________________ टिप्पणपञ्जिकाकुसुमोद्गमाबिटीकात्रयोपेतम् प्रशस्तपादभाष्यम् [171] रूपरसगन्धस्पर्शष्वनेकद्रव्यसमवायात् स्वगतविशेषात् स्वाश्रयसन्निकर्षानियतेन्द्रियनिमित्त मुत्पद्यते। ___शब्दस्य त्रयसन्निकर्षाच्छ्रोत्रसमवेतस्य तेनैवोपलब्धिः। ___ न्यायकन्दली [171] रूपादिषु प्रत्यक्षोत्पत्तिकारणमाह-'रूपरसगन्धस्पर्शेष्विति / अनेकेष्ववयवेषु समवेतं द्रव्यमनेकद्रव्यम्, तत्र समवायात् / स्वगतो विशेषों रूपे रूपत्वं रसे रसत्वं गन्धे गन्धत्वं स्पर्श स्पर्शत्वं तस्मात् / स्वाश्रयसन्निकर्षाद्रपादीनां य आश्रयस्तस्य ग्राहकैरिन्द्रियः सन्निकर्षानियतेन्द्रियनिमित्तं चक्षुनिमित्तं रूपे, रसननिमित्तं रसे, घ्राणनिमित्तं गन्धे, त्वगिन्द्रियनिमित्तं स्पर्श ज्ञानमुत्पद्यते / स्वगतविशेषाणां हेतुत्वाद्र्पादिष्विन्द्रियव्यवस्था, अन्यथा परिप्लवः स्याद्विशेषाभावात् / शब्दस्य त्रयसन्निकर्षाच्छोत्रसमवेतस्य तेनैवोपलब्धिः / . त्रयसन्निकर्षादिति आत्ममनइन्द्रियाणां सन्निकर्षो 'दशितः। इन्द्रियार्थसन्निकर्षः श्रोत्रसमवेतस्येत्यनेनोक्तः / तेनैवोपलब्धिरिति श्रोत्रेणैवोपलब्धिरित्यर्थः / [टि०] [171] अनेकेषु इति 'प्राभाकरा: प्रत्यवतिष्ठन्ते कर्म प्रत्यक्षम् इति :-'स संयोगविभागानुमितेति :'विवादाध्यासितौ संयोगविभागौ 'असमवायिकारण पूर्वी भावरूपकार्यत्वाद् घटवत् / "तरुमृगस्य इति तरुमृगः शाखा [पं०] [171] अनेकेष्विति (कं. 194.4) द्वयणुकव्यवच्छेदार्थ बहुवचनम् / आश्रय इति (कं. 194.6) घटादिः / "रूपादिग्राहक (कं. १९३.६)रित्यत्र रूपादि इति पदं नास्ति पाठान्तरे। चक्षुनिमितं रूपे इति (कं. 194.7) . रूपे चक्षुनिमितं ज्ञानमुत्पद्यत इति योगः / स्वगतविशेषाणामिति (कं. 194.8) रूपत्वादीनाम् / तेनैवोपलब्धिरिति (कं. 194.10) रूपरक्तान्धस्य वस्तुनि समवेताश्चक्षुरादिभिर्गृह्यन्ते शब्दस्तु श्रोत्रसमवेत एव श्रोत्रेणोपलभ्यते इत्यर्थः / इन्द्रियार्थसन्निकर्ष (कं. 194.11) इत्यत्र अथ शब्देन शब्द उच्यते / प्राभाकराः प्राहुः कर्मप्रत्यक्ष (कं. 194.13) मित्यादि / संयोगविभागानुमितक्रियालम्बन (कं. 194.15) इत्यत्र क्रियाशब्देन कर्म लक्ष्यते। विवादाध्यासितौ संयोगविभागौ असमवायिकारणभूतकर्मपूर्वी भावरूपकार्यत्वात् घटवत् / श्रीधरवाक्यं तदसारमिति (कं. 194.15) / उभयवृत्तित्वादिति (कं. 194.16) द्विष्टत्वात् / "अनवरत [कु०] [171] अनेकेष्विति (क. 194.4) बहुवचनेन द्वयणुकरूपस्य. प्रत्यक्षत्वं निवारयति रूपे रूपत्वमिति (कं. 194.5) / उद्भवसमाख्यातोऽपि स्वगतो विशेषो द्रष्टव्यः / .. 1 मुत्पद्यते ज्ञानम् - दे। 2 रूपरसेत्यादि - कं. 1, कं. 2 / 3 दर्शित इति - जे. 1, जे. 2 / 4 म्राभाकरा '- / 5 प्रत्यक्षम् - अ। 6 'स' अबपुस्तकयो स्ति। 7 विभागा - ड। 8 असमवाय - अ, ब, क / 9 कारपूर्वो-ड। 10 तरुण-अ। 11 ग्राहक:- कं. 1 / 12 अनारत-कं. 1 /