________________ 454 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नानां द्वयोरात्ममनसोः 'सन्निकर्षादुपलब्धिः / भावद्रव्यत्वगुणत्वकर्मत्वादीनामुपलभ्याधारसमवेतानामाश्रयग्राहकैरिन्द्रियैर्ग्रहणमित्येतदस्मदादीनां प्रत्यक्षम् / न्यायकन्दली बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नानां द्वयोरात्ममनसोः संयोगादुपलब्धिः 'बुद्धीत्यादि / आत्मसमवेतानां 'तत्संयुक्तसमवायाद ग्रहणम् / 'भावद्रव्यगुणकर्मत्वादीनामुपलभ्याधारसमवेतानामाश्रयग्राहकरिन्द्रियग्रहणम् / सत्ताद्रव्यत्वादीनां सामान्यानामाश्रयो येनेन्द्रियेण गृह्यते तेनैव तानि गृह्यन्ते / तत्र संयोगाद् द्रव्यग्रहणम्, संयुक्तसमवायाद् गुणादिप्रतीतिः, संयुक्तसमवेतसमवायाद् गुणत्वा-' दिज्ञानम्, समवायाच्छन्दग्रहणम्, समवेतसमवायाच्छन्दत्वग्रहणम्, सम्बद्धविशेषणतया चाभावग्रहणमिति षोढा सन्निकर्षः। यत्संयुक्तसमवेतविशेषणत्वेन रूपे रसांद्यभावग्रहणम्, या च संयुक्तसमवेतविशेषणविशेषणत्वेन रूपत्वे रसत्वाधभावप्रतीतिः, यश्च समवेत [पं०] संयोगादिति (कं. 195.9) इन्द्रियसंयोगात् / व्रव्यग्रहणमिति (के. 195.9) आश्रयग्रहणम् / / संयुक्तसमवायाद्गुणादिप्रतीतिरिति (कं. 195.9) इन्द्रियसंयुक्तो घटादिः सूत्रसमवेता गुणादयः / 2 / संयुक्तसमवेतसमवायाद्'गुणाविज्ञानमिति (कं. 195.9) इन्द्रियसंयुक्तो घटादिः सूत्रसमवेता गुणादयस्तत्र समवेतं गुणत्वम् 3 // समवायाच्छन्द्रग्रहणमिति (कं. 195.10) श्रोत्रे समवेतं शब्दं गृह्णाति / 4 / समवेतसमवायाच्छग्दत्वग्रहणमिति (कं. 195.10) श्रोत्रभावापन्नाकाशे समवेतः शब्दस्तत्र च समवेतं शब्दत्वम् / 5 / सम्बद्ध विशेषणतया चाभावग्रहणमिति (कं. 195.10) सम्बद्धस्येन्द्रियसनिकृष्टस्य भूतलादेविशेषणतयाऽभावग्रहणं यथा 'अघटं भूतलम्' / 6 / यत्संयुक्तसमवेतविशेषणत्वेन रूपे रसावभावग्रहणमिति (कं. 195.11) इन्द्रियसंयुक्तो घटादिस्तत्र समवेतं रूपं तस्य विशेषणं रसाद्यभावः / / 'यावत्संयुक्तसमवेतसमवेत विशेषणरूपत्वेन रसत्वाद्यभावप्रतीतिरिति (कं.१९५.१२) इन्द्रियसंयुक्तो घटादिस्तत्र समवेता रूपादयः रूपे च समवेतं रूपत्वं तस्य विशेषणं रसत्वाद्यभावः / 2 / यश्च समवेतविशेषणतया ककारे खकाराद्यभावावगम इति (कं. 195.13) श्रोत्रसमवेतस्य ककारादेः शब्दस्य विशेषणतया लिपिरूपसुरूपेणैव गतार्थः / 3 / यच्च समवेत[सपवेत] विशेषणतया गत्वे खत्वाद्यभाव ग्रहणमिति (कं. 195.14) श्रोत्रे समवेतो गकारस्तत्र समवेत गत्वं तस्य विशेषणं खत्वाद्यभावः / / [कु०] न प्रतीयेते इति चेत्, न तत्र द्रव्यस्याविनष्टस्याचलचक्षुषोपलब्धस्यानुपलम्भन देशान्तरप्राप्तिमनुमाय चलतीति प्रत्ययः सवितर्यपि किं न स्यादित्यतिप्रसङ्गस्य प्रद्योतनाय धर्म प्रचिनोति तद्धर्मसहायस्तमथं प्रद्योतयतीत्यन्वय / 1 संयोगा - कं. 1, कं. 2 / 2 बुद्धीत्यादि-कं. 1, क.२। 3 संयुक्त-कं. 1, कं. 2 / 4 भावेति - कं. 1, कं. 2 / 5 य च / 6 गुणत्वादि - कं. 1, अत्र 'इन्द्रियसंयुक्ते घटादि सूत्रसमवेता गुणादय संयुक्तसमवायाद् गुणज्ञानम्' इति पुनरावृत्तम् / 7 यच्च। 8 विशेषणत्वेन / 9 संवेदनम् /