________________ टिप्पणपज्जिकाकुसुमोदगमाविटीकात्रयोपेतम प्रशस्तपादभाष्यम् [173] तत्र सामान्यविशेषेषु स्वरूपालोचनमानं 'प्रत्यक्ष प्रमाणम्, प्रमेया द्रव्यादयः पदार्थाः, प्रमातात्मा, प्रमितिव्यादिविषयं ज्ञानम् / न्यायकन्दली [173] एवं तावद्वयाख्यातं प्रत्यक्ष सम्प्रति प्रमाणफलं विभजते-तत्र सामान्यविशेषेषु स्वरूपालोचमात्रं प्रत्यक्षमिति / सामान्यं सत्ता, द्रव्यत्वगुणत्वकर्मत्वादिकं विशेषा व्यक्तयः, तेषु स्वरूपालोचनमात्रं स्वरूपग्रहणमात्र विकल्परहितं प्रमाणम्, प्रमायां साधकतमत्वात् / साधकतमत्वं च तस्मिन् सति. 'प्रमित्सोः प्रमा भवत्येवेत्यतिशयः, प्रमातरि प्रमेये च सति प्रमा भवंति न तु भवत्येव, प्रमाणे तु निर्विकल्पके विशेषणज्ञानादिलक्षणे विशेष्यज्ञानादिलक्षणां प्रमा भवत्येवेत्यतिशयः। प्रमेया द्रव्यादयः पदार्थाः, द्रव्यादयश्चत्वारः पदार्थाः प्रमेयाः प्रमितिविषयाः प्रमितौ जातायां तेष हानादिव्यवहारः प्रवर्तत इत्यर्थः / प्रमाता आत्मा 'बोधाश्रयत्वात् / प्रमितिव्यादिविषयं ज्ञानम्, यदा निर्विकल्पकं सामान्यविशेषज्ञानं प्रमाणम्, तदा द्रव्यादिविषयं विशिष्टं ज्ञानं प्रमितिरित्यर्थः। .[पं०] [173] प्रमायामिति (कं. 198.13) फले। अतिशय इति (कं. 198.14) अतिशये हि 'तमट्' प्रत्ययः / विशेषणज्ञानादिलक्षणे (कं. 198.15) इति-सामान्यविशेषज्ञानलक्षणे। विशेष्येति (कं. 198.15) विकल्पस्य व्याख्या / निविकल्पकमिति (कं. 198.18) सामान्यविशेषज्ञानमिति च पर्यायशब्दो। विशिष्टं ज्ञानं प्रमितिरिति (कं. 198.19) विकल्पज्ञानं फलमित्यर्थः / [कु०] [173] सम्प्रति 'प्रमाणं [फलं] विभजते इति (कं. 198.10) ननु समानतन्त्र 'प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानीति प्रत्यक्षशब्दोऽनुमानादिपदसमभिन्याहारात् प्रमाकरणविशेषे प्रयुक्तः / इह तु बुद्धावेव प्रयुज्यते तत्कुतो न विरोध इति शङ्कां निराकर्तुमिति शेषः / प्रमाणफलविभागेन हि परकीयः प्रत्यक्षशब्दप्रयोगो भोक्तुः प्रत्यक्ष. फलके करणे इति प्रदर्शनाद्विरोधपरिहारः। ननु साधकत्वाविशेषे कस्यचित्कथं तमर्थोऽतिशय इत्यत आहसाधकतमत्वं चेति (कं. 198.14) प्रमाया अयोगव्यवच्छेदोऽतिशयः। प्रमाणस्य साधकान्तराणां त्वन्ययोगव्यवच्छेदमात्रमित्यर्थः / प्रमितिविषया इति (कं. 198.18) सविषयस्याकधिष्ठितस्यैव करणत्वात्तन्निरूपणप्रसङ्गागतं प्रमातृप्रमेयनिरूपणमिति पृथक् प्रयोजकत्वं नोक्तं भवति / न च निर्विकल्पकोत्पत्ते [:] प्राक्तत्त्वरू[पे]ण भूतं ज्ञानमस्तीति भावः। 1 प्रत्यक्षप्रमाणम् -दे। 2 प्रमाणं-जे.१, जे. 2, जे. 3 / / 3 प्रमिस्सोभवत्येव- प्रमाभवत्येव -जे. 3 / 4 प्रबोधा-जे.१। 5 प्रमाणफलं-के। 6 प्रत्यक्षानुमानोपमानत इति पुनरावृत्त ह. लि. पुस्तके।