________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपैतम् 447 न्यायकन्दली विषयिणो विज्ञानस्य व्यपदेशाभावाच्च / अथ मन्यसे विकल्पः शब्द'संसृष्टार्थविषयः, स चार्थः संसृज्य 'शब्देन संसृज्यते व्यपदिश्यते च / (यत्र शब्दस्य सङ्कतः) तत्र च शब्दस्य सङ्कतो यदक्षणिकं साधारणं च, न च स्वलक्षणं स्वलक्षणविषयो वा बोधो बोधविषयश्चाकारः साधारणोऽक्षणिकश्च भवति / बोधाकारस्य बाह्यत्वमपि बोधाकारादनन्यसाधारणमेव / सामान्यं च वस्तुभूतं नास्ति, विचारासहत्वात् / तस्मात् प्रत्येक विकल्पैर्बाह्यत्वेनारोपितेषु स्वाकारेषु परस्परभेदानध्यवसायादन्यव्यावृत्ततयकत्वे समारोपिते शब्दस्य सङ्केत इति 'प्रमाणबलादायातमवर्जनीयम् / तत्र चालोके [टि०] इति / अत्र हेतुमाह ज्ञानस्य तदव्यतिरिक्तस्य च इति / यदि ज्ञानज्ञानाकारयो '[विषयभूतयोः शब्दस्य सङ्केतः कर्तुं शक्यते] 'तहि ज्ञानज्ञानाकारयोः सम्बन्धः स्यान्न चैवमस्ति तयोः क्षणविनश्वरत्वात् केनापि 'सह सारूप्याभावाच्च / ननु स्वलक्षणतद्विषयबोधबोधाकाराणामस्स्वसाधारणत्वं क्षणिकत्वं च "अन्तर्वर्तमानस्य तु बोधाकारस्य बहिरारोपितस्य साधारणत्वाक्षणि"कत्वे भविष्यत इत्यत आह बोधाकारस्य इति / [सं०] यद् क्षणिकं साधारणं चेति (कं. 192.20) विकल्पितान्यव्यावृत्तिरूपम् / बौद्धानां हि मते घटादावर्थे अघटव्यावत्यादिरूपमेव सामान्यमनीक्रियते, तच्च परिकल्पितत्वादेवाक्षणिकम् अनुवत्तिप्रत्ययहेतुत्वाच्च साधारणमित्यर्थः / क्षणिकश्च भवतीति (कं. 192.22) अबायं भावार्थः। स्वलक्षणादीनां त्रयाणां साधारणत्वाक्षणिकत्वाभावान्न शब्दसङ्केतः / ननु स्वलक्षणतद्विषयबोधबोधाकाराणामस्त्वसाधारणत्वं क्षणिकत्वं च, अन्तर्वर्तमानस्य तु बोधाकार[स्य] बहिरारोपितस्य साधारणस्वाक्षणिकत्वे भविष्यत इत्याशङ्कयाह बोषाकारस्येत्यादि (कं. 192.22) / बोधाकाराबनन्यदिति (क. 192.22) तस्यैव बहिरारोपात् / न तु सामान्य भविष्यति शब्दसङ्कतयोग्यं तस्य साधारणत्वा * दक्षणिकत्वाच्चेत्याशङ्कयाह सामान्यं चेत्यादि (कं. 192.23) / बाह्यत्वेनेति (कं. 192.23) स्थूलादित्वेन / अन्यव्यावृत्ततर्यकत्वे समारोपिते शब्दस्य सङ्कत (कं. 192.24) इत्यत्र अन्यव्यावृत्ततया समारोपिते उपचरिते एकत्वे शब्दस्य सङ्केत इति पदघटना। तत्र चेति (कं. 192.25) बाह्यत्वेनारोपिते स्वाकारे / तस्यामित्यादि (कं. 193.1) लोकव्याख्या-तस्यां कल्पनायां यद्बाह्य रूपं घटादि आभाति-प्रतिभासते / कि विशिष्टया भाति ? एकमिव ? वि[भ] क्तपरमाणुमात्रत्वेऽपि स्थूलाकारप्रतिभासात् / पुनः किं विशिष्टम् ? बाह्यं रूपमाभाति ! [कु०] प्रकारान्तरेण नामयोजनमाशङ्कते अथ मन्यस इति (कं. 192.19) / अस्तु शब्दस्य संसृष्टगोचरत्वं कथमेतावता विकस्य कल्पनात्वमिति तस्यां कारणान्तरस्य कल्पनायां बाह्यमिव-एकमिव-अन्यतो व्यावृत्तमिव रूपमाभाति / तु परमार्थ वस्तुं तस्मात् ] निरतत्वपरिज्ञानम् अलीकज्ञानं विभावना कल्पनेत्यर्थः / 1 ज्ञानस्य तद्वयतिरिक्तस्य-कं. 1; कं. 2 / 2 संस्पृष्टार्थ-जे. 1 3 शब्देन व्यपदिश्यते च-कं. 1; कं. 2 / 4 प्रमाणबलायातम्-जे. 1: जे. 2, जे.३। 5 [ ] एतच्चिह्नान्तर्गतः पाठः अब पुस्तकयो स्ति, भूतयोः . सङ्केत:-क। 6 तदा सम्बन्धः स्यान्नैवम् इत्यावृत्तं 'ड' पुस्तके। 7 केनापि सारूप्या-अ। 8 अतद् - अ / 9 बोधाकारस्य च-अ, ब, क। 10 क्षणिकत्वे न-अ, ब, क / .