________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् / 455 प्रशस्तपादभाष्यम् [172] अस्मद्विशिष्टानां तु योगिनां युक्तानां योगजधर्मानुगृहीतेन मनसा स्वात्मान्तराकाशदिक्कालपरमाणु वायुमनस्सु 'तत्समवेतगुणकर्मसामान्यविशेषेषु समवाये चावितथं स्वरूपदर्शनमुत्पद्यते / वियुक्तानां पुनश्चतुष्टयसन्निकर्षाद्योगजधर्मानुग्रहसामर्थ्यात् सूक्ष्मव्यवहितविप्रकृष्टेषु प्रत्यक्षमुत्पद्यते / - न्यायकन्दली विशेषणतया ककारे खकाराद्यभावावगमः, 'यच्च समवेत समवेतविशेषणतया गत्वे खत्वाद्यभावसंवेदनं तत्सवं सम्बद्ध विशेषणभावेन 'संगृहीतम् / / ___अपरे तुः सर्वत्र यथासम्भवं संयोगसमवाययोरेव हेतुत्वादवान्तरसम्बन्धकल्पनां नेच्छन्ति, ईदृशो हि तेषां भावानां स्वभावो यदेषामन्यसन्निकर्षादेव ग्रहणम् / अतिप्रसङ्गश्च नास्ति, स्वाश्रयप्रत्यासत्तैनियामकत्वात् / उपसंहरति-'एतदस्मदादीनां प्रत्यक्षमिति / अस्मदादीनामयोगिनामित्यर्थः / [172] योगित्रत्यक्षमाह-अस्मद्विशिष्टानां स्विति। योगः समाधिः। स द्विविधः-सम्प्रज्ञातोऽसम्प्रज्ञातश्च / सम्प्रज्ञातो धारकेण प्रयत्नेन क्वचिदात्मप्रदेशे वशीकृतस्य मनसस्तत्त्व भूतलेन संयनो पर [टि०] [172-173] ( // अथ योगिप्रत्यक्षनिरूपणम् // ) . 'अभ्युत्थान इति - अनुच्छेद्यः / विपरीतस्पेति गौरोऽहमिति प्रत्ययो मिथ्येव आत्मनो गौरत्वाभावात् / [पं०] अपरे त्विति (कं. 195.15) नैयायिकाः / अन्यसन्निकर्षादेव ग्रहणमिति (कं. 195.17) आश्रये समवेतं रूपं तत्र समवेतं रूपत्वमित्यादि ज्ञेयम् / ननु यदि संयोगसमवाययोरेव हेतुत्वादवान्तरकल्पना नेष्यते तहि यथा संयुक्तो घटोऽस्ति तथा पटादयोऽपि सन्ति, यथा च घटे रूपं समवेतं तथा रसादयोऽपि समवेताः सन्ति / यदि च संयोगसमवायमात्रादेवावान्तरसम्बन्धरहितात तत्पदार्थानां ग्रहणं तदा घटवत् पटादयोऽपि रूपवद्रसादयोपि ग्राह्याः स्युः संयोगसमवाययोरविशेषादित्यत्राशयाह अतिप्रसङ्गन नास्तीति (कं. 195.17) स्वाभयप्रत्यासत्तेनियामकत्वादिति (कं. 195.17) यत्र भूतले घटोऽस्ति तत्र घट एव लभ्यते न पटस्तथा रूपे रूपत्वमेव रसे रसत्वमेवेत्यायूह्यम् / [172] ‘अभ्युत्थान इति (कं. 195.22) अनुच्छेदाः / आत्मन्येव परिणामादिति (कं. 195.24) आत्मसमत्वात् / [कु०] [172] 'अप्रक्षीणमलावरणानामिति (कं. 196.1) सम्प्रज्ञातयोगदशायां तादृशधर्मस्याभावान्न मलावरणप्रक्षय इत्यर्थः / 1 वायुपरमाणु-दे। 2 तत्समवेतेषु च-दे। 3 यश्व - कं. 1; कं. 2 / 4 समवाय - जे. 1 / 5 गृहीतम् जे. 1, जे. 2 / 6 अस्मदादीनामिति - जे. 1, जे.२ / 7 निरभ्युत्थानात् मु; अभ्युत्थान - जे. 1, जे. 3 / ' 8 अभ्युत्थानात् - कं.१। 9 अप्रक्षीरमलाचरणानाम् -MS.I .