________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम प्रशस्तपादभाष्यम् अथवा सर्वेषु पदार्थेषु चतुष्टयसन्निकर्षादवितथमव्यपदेश्यं यज्जानमुत्पद्यते तत्प्रत्यक्ष प्रमाणम्, प्रमेया द्रव्यादयः पदार्थाः, प्रमातात्मा प्रमितिर्गुणदोषमाध्यस्थ्यदर्शनमिति / न्यायकन्दली इन्द्रियार्थसन्निकर्षमात्रमेव प्रमाणमित्यर्थः / यदा निर्विकल्पकं सामान्यविशेषज्ञानं फलं तदेन्द्रियार्थसन्निकर्षः प्रमाणम्, यदा विशेष्यज्ञानं फलं तदा सामान्यविशेषालोचनं प्रमाणमित्युक्तं तावत् / / सम्प्रति हानादिबुद्धीनां फलत्वे विशेष्यज्ञानं प्रमाणमित्याह-अथवेति / सर्वेषु पदार्थेषु चतुष्टय सन्निकर्षात् चतुष्टयग्रहणमुदाहरणार्थम् / द्वयसन्निकर्षात् त्रयसन्निकर्षादवितथं संशयविपर्ययरहितमव्यपदेश्यं व्यपदेशे भवं व्यपदेश्यं न व्यपदेश्यमव्यपदेश्यं शब्दाजन्यं यद्विज्ञानं जायते तत्प्रत्यक्ष प्रमाणम् / संशयो ह्यनवस्थितोभयधर्मतया पदार्थमुपदर्थ्य 'अवस्थितैकधर्माणं मिणं प्रापयत् यथाध्यवसायं वितथ एवेत्यवितथपदेन 'व्युदस्यते / [पं०] एव प्रमाणमस्तीत्यर्थः / ज्ञानफलत्वाभावादिति (कं. 199.2) सामान्यविशेषज्ञानं निर्विकल्पकापरपर्यायं ज्ञानस्य . फलं न भवति किन्तु जडरूपस्य सन्निकर्षस्यैव फलमित्यर्थः / न 'ज्ञानान्तरस्य फलं (कं. 199.3) न, किन्त्वज्ञानरूपस्य सन्निकर्षस्यैव फलमित्यर्थः / विशेषणज्ञाने इति (कं. 199.4) निर्विकल्पके / यदा निविकल्पकमित्यादि (कं. 199.5) अत्रायं क्रमः सन्निकर्षः प्रमाणं, तत्फलं निर्विकल्पकम् / तदपि विशेष्यज्ञानापेक्षया प्रमाणम, ततो विशेष्यज्ञानं फलम्, तदपि हानादिबुद्धयपेक्षया प्रमाणं, हानादिबुद्धयः फलम् / .. द्वयसन्निकर्षादिति (कं. 199.8) बुद्धिसुखादीनां द्वयोरात्ममनसोः संयोगादुपलब्धिः। यसन्निकर्षादिति (कं. 199.9.) आत्म[मन.श्रोत्रेन्द्रियलक्षणत्रयसन्निकर्षाच्छब्दस्य ग्रहणम। शब्दाजन्यमिति (कं. 199.10) शब्दानपेक्षम् / ऋषिव्युत्पादात् यथाध्यवसायं वितथ इति (कं. 199.11) यथाऽध्यवसायस्तथा न प्रापयतीत्यर्थः / अक्षमपीति (कं. 199.13) न केवलं शब्दश्रवणम् / अन्यथेति (कं. 199.14) अक्षव्यापाराभावे / अनन्तरभाविन इति (कं. 199.14) अव्यवहितस्य / 'तत्सहकारिमात्रत्वादिति (कं. 199.15) शब्दसहकारिमात्रत्वात् / नन्वक्षमपि कारणमित्युक्त्वा शब्द अयोगव्यवच्छेदः किरूप[:]? [व्यप] देशकरणकरणकं ज्ञानं प्रत्यक्षसामान्यलक्षणानुवृत्त्यैव व्यवच्छिन्नमित्येतावदवशिष्यते / ततस्तद्व्यवच्छित्तिरव्यपदेश्यपदेन भाष्यकृता सूचितेति भोवः / ननु [नि] विकल्पकानन्तरमुदकमेतदिति विशिष्टज्ञानं ; ततो यदुदकजातीयं तत्सुखसाधनमिति व्याप्तिस्मरणं; ततस्तथाभूतं चैतदिति लिङ्गपरामर्शः / अनन्तरं तस्मात्सुखसाधनमेवेत्यनुमिति.। एवं सुखसाधनत्वेन लिङ्गेनोपादेयस्वानुमितिरित्यनेन क्रमेण भवद्गुणादिदर्शनं कथं प्रत्यक्षफलमित्यत आह पदार्थस्वरूपबोध इति (कं. 199.19) / व्याख्येयं सामान्याक्रोडीकारेणैव गृहीताया व्याप्तेस्तथा स्मर्तव्यत्वात् / , 1 व्यवस्थितकधर्माणं प्रापयति, अन्यथाध्यवसायो - कं. 1; कं. 2 / 2 व्युदस्यन्ति - कं. 1; कं. 2 / 3 ज्ञानान्तरफलं - कं. 1, ब। 4 अन्यथाध्यवसायवितथ - कं. 1 / 5 तत्सहकारिता- कं. 1 /