________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् न्यायकन्दली सविकल्पकमर्थे न प्रमाणमिति कथमुच्यते ? प्रतीयते हि घटोऽयमिति विज्ञाने विछिन्नः कम्बग्रीवात्मा सर्वतो व्यावत्तः पदार्थः / अनर्थजप्रतिभासो विकल्पस्तस्मादर्थाध्यवसायो भ्रान्त इति चेत् ? यथोक्तम्-- “विकल्पो वस्तुनिर्भासाद्विसंवादादुपप्लवः" इति // ___न, प्रवृत्तौ संदादात् / 'अर्थानुभवजन्मा विकल्पोऽर्थात्मतयारोपितस्वप्रतिभासः स्वलक्षणस्वप्रतिभासयोर्भद तिरोधाय स्वलक्षणदेशे पुरुषं प्रवर्तयति संवादयति च, मणिप्रभायां मणिबुद्धिवत्पारम्पर्येणार्थप्रतिबन्धादर्थप्राप्तेरिति चेत् ? यदि विकल्पो वस्तु न संस्पृशति, कथं तदात्मतया स्वप्रतिभासमारोपयेत् ? नाप्रतीते 'मरुमरीचिनिचये ताधिकरणो जलसमारोपो दृष्टः। .. अथ प्रत्यक्षपृष्ठभावी विकल्पः कारणव्यापारमुपाददानोऽर्थक्रियासमर्थ वस्तु साक्षात्करोति, - अन्यथार्थक्रियार्थिनो विकल्पतः प्रवृस्ययोगात् / यथाह-"ततोऽपि [टि०] प्राप्तेरसंवादः / मणिप्रभायाम् इति-यथा कुञ्चिकाविबरपरिदृष्टमणिप्रभायां मणिभ्रान्तया प्रवृत्तो मणि प्राप्नोति तथा स्वलक्षणानिविकल्पकं तस्मात्सविकल्पक तस्माच्च प्रवृत्तः पारम्पर्यणा'न्यविषयीकृतमर्थ 'प्राप्नोतीत्यर्थः / कारणव्यापारम् इति कारणं निर्विकल्पकं तस्य व्यापारः प्रतिभासकारिता / एवं तहि वस्तुनि इति-विवादाध्यासितमर्थे [40] स्वलक्षणान्निविकल्पकभ्रान्त्या सविकल्पकम् / तस्माच्च प्रवृत्तपारम्पर्येण निर्विकल्पकविषयीकृतमेवार्थं प्राप्नोतीत्यर्थः / बस्त्विति. (कं. 190.21) स्वलक्षणम् / कथं तदात्मतयेति (कं. 190.22) वस्स्वात्मतया कथं स्वप्रतिभासमारोपयेदित्यर्थः / यो हि यत्र स्पशत्यपि तस्य तेन सह तादात्म्यं कथं श्रद्धेयमिति भावः / / प्रत्यक्षपृष्ठभावीति (कं. 190.23) निर्विकल्पकत्वात्पश्चाद्भावी। कारणव्यापारमिति (कं. 190.23) कारणस्य निर्विकल्पस्य व्यापारं प्रतिभासकारितालक्षणम्। ततोऽपीति (कं. 190.25) प्रत्यक्षषष्ठभाविनः / सूरिवाक्यम् एवं तहीत्यादि ( कं. 190.25) / तत्राविसंवादप्रतीतिहेतुत्वादिति (कं. 190.26) हेतुः / निर्विकल्पक [कु०] तदेवं स्वमते सविकल्पकस्य प्रामाण्यं प्रसाध्य परमतं दूषयितुं पृच्छति 'सविकल्पक इति (कं. 190.15) / . 'निर्भासादप्रमाण्यमितीमां (मितियं) शङ्कामपन्दति प्रतीयत हीति (कं. 190.16) / विषयीभवति वच्छिन्नः परत्वेनैव (प)घटादिभ्यो व्यवच्छिन्न: कम्बुग्रीव आकृतिविशेषेण व्यावृत्तो व्यक्त्त्यन्तरेभ्यः / उक्तमजानानस्य परमतमाशङ्कते ... "अनर्थजप्रतिभासाद्धि स (क. 190.17) इति / सविकल्पकस्यानुवृत्तिगोचरत्वेन क्षणिकत्वादिसाधकप्रमाणविरोधादि त्यर्थः / दूषयति नेति (कं. 190.18) / विकल्पेनाथं निश्चित्य प्रवर्तमानस्य तदर्थप्राप्त्या संवादेनासंवादोऽसिद्ध 1 ज्ञाने-कं. 1; कं. 2; जे. 3 / 2 अथा-कं. 1; कं. 2; जे. 3 / 3 मरीचिनिचये-जे. 1, जे. 2, जे. 3 / 4 करण-कं. 1, कं. 2 / 5 प्रवृत्तेः-अ, ब / 6 णानन्य-अ, ब, क। 7 प्राप्नोति अर्थः - अ, ब। 8 करण .-कं। 9 संविकल्पकम् -कं / 10 अनर्थजप्रतिभासो विकल्प ... /