________________ भ्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली 'यदि हि विवादाध्यासितस्य पुरुषधौरेयस्य प्राणित्वादिकमपि भवेत् सर्वज्ञत्वमपि स्यात्, कैवात्रानुपपत्तिः ? नहि तयोः कश्चिद्विरोधः प्रतीक्षितः, सर्वज्ञताया प्रमाणान्तरागोचरत्वात् / प्राणित्वादेरसर्वज्ञतया सहभावस्तु सन्दिग्धः, किमस्मदादीनां प्राणित्वाद्यनबन्धिनीयमसर्वज्ञता ? किं वा सर्वज्ञानकारणत्वेनावगतस्य योगजधर्मस्याभावकृतेति न शक्यते निर्धारयितुम् / अतोऽनवधारितव्याप्तिकं प्राणित्वादिकम्, न तदनुमानसमर्थम् / अतीन्द्रियज्ञानकारणं योगजो धर्म इति न सिद्धम्, कुतस्तदभावादस्मदादीनामसर्वज्ञताशङ्कयेत, अस्माकं तावत्सिद्धं तेनेदमाशङ्कयते ततश्च नोभयसिद्धा व्याप्तिः, कुतोऽनुमानम्? युक्तानां प्रत्यक्षं व्याख्याय वियुक्तानां व्याचष्टे-वियुक्तानां पुनरिति / अत्यन्तयोगाभ्यासोपचितधर्मातिशया असमाध्यवस्थिता अपि येऽतीन्द्रियं पश्यन्ति ते वियुक्ताः; तेषामभिमुखीभूतनिखिलविषयग्रामाणामप्रतिहतकरणगणानां चतुष्टयसन्निकर्षादात्ममनइन्द्रियार्थसन्निकर्षाद्योगजधर्मानु'ग्रहः सहकारिता तत्सामर्थ्यात् सूक्ष्मेषु मनःपरमाणुप्रभृतिषु व्यवहितेषु नागभुवनादिषु विप्रकृष्टेषु ब्रह्मभुवनादिषु प्रत्यक्षमुत्पद्यते ज्ञानम् / [पं०] प्रतीक्षित इति (कं. 197.23) प्रतीतः / प्रमाणान्तरागोचरत्वादिति (कं. 197.23) अनुमानातिरिक्तप्रमाणान्तराविषयत्वात् / विरोधो हि द्विष्ठस्ततो द्वयोरपि प्रमाणप्रतीतयोरेव विरोधस्तत्र प्राणित्वं प्रतीतं, सर्वज्ञता तु न प्रतीता, प्रमाणान्तरागोचरत्वादित्याशयः / तदनुमानसमर्थमिति (कं. 198.1) असर्वज्ञतानुमाने क्षमम। परोऽनवधारितव्याप्तिकत्वं निरस्यन्नाह अतीन्द्रियेत्यादि (कं. 198.2) न 'सिद्धे ( कं. 198.2 ) इत्यस्मात्पुरस्तस्मादिति पदमध्याहार्यम / श्रीधरः प्राह अस्माकमित्यादि (कं. 198.3) / अनुमानमिति (क. 198.4) प्राणित्वादिरूपम् / असमाध्यवस्थिता इति (कं. 198.5) समाधो न अवस्थिता इति व्याख्येयम् / . [कु०] (कं. 197.24) अविनाभाव इत्यर्थः / ननूपाधिना तच्छङ्कया या कथमविनाभावसन्देह इत्यत आह किमस्मदादीनामिति (कं. 197.24) / शङ्कते अतीन्द्रियेति (कं.१९८.२) / अस्माक तावदिति (कं. 198.3) योगजधर्मविरहेण प्राणित्वेन सहचरितमसर्वज्ञत्वम्। ततश्च नोभयोः प्राणित्वयोगजधर्मविरहयोः परस्परोपाधित्वशङ्खया व्याप्तिः सिद्धा। अथव ऽस्माकं पुराणप्रामाण्यवादिनां योगजो धर्मो हि, अतीन्द्रियज्ञानकारणमिति सिद्धम् / ननु यदि वियुक्ता[नां] वियुक्तो योगः / ते कथमतीन्द्रियार्थान् पश्येयुरित्यत आह अत्यन्तेति (कं. 198.5) / चतुष्टयसन्निकर्षादित्युपलक्षणं; यथाविषयं त्रयसन्निकर्षाद् द्वयसन्निकर्षादित्यपि द्रष्टव्यम् / 1 यदि-कं. 1, कं. 2 / 2 हतकारणगणानां-कं. 1, कं. 2; हतकरणानां-जे. 1, जे. 2 / 3 नुग्रहसहकारितात् -कं. 1, कं. 2 / 4 सिद्धम-कं. 1, ब /