________________ 464 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली अव्युत्पन्नस्य सन्निहितेऽर्थे व्याप्रियमाणे चक्षषि शब्दश्रवणानन्तरं यदगौरिति जान 'जायते तत्राममपि कारणम्, अन्यथा रेखोपरेखादिविशेषप्रतीत्ययोगात् / न च तत् प्रत्यक्षम्, अनन्तरभाविनः शब्दस्यैव तदुत्पत्तौ साधकतमत्वादिन्द्रियस्यापि तत्सहकारितामात्रत्वात् / तथापि पृष्टो व्यपदिशति-अनेन 'समाख्यातम, न पुनरेवमभिधत्ते-प्रत्यक्षो मया प्रतीतं गौरयमिति तस्य व्यवच्छेदार्थमुक्तमव्यपदेश्यमिति / .. प्रमितिर्गुणदोषमाध्यस्थ्यदर्शनम् / गुणदर्शनमुपादेयत्वज्ञानम्, दोषदर्शनं हेयत्वज्ञानम्, माध्यस्थ्यदर्शनं न हेयं 'नोपादेयमिति ज्ञानं प्रमितिः, पदार्थस्वरूप बोधे सत्युपकारादिस्मरणात् / सुखसाधनत्वादिविनिश्चये सत्य पादेयादिज्ञानं भवत पदार्थ.. स्वरूप'बोधस्यैव फलं भवति, सुखस्मरणादीनामवान्तरव्यापारत्वात् / यथोक्तम्-- “अन्तराले तु यस्तत्र व्यापारः कारकस्य सः" इति / अन्ये त्वेवमाहुः-यदर्थस्य सुखसाधनत्वज्ञानं तद् गुणदर्शनम्, उपादेयत्वज्ञानमपि तदेव / यद् दुःखसाधनत्वज्ञानं तद्दोषदर्शनं हेयत्वज्ञानमपि तदेव / यच्च न सुखसाधनं [40] अवान्तरव्यापारत्वादिति (क. 199.21) सुखस्मरणादया प्रमावस्यावान्तरव्यापारा इत्यर्थः / व्यापार इति (कं. 199.22) सुखस्मरणादिः / कारकस्येति (कं. 199.22) कारणरूपस्य प्रमाणस्य / गुणदर्शनमिति (के. 199.23) उपकारादिदर्शनम् / अन्ये त्वेवमाहुरित्यादिना यन्मतं दर्शितम्, अत्र मते अवान्त रव्यापारा न सन्ति / प्रत्यक्षस्य फलमिति (के. 200.3) नानुमानस्य फलमित्यर्थः / [कु०] अयं चाभिसन्धिः-परीक्षकपर्यालोचनया व्याप्तिस्मृत्यवान्तरव्यापारवत् सविकल्पकस्येदं वोदयजातीयमिति लिङ्गपरामर्शः फलम् / अतः परं सुखसाधनमेतत्तस्मादुपादेयमित्यनुमितिस्तथापि लौकिकबुद्धिमनुस्मृत्य भाष्यकार: ल्पकप्रत्यक्षफलमक्तवानिति तमेव क्रमाग्रहणनिमित्तं लौकिकमनमितेः प्रत्यक्षताभिमान मतान्तरोपदर्शनव्याजेन स्पष्टीकरोति अन्य विति (कं. 199.22) / यथा सुखसाधनत्वादुपादेयमित्यस्या अनुमितेः सुखसाधन[। नु]मित्या सहाभेदाभिमानोऽन्येषां क्रमाग्रहणकृतस्तद्वद (न) नुमितिद्वयस्य प्रत्यक्षफलेन तज्जातीयत्वलिङ्गपरामर्शेन सह लौकिकानों भवं नाभेदाभिमान(') केन वार्यत इति भावः / विद्यमानः क्रमः केन न गृह्यत इत्यत आह सर्व चतदिति (कं. 200.1) / क्रमाग्रहणेऽभ्यासपाटवं निमित्तमित्यर्थः। अननुसंहितलिङ्गस्येति (कं. 200.2) लिङ्गानुसन्धान विवेकेनापश्यत इत्यर्थः / अपरोक्षावभासितया (कं. 200.2) अपरोक्षत्वेनाभिमन्यमानतया। ___ दर्शनशब्द इति (कं. 200.5) पश्चाथै श्वानालोचन इति पाणिनिस्मृतेशिः ज्ञानमात्रेऽपि वर्तते इत्येतदुक्तं संशयविपर्ययस्मृतीनामिति (के 200.8) / यद्यपि संशयविपर्ययो न लिङ्गदर्शनाउजायेते तज्जनकस्य वक्ष्यमाणलिङ्ग 1 उत्पद्यते-जे. 1, जे. 2 / 2 परेखादिविशेषप्रतीत्यभावात्-जे. 1, जे. 2 / 3 ममाख्यातम्-जे. 2, जे. 3 / 4 नोपादेयमिति प्रमिति:-जे.१। 5 प्रबोधे-जे. 1, जे. 2 / 6 त्युपादानादि-जे. 1, जे.२। 7 प्रबोधस्यैव -जे. 1; जे. 2; जे. 3 .