावद्यथासावर्थो न तथा तत्परिच्छिन्तः / स्मृतिरप्यर्थपरिच्छेदिका न भवति, अनुभवपारतन्त्र्याविति [ft0] [174-175] ( // अथ विद्याभेदनिरूपणे अनुमाननिरूपणम् // ) ____ अनुमितानुमानस्य इति :-श्रोत्रादिभिः शब्दाद्युपलब्ध्यनुमितरात्मानुमानम् / 'प्रतिपिपावयिषितेति एतत्परापेक्षमुक्तम् , स्वापेक्ष तु जिज्ञासितधर्मविशिष्टो धर्मीति ज्ञेयम् / [पं०] [174] अनुमिताऽनुमानस्यापि सम्भवादिति (कं. 200.6) रचनात्वेनानुमितं कार्यत्वं भूधरादीनां बुद्धिमत्पूर्वकत्वं किल साधयति / न चात्र चाक्षुषत्वम् / अथवा शब्दाद्युपलब्ध्यनुमितिरिन्द्रियरात्मानुमानम् / बुखयधिकारेण * विशेषित्वादिति (कं. 200.7) संस्कारो न लैङ्गिकं प्रमाण बुद्धित्वाभावात् / तस्य च शामस्य कु०] लक्षणंविरहात्तथापि स्मृतिव्युदासाय क्रियमाणः संशब्दो मन्दबुद्धीन् प्रति तावपि व्युदास्यतीति भावः / मनु जन्मक्रियाविशेषणेन संशब्देन कथं संशयादिव्युदासः ? तेषामपि जन्म समधिगतमेवेत्यत आह 'तस्य ज्ञानस्येति (कं. 200.9) / कारकधर्मो यथार्थत्वं क्रियायामुपचर्यत इत्यर्थः / नन सर्वहानान्यसम्यं च यथाहः ज्ञानं चेत्सत्यमेवैतदित्यत आह - सर्वधियामिति (कं. 200.10) (अ) कुलधर्मत्वादिति (कं. 200.11) यथार्थत्वस्य ज्ञानत्वप्रयुक्तत्वाभावादित्यर्थः / _ [174-175] लिङ्गस्य लक्षणमाहेति (कं. 200.17) लिङ्गविशेषस्येति द्रष्टव्यम् / सामान्यलक्षणत्वे दोषमभिधायान्यदेव हि सामान्यलक्षणं च चक्षति / अनुमेयपदस्य साध्यधर्मपरतां शङ्कां निवारयति अनुमेयः प्रतिपिपा १.न हेयमित्यारभ्य सुखस्मरणादीनामिति पर्यन्तः पाठः लेखकदोषवशाद - कं.१, कं.२ पुस्तकयोः आवृत्तः / 2 लिङ्स्य -जे. 3 / 3 जन्यस्य -जे. 1, जे. 2, जे. 3 / 4 तथा न परिच्छिन्तः- मे. 1, जे. 2, न तथा परिच्छिन्तः-कं. 1, कं. 2 / 5 प्रतिपादयिषित-भ, ब। 6 तस्य च-कं /