________________ 446 ज्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली संज्ञा हि स्मयमाणापि प्रत्यक्षत्वं न बाधते / संज्ञिनः सा तटस्था हि न रूपाच्छादनक्षमा // इति / . प्रतीतिः शब्देन 'संसृष्टार्थ व्यपदिशतीत्यपि न सुप्रतीतम् / आत्मा हि चेतनः प्रतिसन्धानादिसामर्थ्यात् सङ्केतकालानुभूतं वाचकशब्दं स्मृत्वा तेनार्थं व्यपदिशति / घटोऽयमिति न प्रतीतिः, तस्याः प्रतिसन्धानादिसामर्थ्याभावात् / एवं तावत्प्रतीतिर्न शब्दं संयोजयति / . नापि स्वयं शब्देन संयुज्यते, ज्ञानस्य तदव्यतिरिक्तस्य चाकारस्य क्षणिकत्वेनासाधारणतया चाशक्यसकतयोः शब्देन संस्रष्टुमयोग्यत्वात्, विषयवाचिना शब्देन [टि०] शब्द इत्यर्थः / 'अथ तृतीयं विकल्पं निराचष्टे '[प्रतीतिः: 'शब्देनार्थ व्यपदिश्यति इत्यादि:-एवं प्रथम विकल्प विकल्पत्रयेण दूषयित्वोपसंहरति एवं तावत्प्रतीतिः इति / अथ द्वितीयं मूलविकल्पं निराचष्टे] 'नापि स्वयं शब्देन [पं०] शब्दरहितस्य निर्विकल्पकवदिति (कं. 192.8) निर्विकल्पके इव / प्रतिभासनादित्यत्र (क. 192.9) सविकल्पके इति शेयम् / यदि परं वाचकवद्वाच्यस्याप्यप्रत्यक्षं भविष्यतीत्याशङ्कयाह न च वाचके (कं. 192.9) इत्यादि। येनाऽयमिति (कं. 192.9) अयं [वा] च्योऽर्थः / सञ्ज्ञा होत्यादि (कं. 192.11) श्लोके 'सज्ञा हि स्मर्यमाणाऽपिसज्ञिनोऽर्थस्य प्रत्यक्षत्वं न बाधते' इति पदघटना। - न प्रतीतिरिति (क. 192.15) प्रतीति: कल्पनापरपर्याया। अथ घटोऽयमिति न व्यपदिश्यतीत्यर्थः / तस्याः प्रतिसन्धानाविसामामाबादिति (कं. 192.15) पूर्व हि निर्विकल्पके न सम्यगनुभवस्ततः सदृशपदार्थान्तरदर्शना. संस्कारोद्बोधस्ततः सङ्केतस्मृतिस्ततो वाचकशद्वद्वारा सविकल्पकोत्पत्तिः, अतः कुतः प्रतीमः प्रतिसन्धानादिसामर्थ्यमिति भावः / न शब्दं योजयतीति (कं. 192.16) न शब्दमर्थे योजयतीति द्रष्टव्यम् / ___ संयुज्यते (कं. 192.16) इत्यत्र प्रतीतिः कर्वी / ज्ञानस्येति (कं. 192.16) प्रतीतेः / असाधारणे हि सङ्केतः प्रवर्तते / अशक्यसङ्केतयोरिति (कं. 192.17) ज्ञानज्ञानगताकारयोर्बोधाकारयोरित्यर्थः / विषयवाचिनेति (कं. 192.18) ग्राह्मवाचिना। विषयिण इति (कं. 192.18) ग्राहकस्य / व्यापदेशाभावाच्चेति (क. 192.18) न हि भवति घटोज्ञानमिति / स चार्थः 'शब्दे न संसृज्यते व्यपदिश्यते चेति (कं.१९२.१९) काक्वा व्याख्येयम् / [कु०] "तटस्थेति (कं. 192.11) कारणग्रहणमित्यर्थः / ताटस्थ्यविप्रतिपद्यमानं प्रत्यनुव्यवसायं प्रमाणमाह केवलस्येति (कं. 192.8) / गृहीतसङ्केतस्येति / शब्दस्यायं विषय इत्यनुव्यवसायस्तटस्थमपि शब्दमवेक्ष्य विषयभावमापद्यमानस्य कथमिन्द्रियत्वमिति शङ्कां निरस्यति न च वा[च]क इति (कं. 192.9) / न रूपाच्छादनक्षमेति (कं. 192.12) इन्द्रि [य] जन्यज्ञानं प्रतिबध्नातीत्यर्थः / तृतीयं पक्षं दूषयति प्रतीतिरिति (कं. 192.13) / एवं प्रथम त्रेधा विकल्प्य दूषयित्वा तदुपसंहारपूर्वक द्वितीयं दूषयति एवं तावदिति (कं. 192.15) / 1 च्छादकक्षमा-जे. 2 / 2 शब्देनार्थ-जे. 1; जे.२। 3 अष्ट-अ,ब; 4 कल्पं-अ, ब। 5 [ ] एतच्चिह्नान्तर्गतः पाठः अ.बपुस्तकयो स्ति। 6 शब्देन संसृष्टार्थ मु. शब्देनार्थ-जे. 1, जे.३ / 7 स्वयं शब्देन-क; नापि स्वयं शब्देति -अ। 8 संयोजयति-कं. 1 / 9 संसृज्य शब्देन व्यपदिश्यते-कं. 1 / 10 तटस्थ इति-MS |