________________ 452 म्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् संख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वस्नेह'द्रवत्ववेगकर्मणां प्रत्यक्षद्रव्यसमवायाच्चक्षुःस्पर्शनाभ्यां ग्रहणम् / _ न्यायकन्दली संख्यादीनां कर्मान्तानां प्रत्यक्षद्रव्यसमवेतानामाश्रयवच्चक्षुःस्पर्शनाभ्यां ग्रहणम् / . कर्मप्रत्यक्षमिति न मृष्यामहे, गच्छति द्रव्ये संयोगविभागातिरिक्तपदार्थान्तरानुपलब्धेः / यस्त्वयं चलतीति प्रत्ययः स संयोगविभागानुमितक्रियालम्बन इति / तदसारम्, यदि कर्माप्रत्यक्षं विभागसंयोगाभ्यामनुमीयते तदा विभागसंयोगयोरुभयवृत्तित्वादाश्रयान्तरेऽपि कर्मानुमीयेत / न च मूलादग्रमग्राच्च मूलं गच्छति शाखामृगे तरा'वप्यन्यतरसंयोगविभागाधिकरणे चलतीति प्रत्यय 'उदयते। यदि मतं योऽयं तरुमृगस्याकाशादिनापि. संयोगस्तस्य तरुसमवेतात् कर्मणो निष्पत्त्यनवकल्पनान्न तरौ कर्मानुमानमिति कल्प्यताम्? तर्हि देशान्तरसंयोगार्थ तरुमृगेऽपि कर्मान्तरम्, तरौ तु कर्मकल्पना न निवर्तत एव / [टि०] मृगः / यदधिकरणम् इति :-'कारणमसमवायिकारणं न तु 'निमित्तकारणम् व्यधिकरणानामपि विषयाणां ज्ञानसुखादिहेतुत्वात् / तस्यापत्तिवद् इति :-यथाऽन्यथोपपत्त्यार्थापत्तिः परिभूयते न तथाऽनुमानमिति / एतच्च पराभिप्रायेणोक्तम्, 'स्वाभिप्रायेण त्वर्थापत्तेरप्यनुमानत्वात् / 'न चेदम् इति :- इदमनुमानम् // // इति अयोगिप्रत्यक्षनिरूपणम् // [पं०] संयोगविभागाधिकरणे (कं. 194.17) इत्यस्य स्थाने अन्यतरसंयोगविभागाधिकरणे इति पाठान्तरं दृश्यते, तदपि सुष्ठु / चलतीति प्रत्यय 'उदयते (कं. 194.18) इति कोऽर्थः ? किन्तु शाखामृगे एव चलतीति प्रत्ययो न तरी इत्यर्थः / तस्मृगस्येति (कं. 194.18) कपेः / आकाशादिनापीति (कं. 194.18) आदि शब्दादिक्कालात्मग्रहः / न केवलं वृक्षण आकाशः, दिक्कालात्मभिरपि इत्यर्थः / "तस्येति (कं. 194.19) तरुसमवेतात्कर्मणः सकाशात् ? आकाशादिसंयोगस्य "न निष्पत्तिः किंतु तत्संयोगाविति / संयोगजः संयोगस्तस्मान्न तरी कर्मानमीयते केवलं कपो कर्मानुमीयते इति वाक्यार्थः / यदि मतमित्यादि परवाक्यमुद्दिश्य श्रीधरः प्राह फल्पना (कं. 194.20) मित्यादि / देशान्तरसंयोगार्थम् (कं. 194.20) आकाशादिसंयोगार्थम् / तरौ स्विति (कं. 194.20) तरावपीत्यर्थः / कार्यमिति (कं. 194.21) संयोगविभागौ। तदधिकरणं कारणमित्युत्सर्ग (कं. 194.21) इत्यत्र कारणमिति [कु०] ननु गच्छति द्रव्ये गतिः प्रतीयते तत्कुतोऽमर्ष इत्यत आह गच्छति द्रव्य इति (कं. 194.13) / ननु यदेयं प्रतीतिः संयोगविभागविषया तहि संयुज्यते विभज्यते इति कुतो न व्यपदिश्यत इत्यत आह यस्त्वयमिति (कं. 194.14) / अनुमितेनापि विषयेणानुमापकं व्यपदिश्यते यथा चलन्त्यां पताकायां वायुतीति भावः / तदसारमिति (कं.१९४.१५) 1 वेगद्रवत्व-दे। 2 वप्यनारत-कं. 1, कं. 2; अनवरत इति पाठः-जे. 1; अनातरतेति पाठान्तरं-जे. 3 / 3 उदीयते-जे.१, जे. 2, जे.३। 4 कारणं समवायि-म; कारणमसमवाय-ड। 5 नुमित्त-अ। 6 ऽयथो-अ, ब / 7 वाभिप्रायेण-अ। 8 न चैद-अ। 9 उदीय इति पञ्जिकायां पाठः स च न साधुः / 10 तस्येत्यादि-ब। 11 तु-अ।