________________ टिप्पणपञ्जिकाकुसूमोगमाविटीकात्रयोपेतम 445 न्यायकन्दली न तावत्प्रतीतिरथं शब्दात्मकं करोति, अर्थस्य निर्विकल्पकगृहीतेनैव स्वरूपेण विकल्पज्ञानेऽपि प्रतिभासनाद्, अर्थक्रियाकरणाच्च / अन्यथा व्युत्पन्नाव्युत्पन्नयोर्युगपदेकार्थव्यवसायायोगात् / . अथ शब्दाकारोपरक्तमर्थ गृह्णाति ? तदप्ययुक्तम्, अप्रतीतेः / निर्विकल्पकज्ञानेनार्थे गृहीते प्रागनुभूतस्तद्वाचकः शब्दः स्मर्यते, प्रतियोगिदर्शनात् / स्मृत्या रूढश्चासौ 'तटस्थ एवार्थ परिच्छिनत्ति, न तु स्फटिक इव नीलोपरक्तः शब्दाकारोपरक्तोऽर्थो गृह्यते, शब्दस्याचाक्षुषत्वात्, केवलस्यैवार्थस्यदन्तया निर्विकल्पकवत् प्रतिभासनाच्च / न च वाचके स्मर्यमाणे वाच्यस्य काचित् स्वरूपक्षतिरस्ति, येनायं सत्यपोन्द्रिय'संयोगे प्रत्यक्षतां न लभते / यथोक्तम् [टि०] ज्ञेयम् , तिरश्चान्तु केवलार्थसंयोजनिकेति / अर्थक्रिया 'करणाच्च इति :- अन्यथा घटकार्यामर्थक्रियां न कुर्यात्, शब्दकार्यामेव कुर्यात् / 'अन्यथा व्युत्पन्नेति :- व्युत्पन्नस्य हि शब्दाध्यवसायः स्याद् अव्युत्पन्नस्य 'त्वर्थाध्यवसाय इति भिन्नाध्यवसायता स्यात् / प्रतियोगिदर्शनाद् इति :-प्रतियोगी प्रतिसम्बद्धी सञ्जीत्यर्थः / ‘स्मृत्यारूवश्व इति असो [पं०] निर्विकल्पकगृहीतेनैव स्वरूपेणेति (कं. 192.3) येनैव स्वरूपेण निर्विकल्पकेन अर्थो गृहीतस्तेनैव स्वरूपेण / विकल्पज्ञाने प्रतिभासते ततः कथं प्रतीतिरथं शब्दात्मकं करोति? निर्विकल्पकेन हि 'अशब्दात्मकोऽर्थों गृहीतोऽत: प्रतीतिरपि तादगेव प्रतिभासः (से) प्राप्नोतीत्यर्थः / अर्थक्रियाकरणाच्चेति (कं. 192.3) यदि हि प्रतीत्यार्थः शब्दात्मक: कृतस्तदा शब्दाकारेव क्रिया तेन क्रियते न घटादिसाध्येत्यर्थः / अन्यथेत्यादि (कं. 192.4) यदि प्रतीत्या अर्थस्य शब्दात्मकस्वं क्रियते तदा। व्युत्पन्नाव्युत्पन्नयोरिति (कं. 192.4) गृहीतागृहीतसङ्केतयोः / पुगपदेका ऽध्यवसायावोगादिति (कं. 192.4) कोऽर्थः / गृहीतसङ्केतयोभिन्नाध्यवसायता स्यात्, व्युत्पन्नशम्दाध्यवसायः स्यात् / अव्युत्पन्नस्य तु अर्थाध्यवसायः स्यादित्यर्थः / / - प्रतियोगिदर्शनादिति (कं. 192.6) प्रतियोगी संज्ञीवाच्य इति यावत् / असाविति (कं. 192.6) शब्दस्मृत्या रूढत्वेन विप्रकृष्टत्त्वाद् द्रसशब्दप्रयोगः / 'अदसस्तु विप्रकृष्ट' इति. वचनात् / तटस्थ एवेति (कं. 192.7) वक्तुमुखस्थ एव / परिच्छिनत्तीति (क. 192.7) अभिलषतीत्यर्थः / शब्दस्याचाक्षुषत्वादिति (कं. 192.8) यदि शब्दाकारोपरक्तोऽर्थो गृह्यते तदाऽर्थवच्छब्दस्यापि ग्रहणाच्चाक्षुषत्वं प्राप्नोति / केवलस्यवेति (कं. 192.8) [कु०] निर्विकल्पकगृहीतेनेति (कं. 192.3) शब्दात्मकत्वविरहेणेत्यर्थः / अर्थक्रियाकरणाच्चेति (कं. 192.3) निर्विकल्पके [न] गृहीतेनैवेति चकारेणानुकृष्यते / अन्यथेति (कं. 192.4) यदि शब्दात्मतया प्रतीयमानामेवार्थक्रियां कुर्यात् स्तनंधयः स्तनंपीत्वा न तृप्येदित्यर्थः / 1 देकार्थाध्यवसाय -पं। 2 तदर्थे -कं. 1, कं. 2 / 3 सम्प्रयोगे - जे. 2 / 4 करणत्वेति - अ, ब / 5 प्रतीकमिदं अ पुस्तके भ्रष्टम्। 6 हेत्वर्थाध्यवसाय-अ, ब, क / 7 दर्शनादि-ड। 8 स्मृत्यारूढस्य-अ, ब, क / 9 शब्दात्मको। 10 देकार्थावसाय-कं. 1, कं. 2; जे. 1, जे. 2, जे. 3 /