________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् 459 न्यायकन्दली ___ यत्पुनरत्रोक्तम्, 'योगिनोऽस्मदाद्यतीन्द्रियार्थद्रष्टारो न भवन्ति प्राणित्वात् अस्मदादिवत् / तद्यदि पुरुषमात्रं पक्षीकृत्योक्तं तदा सिद्धसाधनम्, पुरुषविशेषश्च परस्यासिद्धः, सिद्धश्चेमिग्राहकप्रमाणविरुद्धमनुमानम् / / अथोच्यते-प्रसङ्गसाधनमिदम्, प्रसङ्गसाधनं च न स्वपक्षसाधनायोपादीयते, किन्तु परस्यानिष्टापादनार्थम् / परानिष्टं च तदभ्युपगमसिद्धरेव 'धादिभिः शक्यमापादयितुम् / तत्र प्रमाणेन स्वप्रतीतिरनपेक्षणीया, नह्येवं परः प्रत्यवस्थातुमर्हति 'तवासिद्धा 'धादयो नाहं स्वसिद्धेष्वपि तेषु प्रतिपद्ये' इति / अत्र ब्रमः-कि प्रसङ्गसाधनमनमानं तदन्यद्वा ? यद्यन्यत् क्वाप्युक्तलक्षणेष प्रमाणेष्वन्तर्भावो वर्णनीयः, वक्तव्यं वा लक्षणान्तरम् / यदि त्वनुमानमेव, तदा स्वप्रतीतिपूर्वकमेव प्रवर्तते, स्वनिश्चयवदन्येषां निश्चयोत्पिपादयिषया सर्वस्य परार्थानमानस्य प्रवृत्तेः / अन्यथा गगनकमलं सुरभि कमलत्वात् क्रीडासरः कमलवदित्यस्यापि प्रतिपादकाभ्युपगमादसिद्धाश्रयस्य प्रामाण्योपपत्तिः / सन्दिग्धव्याप्तयश्च प्राणित्वादयः / [पं०] प्रमाणेनेति (कं 197.14) कर्तृभूतेन / पर इति (कं. 197.14) वैशेषिकः / तवेति (कं. 197 15) मीमांसकस्य / नाह (कं. 197.15) मित्यादि / स्वप्रतीतेष्वपि धादिषु नाहं प्रतिपत्ति करोमीत्यर्थः / * स्वप्रतीतिपूर्वकमेवेति (कं. 197.18 ) स्वयं निश्चित्यैव परार्थमनुमानमुच्चार्यते / 'प्रतिपादकाभ्युपगमादिति (कं. 197.20) प्रयोक्तुरभ्युपगमात् / 'असिद्धाश्रयस्येति (कं. 197.20) असिद्ध आश्रयो गगनकमल [ल]क्षणो यस्या सौरभस्य / प्राणित्वादय इति (कं. 197.21) हेतवः / तयोरिति (कं. 197.22) सर्वज्ञस्वप्राणित्वादिकयोः / [कु०] यद्यपि तर्कस्याप्याश्रयासिद्धिः विपर्ययापर्यवसानं च दूषणमेव तथापि वैभवाद् विकल्प्य दूषयति किमिति (कं. 197.16) / अन्यथेति (कं. 197.19) स्वनिश्चयानपेक्षानुमानप्रवृत्तावित्यर्थः। वस्तुतो मीमांसकं प्रत्येवं प्रतिवंदि[दी] ति ग्राह्याप्राकट्यं नास्ति अप्रनीयमाणत्वादिति पक्षानुमानस्थानुकूलतर्कविरहादप्रयोजकत्वमाशङ्कते 'सन्दिग्धविपक्षव्यावृत्तयश्चेति (कं. 197.21) / न हि तयोरिति (कं. 197.22) प्रकृता[पा]दीग्राहकं ? [प्र] तीक्षिते [तः ] स हि विरोधाभावात् परस्परमिपरिहारेण प्रतीतयोरेकत्रोपसंह्रियमाणयोर्भवति यथोष्णत्वशीतत्वयोः / न च सर्वज्ञत्वं क्वचित्प्रमितमित्यर्थः। तदेवाह सर्वज्ञताया इति (कं. 197.23) / सहभावस्त्विति 1 योगिनोऽतीन्द्रियार्थ - कं. 1, कं. 2 / 2 धर्मादिभिः - कं. 1, कं. 2 / 3 धर्मादयो- कं. 1; कं. 2 / 4 भ्युपगत - कं. 1, कं. 2; भ्युपगम - जे. 1, जे. 2 / 5 प्रतिपादकाभ्युपगत-कं। 6 सिद्धाश्रयस्य - कं / 7 सन्दिग्धव्याप्तयश्च-कं /