________________ टिप्पणपञ्जिफाकुसुमोदगमादिटीकात्रयोपेतम् / __ न्यायकन्दली तदा सविकल्पके तस्य न प्रतिषेधः, 'प्राप्तिपूर्वकत्वात्प्रतिषेधस्य / अथ निर्विकल्पके प्रतीतम् ? 'तत् कथं प्रतीतम् ? इन्द्रियार्थतद्भावमावित्वानुमानेनेति चेत् ? तर्हि प्रत्यक्ष'त्वप्रसाधकस्य तद्भावभावित्वानुमानस्य प्रामाण्याभ्युपगमे सति 'प्रत्यक्षत्वप्रतिषेधकानुमानं प्रवृत्तं तद्विपरीतवृत्ति अश्रावणः शब्द इतिवत्तेनैव बाध्यते। एवं तावच्छब्दसंयोजनात्मिका प्रतीतिः कल्पना न भवतीति / ____ अर्थसंयोजनात्मिकापि विशिष्टग्राहिणी न कल्पना, विशेषणस्य विशेष्यस्य च तयोः सम्बन्धस्य च व्यवच्छेद्यव्यवच्छेदकभावस्य वास्तवत्वात् / 'अर्थावग्रहो विज्ञानम्, तदर्थेन्द्रियसन्निकर्षाद्यथाभूतोऽर्थस्तथोपजायते, न त्वर्थे विचार्य प्रवर्तते / विशिष्टज्ञानं तु विचार इति / इदं विशेषणमिदं विशेष्यमयमनयोः सम्बन्ध एषा च लोकस्थितिः / [टि.] अश्रावण इति :- यथा शब्दस्य श्रवणग्राह्यतया अन्वयव्यतिरेकानुमितयाऽश्रावणत्वानुमान बाध्यते '[एवं तद्भावभावित्वानुमितया प्रत्यक्षतयाऽप्रत्यक्षतासाधनं बाध्यते] इति न सत्प्रत्यक्षता (सत्प्रतिपक्षता)। श्रवणग्राह्यतावधारणस्य चानुमानगम्यत्वमेव शब्दस्यैव प्रत्यक्षत्वात् / विरम्य व्यापारे इति :-शब्दबुद्धिकर्मणां पूनापाराभावात् / द्वषणुकव्यवच्छेदार्थ बहुवचनम् / [पं०] जत्वं, तस्योपलब्धिः / व्यतिरेकानुमान प्रत्यक्षत्वप्रसाधकस्येति (कं. 193.13) निर्विकल्पकं प्रति / प्रत्यक्षत्वप्रतिषेधकानुमानमिति (कं. 193.14) निर्विकल्पकमिति / तद्विपरीतवृत्तीति (कं. 193.14) प्रत्यक्षत्वप्रतिषेधविपरीतवृत्ति / अश्रावणः शब्द इतिवदिति (कं. 193.14) यथा अश्रावणः शब्द इत्यस्य प्रयोगस्य विपरीतवृत्तित्वम्, अस्यैव शब्दस्य श्रूयमाणत्वेन श्रावणत्वस्यैव साधनात् तथा तद्भावभावित्वं विकल्पस्य प्रत्यक्षतां साधयति इन्द्रियार्थजत्वात् / --- वास्तवत्वादिति (कं. 193.17) वास्तवत्वे च कुत[:] कल्पना। परवाक्यम्-'अर्थावग्रहः विज्ञानमित्यादि (क. 193.18) / अर्थावग्रह इति अर्थस्यावगममात्रम् / तदिति (कं. 193.18) विज्ञानम् / यथाभूत इति (कं. 193.19) विशिष्टतारहितः / प्रवर्तते इति (कं. 193.20) विज्ञानं कर्तृ / विशिष्टज्ञानमिति (कं. 193.20) [30] स्तद्विरुद्धमनिन्द्रिय (मिन्द्रिय) कार्यत्वं व्यावर्तयतीति तद्वयाप्यमपि प्रत्यक्षत्वं व्यावर्तयतीत्यर्थः / तद्विपरीतवत्तीति (कं. 193.15) निर्विकल्पकप्रत्यक्षत्व (1) साधकं यदिन्द्रियभावभावित्वानुमानं तद्विशेषाभावात् सविकल्पकेऽपि प्रत्यक्षत्वं साधयति / तत चोपजीव्यप्रमाणविरोधात्कालात्ययापदिष्टं निषेधानुमानमित्यर्थः। प्रथमकल्पनाप्रकारदूषणमुपसंहृत्य द्वितीयं दूषयति एवं तावदिति (कं. 193.16) / 1 विधि - जे. 1; जे. 2 / 2 तत्कथम् ? - जे. 1; जे. 2 / 3 प्रत्यक्षत्वसाधक - जे. 1; जे. 2 / 4 प्रत्यक्षप्रतिषेधका-जे. 1; जे.२। 5 अर्थावग्रहं- कं.१; कं. 2 / 6 [ ] एतच्चिह्नान्तर्गतः पाठः अपुस्तके नास्ति / 7 प्रत्यक्षया-ब, क। 8 बहुवचनम् - अ। 9 अर्थावग्रहं विज्ञानम् - कं. 1 / .57