________________ 462 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् सामान्यविशेषज्ञानोत्पत्तावविभक्तमालोचनमात्रं 'प्रत्यक्षं प्रमाणम्, 'न तस्मिन् प्रमाणान्तरमस्ति, अफलरूपत्वात् / न्यायकन्दली ननु' निर्विकल्पकं सामान्यविशेषज्ञानमपि प्रमारूपमर्थप्रतीतिरूपत्वात्, तदा 'तदुत्पत्तौ किं प्रमाणमित्यत आह सामान्यविशेषज्ञानोत्पत्तावविभक्तमालोचनमात्रं प्रत्यक्षम् / आलोच्यतेऽनेनेत्यालोचन मिन्द्रियार्थसन्निकर्षस्तन्मात्रम् / अबिभक्तं केवलं ज्ञानानपेक्षमिति यावत् / सामान्य विशेषज्ञानोत्पत्तौ प्रमाणम्, विशेष्यज्ञानोत्पत्तावपीन्द्रियार्थसन्निकर्षः प्रमाणं भवत्येव प्रमाहेतुत्वात्, किन्तु विशेषणज्ञानसहकारितया न केवलः, सामान्य विशेषज्ञानोत्पत्तौ तु ज्ञानानपेक्षः केवल एवेत्यभिप्रायः / सन्निकर्षमात्रमिह प्रमाणं : न ज्ञानमित्यत्रोपपत्तिमाह-न तस्मिन्निति। सामान्यविशेषज्ञाने नान्यत्प्रमाणं ज्ञानरूपमस्ति सामान्यविशेषज्ञानस्याफलरूपत्वात् ज्ञानफलत्वाभावात् / विशेष्यज्ञानं हि विशेषणज्ञानस्य फलम्, विशेषणज्ञानं न ज्ञानान्तरफलम्, अनवस्थाप्रसङ्गात् / अतो विशेषणज्ञाने [पं०] परः प्राह 'नन्वित्यादि (कं. 198.20) / निर्विकल्पकमिति (कं. 198.20) "सामान्यविशेषज्ञानमिति (के. 198.20) च पर्यायशब्दो। प्रमारूपमिति (कं. 198.20) फलरूपम् / तदुत्पत्ताविति (कं. 198.21) निर्विकल्पकोत्पत्ती। कि प्रमाणमिति (कं. 198.21) न हि प्रमाणमन्तरेण फलं भवति / सामान्यविशेषज्ञानोत्पत्ताविति (कं. 198.22) निर्विकल्पकोत्पत्तौ / विशेष्यज्ञानोत्पत्ताविति (कं. 198.23) सविकल्पकज्ञानोत्पतौ। विशेषणज्ञानसहकारितयेति (कं. 198.24) नागृहीतविशेषणाविशेष्यबुद्धिरिति प्रथमं विशेषणज्ञानम् / न. केवल इति (कं. 198.24) अत्र सन्निकर्षः कर्ता। सामान्यविशेषज्ञानोत्पत्ताविति (कं. 198.24) निर्विकल्पकोत्पत्तौ / सन्निकर्षमात्रमिति (कं. 198.25) जडस्वरूपम् / न ज्ञानमिति (कं. 199.1) ज्ञानं विशेष्यज्ञानम् / सामान्यविशेषज्ञाने इति (कं. 199.1) निविकल्पकज्ञाने / नान्यत्प्रमाणं ज्ञानरूपमस्तीति (कं. 199.1). किन्तु सन्निकर्ष [कु०] (अथवेति कं. 199.7) भाष्यस्थो निपातसमुदायः / अयं च प्रमाकरणवाचकस्य प्रत्यक्षशब्दस्य विषय (स्य) इत्यर्थः / शब्दाजन्यमिति (कं. 199.10) शब्देन करणेनाजन्यमित्यर्थः / जन विपर्ययस्यैव (ववि तथत्वात्कथं संशयस्य व्युदास इत्यत आह 'संशयोऽपीति (कं. 199.10) / ननु शब्दाकारणकं ज्ञानं प्रत्यक्षसामान्यलक्षणानुवृत्त्येव व्यवच्छिन्नं तत्किमथं [म] व्यपदेश्यपदमित्यत आह - अव्युत्पन्नस्येति (कं. 199.12) / अस्ति शब्दकरणकं अस्य शब्दस्यायमर्थ इत्येकदेशाच्छब्दार्थसम्बन्धज्ञान[मिन्द्रियस्यापि व्यापा (रु) [रात्] ततः प्रत्यक्षसामान्यलक्षणानुवत्त्यापि न तद्वयवच्छिन्नमित्यर्थः / ननु यदि तत्राक्षमपि कारणं किमर्थं तद्वयवच्छिद्यत इत्यत आह-न चेति (कं. 199.14) / 1 प्रत्यक्ष-दे। 2 अस्मिन्नान्यात-कं 1, कं. 2; कि। 3 यदा-कं. 1, कं. 2 / 4 तदुत्पत्तावविभक्त-कं. 1, कं.२। 5 मिन्द्रियसन्निकर्षः-जे.१। 6 यदा-कं.१। 7 पुनरावृत्तमिव भाति-सं। 8 अत्र तदुत्पत्तौ कि प्रमाणमत आह सामान्यविशेषज्ञानोत्पत्तावविभक्तमालोचनमात्रम् -पा. इ. पुस्तके पाठः न तु-क. 1 इत्यत्र-स। 9 संशयो हि-कं।