________________ 450 न्यायकम्बलीसंवलितप्रशस्तपादभाष्यम् / न्यायकन्दली दण्डी पुरुषो न तु पुरुषी दण्ड इति विचार्य च प्रत्येकमेतानि पश्चादेकीकृत्य गृह्णाति दण्डी पुरुष इति / यद्यर्थस्य विशिष्टता वास्तवी प्रथममेव विशिष्टज्ञानं 'जायेत / न भवति चेत् ? नास्य स्वरूपतो विशिष्टता किं तूपाधिकृतेति विशिष्टताज्ञानं कल्पनेति चेत् ? 'दुरूहमिदमायुष्मता, आत्मा हि प्रत्येक विशेषणादीन गृहीत्वा ताननुसन्दधान इन्द्रियेणार्थस्य विशिष्टतां प्रत्येति न ज्ञानमचेतनम्, तस्य प्रतिसन्धानाशक्तेः, विरम्य व्यापाराभावाच्च / अर्थो विशेषणसम्बन्धाद्विशिष्ट एव, विशेषणादिग्रहणस्य सहकारिणोऽभावात् / प्रथममिन्द्रियेण न तथा गृह्मते, गृहीतेषु विशेषणादिषु गृह्यत इत्यर्थेन्द्रिय तावद्विशिष्टज्ञातम् / यदि विशिष्टज्ञानत्वादेवापराधात् प्रत्यक्षं न भवति, दुःसमाधेयमित्युपरम्यते / [पं०] कल्पनाज्ञानम् / गृहणातीत्य (कं. 193.22) स्मात्पुरः कथमिति पदमध्याहार्यम् / कथं दण्डीपुरुष इति / दण्डीपुरुष इत्यस्मात्पुरो यत् इत्यध्याहार्यम् / वास्तवी (कं. 193.23) त्यतःपुरस्तदेत्यध्याहारः / नास्येति (कं. 193.23) अस्यार्थस्य / स्वरूपत इति (कं. 193.23) अनौपाधिकी। श्रीधरवाक्यं 'दुरूह (कं. 193.24) मित्यादि / दु[रू] हमित्यस्य स्थाने दुरुत्तरमिति पाठान्तरं तदपि सुष्छु / विशेषणादीनिति (कं. 193.25) नागृहीतविशेषणा : विशिष्टा बुद्धिरिति प्रथमं विशेषणम् / ज्ञानमिति (कं. 193.26) कर्तृभूतम् / अचेतनमिति (कं. 193.26) वैशेषिकमते / प्रतिसन्धानाशक्तेरिति (कं. 193.26) विशेषणविशेष्यादिसम्बन्धावधारणेऽसमर्थत्वात् / 'विरम्य व्यापाराभावाच्चेति (कं. 193.26) शब्दबुद्धिकर्मणां पुनापाराभावात् / विशिष्ट एव (कं. 193.27) इत्यस्मात्पुरः किन्त्वित्यध्याहार्यम् / [कु.] व्यवच्छित्तिरेतद्व्यावृत्तिः कर्मगतत्वेन निरूप्यमाणा व्यवच्छद्यत्वं, कारणगतत्वेन निरूप्यमाणा व्यवच्छेदकत्वम् अत एवैकवचनविरोधाज्जानव्यतिरिक्त प्रतिसन्धातारमपश्यन् शङ्कते 'अर्थावग्रह इति (कं. 193.19) / प्रथममेव प्रथमाक्षसन्नि पातानन्तरमेव उपाधिवासनापरिपाकविशेषः / तत्कृतत्वाद्विशिष्टज्ञानं कल्प्यत इत्यर्थः / आत्मप्रकरणोक्तं प्रतिरिक्तत्वमनाकलयतः शङ्केति सूचयत् सोपहासमाह 'दुरुत्तरमिति (कं. 193.24) / दुरुत्तरं दुःखेनोत्तरितव्यम् / यदुक्तं विशिष्टस्य पारमार्थिकत्वे प्रथमत एवं विशिष्टज्ञानमुत्पद्यतेति तत्राह अर्थो विशेषणसम्बन्धादिति (कं. 193.27) / नन्वनुमानादिषु गृहीतव्याप्तिकस्याप्रत्यक्षत्वसाधकस्य विशिष्टस्य विषयत्वहेतोरनिन्द्रियजत्वमुपाधि दर्शयन्नुपसंहरति अर्थेन्द्रियजं तावदिति (कं. 194.2) / 1 जायते - जे. 1 / 2 स्वरूपविशिष्टता- जे. 1 / 3 दुरूहित - कं. 1, कं. 2; दुरुदार - जे. 3 / 4 दुरूहित-कं.१। 5 पञ्जिकायां 'चिरस्य' इति पाठः सोऽर्थदृष्टया न साधुः / 6 अर्थावग्रहम् -कं / 7 अत्र 'उपातान्तरमेव' इति पुनरावृत्तं हस्तलिखित पुस्तके -सं। 8 दुरूहितम् - के।