________________ न्यायकवलीसंवलितप्रशस्तपादमाष्यम् न्यायकन्दली बुभुत्सा विशिष्टेनात्मना संयोगः / असम्प्रज्ञातश्च वशीकृतस्य मनसो निरभिसन्धिनिर'भ्युत्थानः क्वचिदात्मप्रदेशे संयोगः / तत्रायमुत्तरो मुमुक्षूणामदिद्यासंस्कारविलयार्थमन्त्ये जन्मनि परिपच्यते, न धर्ममुपचिनोति, अभिसन्धिसहकारिविरहात् / नापि बाह्यं / विषयमभिमुखीकरोति, आत्मन्येव परिणामात् / पूर्वस्तु योगोऽभिसन्धिसहायः प्रतनोति धर्मम् / यदर्थ तत्त्वबुभुत्साविशिष्टश्च तदर्थमुद्द्योतयति, इति तेन योगेन योगिनः च्युतयोगा अपि योग्यतया योगिन उच्यन्ते / न च तेषामप्रक्षीणमलावरणानां तदानीमतीन्द्रियार्थदर्शनमस्त्यत आह-युक्तानामिति / / युक्तानां समाध्यवस्थितानां योगजधर्मानुगृहीतेन मनसा स्वात्मनि, स्वात्मान्तरेषु.. 'स्वात्मन आत्मान्तरेषु परकीयेषु, आकाशे दिशि 'काले वायौ 'परमाणुषु मनस्सु तत्समवेतेषु गुणादिषु समवाये चावितथमविपर्यस्तं स्वरूपदर्शनं भवति / अस्मदादिभिरात्मा सर्वदैवाहं ममेति कर्तृत्वस्वामित्वरूपसंभिन्नः प्रतीयते, उभयं चैतच्छरीराधुपाधिकृतं रूपं न स्वाभाविकमत एवाहं 'ममेति प्रत्ययो मिथ्यादृष्टिरिति गीयते, सर्वप्र'वादेषु विपरीत [टि०] अथोच्यत इति मीमांसकरिति शेषः। अनव'धारितव्याप्तिकम् इति -प्राणित्वादनुमानमित्यर्थः / ननु केनातिशयेनास्य कारणस्य साधकतमत्वमित्याह साधकतमत्वं च इति। सामान्यविशेषज्ञानेति निर्विकल्पकोत्पत्तावित्यर्थः / [पं०] कर्तृत्वस्वामित्वेति (कं. 196.6) अहमिति कर्तृत्वं ममेति स्वामित्वम्। विपरीतरूपग्राहकत्वादिति (कं. 196.8) गौरोऽहमिति प्रत्ययो मिथ्या आत्मनो गौरत्वाभावात् / तत्त्वज्ञानसंवर्तकधर्माधानक्रमेण (कं. 196.11) इत्यत्र संवर्तक इति प्रवर्तकः / परात्मादि तत्त्वप्रवाहानुगुण इति (कं. 196.13) अत्र परात्मेति परकीय आत्मा। तेष्विति (कं. 196.15) परात्मादिषु / सम्बद्धविशेषणेत्यादि (कं. 196.16) मनस्यसम्बद्धा ये घटादयस्ते, सहसम्बद्धा रूपादयस्तेषां विशेषणभूतौ द्वौ द्रव्यसम्बद्धौ एकः समवायोऽन्योऽभाव इत्यर्थः / इतरत्रेति (कं. 196.18) योगिप्रत्यक्षे / [क] योगजधर्मानगहीते[ने]ति (कं. 196.2) मलावरणप्रक्षयात्] सामर्थ्येऽपि प्रक्रममात्रजनिते युक्तमनःसहकारी भवत्येवेति भावः / परकीयेष्विति (के 196.4) लोकप्रसिद्धचा देहेन्द्रियसनातेषु परत्वाध्यारोपेण 'छ:' शैषिकप्रत्ययो द्रष्टव्यः / अविपर्यस्तत्वे हेतु[:] स्वरूपदर्शनमिति (कं. 194.5) / नन्वस्मदादीनामप्यहंप्रत्ययः स्वात्मविषयः कदाचिद्धवत्येव तत्कथं स्वात्मदर्शनं योगिप्रत्यक्षतयोपन्यस्तमित्यत आह-अस्मदादिभिरिति (कं.१९६.५)। उभयमपीति (कं. 196.6) शरीराभिसम्बन्धस्यानाद्यविद्यामाजितत्वात्तत्त्वज्ञानविरहादस्वाभाविकत्वमुभयस्यापि / न तु वेदान्ति१ विशिष्ट आत्मना - जे. 2; जे. 3 / 2 भ्युत्थानात् - कं. 1, कं. 2 / 3 'स्वात्मन आत्मान्तरेषु' इति - जे. 1, जे. 2, जे. 3 पुस्तकेषु नास्ति / 4 काले च - जे. 3 / 5 परमाणुमनस्सु - कं. 1, कं. 2: जे. 2, जे. 3 / वादिषु -जे. 2 / 7 धारिक -अ.ब। 8 करणस्य - अ, ब, क / 9 परात्मादितत्त्वज्ञानानुगुणः - कं. 1 / कं. 2 पुनरावृत्तिमिवाभाति /