________________ 453 टिप्पणपनिकाकुसुमोद्गमाविटीकात्रयोपेतम् न्यायकन्दली यदधिकरणं कायं तदधिकरणं कारणमित्युत्सर्गस्तस्यैकत्र व्यभिचारेऽन्यत्र क आश्वासः ? शाखामृगसमवेतेन कर्मणा कल्पितेन शाखामृगस्य तरुणा देशान्तरेणापि समं संयोगविभागयोरुत्पत्तेरुभयकर्मकल्पनानुपयोग इति चेन्नैवम्, प्रतिबद्धं हि लिङ्ग यत्रोपलभ्यते तत्र प्रतिबन्धकमुपस्थापयतीत्येतावत्येवानुमानस्य सामग्री / तस्यापत्तिवदन्यथोपपत्त्या कः परिभवः ? न चेदं पुरुष इव चेतनं यत्प्रयोजनानुरोधात् प्रवर्तते / यदि त्वेकस्य 'व्योमप्रदेशस्य 'संयोगविभागाः क्रियानुमितिहेतवः कल्प्यन्ते ? न शक्यं कल्पयितुम्, अतीन्द्रियव्योमाश्रयाणां विभागसंयोगानामप्रत्यक्षत्वात् / भूगोलकप्रदेशविभागसंयोगसन्तानानुमेयत्वे. गच्छतो वियति विहङ्गमस्य कर्म दुरधिगमं स्यात / वियद्विततालोकनिवहविभागसंयोगप्रबाहो यदि तस्य लिङ्गमिष्यते? अनिच्छतोऽप्यन्धकारे वायुदोषादेकस्मादुपजातावयवकम्पस्य भुजाओं मे कम्पते 'भ्रूश्चलतीत्यदृष्टाकृष्टान्तःकरणाधिष्ठितत्वगिन्द्रियजा कर्मबुद्धिरनिबन्धना स्यात् / रात्रौ महामेघान्धकारे क्षणमात्रस्थायिन्यां विद्युति चलतीति प्रत्ययस्य का गतिः ? [पं०] असमवायिकारणभूतं कर्म / 'अत्रैवमाशयः संयोगविभागौ हि तरौ वर्तते अतः कर्मणाऽपि तरौ भाव्यमेव / देशान्तरेअति (क. 194.23) आकाशादिना। उभयकर्मेति (कं. 194.23) कपितरुगतत्वेन / लिङ्गमिति (कं. 194.24) अब संयोगविभागलक्षणं प्रतिबन्धकमिति कर्मलक्षणम् / 'इत्येवानुमानसामग्रीति (कं. 194.25) यथा यत्र धूम उपलभ्यते तत्राग्निमुपस्थापयति / तस्यार्थापत्तिवदन्यथोपपत्या (कं. 194.25) ऽर्थापत्तिरभिभूते. न तथाऽनुमानमभिभयते / पीनो देवदत्तो दिवा न भक्ते इत्यत्र पीनत्वस्य वातादिवशादभ्यू[प] पत्तेरन्यथोपपत्तिः / तथापि चार्थापत्तिः परिभूयते नवमनुमानमित्यर्थः / न चेदमिति (कं. 194.26) इदमनुमानम् / एकस्येति (कं. 194.27) कपेरेव / अप्रत्यक्षत्वादिति (कं. 195.1) न च विभागसंयोगौ अप्रत्यक्षी सन्तो लिङ्गं भवितुमर्हतः प्रत्यक्षस्यैव लिङ्गत्वात् / भूगोलकप्रदेशविभाग संयोगत्वानुमेयत्वे (कं. 195.1) कर्मण इति षष्ठयन्तं पदं द्रष्टव्यम् / 'क्षणमात्रावस्थायिन्या (कं. 195.6) मित्यनेन आलोकप्रवाहाभाव रक्तः / चलतीति (कं. 195.6) इत्यत्र कीटकादि कर्तृ / तत्संयुक्तसमवायादिति (कं. 195.7) मनःसंयुक्तात्मसमवायात् / [7] अत्र यवनुमितं कर्म चलतीति प्रत्ययस्य विषयः तहि देशाद्देशान्तरप्राप्त्यानुमितेन कर्मणा सवितर्यपि चलतीति प्रत्ययः स्यात् / अथ तत्र गगनदेशान्तरस्याप्रत्यक्षतया तत्प्राप्तिरप्रत्यक्षा तर्हि नभसि सञ्चरति खद्योतेऽपि चलतीति प्रत्ययो न स्यात् / स्वप्रभावयवसंयोगविभागाभ्यां कर्मानुमानं सवितर्यपि समानं, नुद्यनोदकयोरिव प्रभाप्रभावतोः संयोगविभागी 1 एकस्य = शाखामृगस्य - जे. 3 / 2 व्योमप्रदेश - जे. 3 / 3 विभागसंयोगा: - जे. 1, जे. 2, जे. 3 / 4 धूश्वलतीत्यदृष्टान्तःकरणा-कं. 1, कं. 2; बाहुश्वलतीत्यदृष्टान्तःकरणा-जे. 2; जे. 3 / 5 अवैवयमाशयः -इति पञ्जिकायां पाठः स तु न समीचीनो भाति / 6 एतावत्ये व- कं. 1 / 7 संयोगसन्तानानुमेयत्वे - कं. 1 / 8 क्षणमात्रस्थायिन्याम् - कं. 1 / 9 संयुक्तसमघायात् - कं. 1 /