________________ 444 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली विकल्पः स्वोत्पत्तावर्थेन्द्रिययोरन्वयव्यतिरेकावनकरोति, तथा स्मृतेरपि / 'तत्रेन्द्रियार्थयोरयमेव स्मरणेनोपकारो यदेतो केवलौ कार्यमकुर्वन्तौ स्मृतिसहकारिलाभात् कुरुतः / स्वरूपातिशयानाधायिनो न सहकारिण इति क्षणभङ्गप्रतिषेधावसरे प्रतिषिद्धम् / [169] स्यादेतत्-कल्पनारहितं प्रत्यक्षम् / कल्पनाज्ञानं तु सविकल्पकं तस्मादर्थे न प्रमाणमिति / ___ अथ केयं कल्पना? शब्दसंयोजनात्मिका प्रतीतिरेका, अर्थसंयोजनात्मिका चापरा 'विशिष्टग्राहिण्यर्थप्रतीतिः कल्पना / तदयुक्तम्, विकल्पानुपपत्तेः / शब्दसंयोजनात्मिका प्रतीतिः किमर्थे शब्द संयोजयति ? कि वा स्वयं शब्देन संयुज्यते ? यदि तावदर्थे शब्दं संयोजयति ? 'तत्रापि कि शब्दात्मकमर्थ करोति ? किं वा शब्दाकारोपरवतं गृह्णाति ?. आहोस्विच्छब्देन व्यपदिति ? [टि०] [169] कल्पनारहितम् इति "प्रत्यक्ष कल्पनाप्रौढमभ्रान्तम्" इति लक्षणाभ्युपगमादिति भावः / सिद्धान्तवाद्याह-अथ केयं कल्पना इति :-डित्थादो केवलशब्दसंयोजनात्मिका, तत्र जात्यामर्थानां योजनाभावात् / 'विषाणी शुक्लो गोगच्छतीत्यादौ तु विषाणादिद्रव्यगुणक्रियारूपाणामर्थानां तद्वाचकानां च शब्दानां संयोजनादुभयात्मिकेत्यपि [पं०] सन्निकर्षस्येति ग्राह्यम् / तथा स्मृतेरपीति (कं. 191.20) वाचकः स्मृतेरप्यन्वयव्यतिरेकादनुविधत्ते / 'वस्तुस्वरूपातिशयानाधायिनो न सहकारिण इति (कं. 191.22) वस्तुस्वरूपेण येऽतिशयानादधते न स्मृतिश्च तस्य तस्य तमाधत्ते प्रागसमर्थयोरिन्द्रियार्थयोः स्वोत्पत्तिकार्यजननसामर्थ्यकरणात इत्यर्थः / [169] परवाक्यं स्यादेतदित्यादि (कं. 191.23) / कल्पनाजानं त्विति (कं. 191.23) काकवा व्याख्येयम्। सूरिवाक्यम् - अथ केयमित्यादि (कं. 191.24) / शब्दसंयोजनाऽपि केति (कं. 191.24) डित्थादौ केवलशब्दसंयोजनात्मिका तत्र व्रात्याद्यर्थानां योजनाऽभावात् / अर्थसंयोजनात्मिकेति (कं. 191.25) भिन्ना? केवलार्थ संयोजनात्मिका विषाणी शुक्लो गौर्गच्छातीत्यादौ तु विषाणिद्रव्यगुणक्रियारूपाणामर्थानां तद्वाचकानां च शब्दाना संयोजनादुभयात्मिकेत्यनुक्तमपि ज्ञेयम् / अर्थसंयोजनामिका चापरेत्यतः पुर: उभयत्रापीत्यध्याहार्या / विकल्पानुपपत्तेरिति (कं. 191.26) विकल्परघटनात् / किं शब्दात्मकमर्थमित्यादि (क. 192.1) विकल्पत्रयेऽपि प्रतीतिः की अर्थः कर्म / [कु०] [169] स्यादेतदिति (कं. 191.22) यदिन्द्रियार्थसन्निकर्षोत्पन्नमित्येतल्लक्षणं स्यात् तदा सविकल्पकस्य प्रत्यक्षत्वं स्यात् / न चैतल्लक्षणमित्यर्थः / ' पृच्छति अथेति (कं. 191.23) / उत्तरं शब्देति (कं. 191.23) / अर्थति (कं. 191.24) जात्यादीनामर्थत्वमस्मत्प्रसिद्धा। 1 ततश्चेन्द्रियार्थ - कं. 1, कं. 2 / 2 विशिष्टग्राहिणी कल्पना-कं. 1, कं. 2; विशिष्टग्राहिणी प्रतीति: - जे. 1, विशिष्टग्राहिकाऽर्थप्रतीतिः - जे. 2 / 3 अत्रापि-जे. 3 / 4 पविषाणी-ड / 5 त्मिकतेत्यपि - अ, ब, क / 6 'वस्तु' इति के पुस्तके नास्ति /