________________ - न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली शब्दसंसर्गवति विकल्पः प्रवर्तमानोऽसन्तमर्थ विकल्पयतीति कल्पनाज्ञानमिति / यथोक्तम् तस्यां यदूपमाभाति बाह्यमेकमिवान्यतः / व्यावृत्तमिव निस्तत्त्वं परीक्षानङ्गभावतः // इति / [170] अत्रोच्यते-यदि सामान्यस्य वस्तुभूतस्याभावात् तद्विशिष्टग्राहिता कल्पनात्वम् , तमुसदर्थतैव कल्पनात्वं न 'शब्दसंसृष्टग्राहिता। तत्र यदि शक्ष्यामः प्रमाणेन सामान्यमुपपादयितुं तदा सत्यपि शब्दसंसृष्टग्राहकत्वे तद्विषयं विकल्पज्ञानमिन्द्रियार्थजत्वात् प्रत्यक्षमेव स्यात् / यदपरोक्षावभासि तत्प्रत्यक्षं यथा निविकल्पकम्, अपरोक्षावभासि च विकल्पज्ञानम् / इह ज्ञानानां परोक्षत्वमनिन्द्रियार्थजत्वेन व्याप्तं यथानुमाने, अनिन्द्रियार्थजत्वविरुद्धं चेन्द्रियार्थजत्वं तद्भावभावित्वानिर्विकल्पकज्ञाने प्रतीयत इति / व्यापकविरुद्धोपलब्धिः। विपक्षे यत्स्मृतिपूर्वकं तदप्रत्यक्षं यथानुमानज्ञानम्, स्मृतिपूर्वकं च सविकल्पकज्ञानमिति प्रतिपक्षानुमानमप्यस्तीति चेत्? प्रत्यक्षत्वं यदि न क्वचिदवगतम्? . [टि०] [170] तस्यां यत्पम् इति तस्यां विकल्पबुद्धौ निस्तत्त्वं तत्त्वान्निर्गतमपारमार्थिकमित्यर्थः / बौद्ध'रीत्य- . वानुमानयति 'यदपरोक्षेति-समीचीनं सदिति सम्यग्ज्ञानप्रस्तावात्कर्तव्यम् अन्यथा विपर्ययादीनामपि प्रत्यक्षप्रमाणता स्यात् / व्यापकविरुद्धोपलब्धिः इति :-प्रतिषेध्यस्य परोक्षत्वस्य यद व्यापकमनिन्द्रियार्थजत्वं तस्य यद्विरुद्ध मिन्द्रियार्थ.. जत्वं तस्यो पलब्धिः / इन्द्रियार्थतद्धावेति-एवंविधस्यैव सर्वत्र हेतुत्वात् प्रथमं सामान्येन तद्भावभावित्वादित्यत्र नच्छब्दप्रयोगः पश्चादिन्द्रियार्थयोस्तद्भाव इति' विशेषशब्दप्रयोगः। [पं०] अन्यतोव्यावृत्तमिति परमार्थतो हि अन्यतो व्यावृत्तं रूपं निर्विकल्पकग्रा ह्येषु परमाणुष्वेव दृष्टं परं कल्पनायामपि बाह्यं रूपं घटादिपटादिभ्यो व्यावृत्तं प्रतिभासते तन् निस्तत्वमपारमार्थिकमित्यवसेयम् / कुतः ? परीक्षाऽनङ्गभावत: परीक्षासरत्वादि [ति] तात्पर्यम् / : [170] अत्रोच्यते इति (कं. 193.3) श्रीधरेण / असदर्थतैवेति (कं. 193.4) सामान्यस्य तव मतेऽसत्वात् / तद्विषयमिति (कं. 193.6) सामान्यविषयम। तद्धावभावित्वादिति (कं. 193.9). इन्द्रियार्थानांतरीयकत्वात् / व्यापकविरुद्धोपलब्धिरिति (कं.१९३.९) प्रतिषेध्यमप्रत्यक्षत्वं तस्य व्यापकंमनिन्द्रियार्थजत्वं तस्य विरुद्धमिन्द्रियार्थ [कु०] [170] शब्दसंसृष्टगोचरत्वस्य कलनात्वं प्रत्येव प्रयोजकं दर्शयन् परिहरति अत्रोच्यत इति (कं. 193.3) / विकल्पस्य प्रत्यक्षत्वे परमतमनुसृत्य प्रयोगमाह यदपरोक्षावभासीति (कं. 193.6) / प्रतिबन्धप्रसिद्धये प्रसङ्गमाह 'इह ज्ञानानामिति (कं.१९३.७) / 'इन्द्रियार्थजत्वेनेन्द्रियसन्निकर्षकारणत्वेनेत्यर्थः / नत्वनमेयादनमेयं 'जायते किं तहि ? लिङ्गात्। व्यापकविरुधोपलब्धिरिति (कं. 193.9) अप्रत्यक्षस्य व्यापकमनिन्द्रियकार्यत्वं तस्योपलव्धि 1 शब्दसंसृष्टार्थग्राहिता-कं. 1, कं. 2, जे. 3 / 2 यदि क्वचिदवगतम् -कं.१; कं. 2; जे. 3 / 3 रीत्येवअ, ब / 4 यदि-ड। 5 पलब्धिम् - अ, ब। 6 इति शब्दप्रयोगः-अ, ब। ७य-MS| 8 अनिन्द्रियार्थजत्वेन-कं। 9 जातये-MST