________________ 458 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् ग्यायकन्दली न सोऽस्ति पुरुषो यः समतप्लवेन भवनत्रयं लायति / उच्यते-यः स्थिराश्रयो धर्मः स्वाश्रये च विशेषमारभते 'सोभ्यासक्रमेण प्रकर्षपर्यन्तमासादयति / यथा कलधौतस्य पुटपाकप्रबन्धाहिता 'विशुद्धिः परां रक्तसारताम् / न चोदकतापस्य स्थिर आश्रयो यत्रायमभ्यस्यमानः परां काष्ठां गच्छेत्, अत्यन्ततापे सत्युदकपरिक्षयात् / नापि लङ्घनाभ्यासस्य स्वाश्रये विशेषाधायकत्वमस्ति, निरन्वयविनष्टे पूर्वलङ्घने लङ्घनान्तरस्य बलान्तरात् प्रयत्नान्त'रादपूर्ववदुत्पत्तेः / अत एव त्रिचतुरोत्प्लवपरिश्रान्तस्य लड़नं पूर्वस्मादपचीयते, सामर्थ्यपरिक्षयात् / बुद्धिस्तु स्थिराश्रया स्वाश्रये विशेषमाधत्ते, . प्रथममगृहीतार्थस्य पुनः पुनरभ्यस्यमानस्य ग्रहणदर्शनात् / तस्याः पूर्वपूर्वाभ्यासाहिताधिकाधिकोत्तरोत्तरविशेषाधानक्रमेण दीर्घकालादरनरन्तर्येण सेविताया योगजधर्मानुग्रहसमासादितशक्तेः प्रकर्षपर्यन्तप्राप्ति नुपपत्तिमती / [टि.] उतोभयजन्यं, तदसिद्धमसम्भवात्, श्रोत्रव्यापृतस्य मनसश्चक्षुः सम्बन्धाभावेन चक्षुषो व्यापाराभावात्, चक्षुर्व्यापृतस्य च तदैव श्रोत्रसम्बन्धाभावेन शब्दग्रहणाभावात् / नैवम्, मनस आशुसञ्चारित्वेनोभयजन्यत्वोपपत्तेः / ( // इति योगिप्रत्यक्षनिरूपणम् // ) // प्रत्यक्षम् / / [पं०] यत्पुनरत्रोक्तमिति (कं. 197.9) मीमांसकरिति ज्ञेयम् / पुरुषविशेषश्च परस्यासिद्ध (क. 197.11) इत्यत्र परस्येति तव / इहायं भावः, तव मते तावत्पुरुषविशेष: सर्वज्ञाख्योऽसिद्धः / तथा च सति प्राणित्वादिति हे] तोराश्रयासिद्धता नाम दोषः / मिग्राहक प्रमाणविरुद्धमनुमानमिति (क. 197.11) यदि त्वन्मते पुरुषविशेषः सिद्धः स तावत् केनापि प्रमाणेन गृहीतः सन् सिद्धो भविष्यति / येन च प्रमाणेन धर्मी पुरुषविशेषस्त्वया गृहीतस्तेनैव प्रमाणेन 'प्राणित्वादिति' अनुमानं विरुद्धमित्यर्थः। अथोच्यते इति (कं. 197.12) हे भट्ट त्वया / तद'भ्युपगमसिद्धरेवेति (कं. 197.13) परप्रतिज्ञानिष्पन्नैरेव / कु०] अस्त्वभ्यासस्यातिशयाधायकत्वं सोऽतिग्यः साक्षात्काररूप इति कुतोऽपसितमित्यत आह तदेति (कं 196.19) / क्वचिनिरतिशयमिति (कं. 196.20) उत्कर्षपरम्परा क्वचिद्विश्रान्तेत्यर्थः ज्ञानोत्कर्षविश्रमस्तु साक्षात्कार एव / यदाहुः सेयं प्रमिति: प्रत्यक्षपरेति व्यभिचारणाशङ्केत नन्विति (कं. 196.20) / परिहरति उच्यते इति (कं 196.23) / विशेषणीयो हेतुराधायमानसंस्कारहेत[:] स्थिराश्रयत्तित्वे सतीति / कलधौतस्येति (कं. 197.1). तस्थ तेजसत्वादत्यन्ताग्निसंयोगे (त्वं)प्यविनश्वरत्वेन स्थिरत्वम् / प्रतिपक्षमाशङ्कय परिहरति यत्पुनरिति (कं. 197.9) / 3 दप्य - कं. 1, कं. 2 / 4 प्लवंग -जे. 3 / 1 सोऽभ्यासः-कं. 1, कं. 2 / 2 शुद्धिः -कं. 1, कं.२। 5 वा - अ, ब / 6 भ्युपगमासिधेरेव - पञ्जिका अ, ब /