________________ 440 न्यायकन्दलीसंवलितप्रशस्तपावभाधम न्यायकन्दली ननुरोधिप्रतिभासस्य केशादिज्ञानवद्वस्तुनि भ्रान्तत्वादिति / तेषां मतं 'निराकुर्वन् सविकल्पकस्यापि प्रत्यक्षतामाह-'सामान्यविशेषद्रव्यगुणकर्म विशेषणापेक्षादात्ममनसोः सन्निकर्षादिति / सामान्यं च विशेषश्च द्रव्यं च गुणश्च कर्म च सामान्यविशेषद्रव्यगुणकर्माणि, सामान्यविशेषद्रव्यगुणकर्माण्येव विशेषणानि सामान्यविशेषद्रव्यगुणकर्मविशेष- . णानि, तान्यपेक्षते य आत्ममनःसन्निकर्षः, तस्मात् सद्व्यमिति सामान्यविशिष्टम्, पृथिवीति 'पृथिवीत्वविशेषविशिष्टम्, विषाणोति द्रव्यविशिष्टम्, शुक्लो गौरिति गणविशिष्टम्, गच्छतीति कर्मविशिष्टं प्रत्यक्षं स्यात् / चतुष्टयसन्निकर्षादित्यनेनैवात्ममनःसंयोगे लब्धे पुनरस्योपादानं पूर्वस्मानिविकल्पकप्रक्रमादिदं प्रक्रमान्तरमित्यवद्योत-. नार्थम् / [टि०] प्रमाणम् / पूर्वदृष्टतत्कालदृष्टयोरक्याध्यवसायात्पूर्वदृष्टस्य च तदानीमभावाद् 'वस्त्वन [रोधित्वम् / सर्वच सविकल्पकं निर्विकल्पकं च स्वपरावभासकं बौद्धमते तत्र निर्विकल्पकमुभयत्रापि प्रमाणं तच्चार्थापेक्षयन्द्रियक स्वापेक्षया] तु स्वसंवेदनम् / सविकल्पकं त्वर्थे एव न प्रमाणं स्वस्मिस्तु स्वसंवेदनं 'प्रमाणमेवेत्यर्थः / एवं प्रामाण्यं निषिध्यते इति / विकल्पोऽवस्त्विति - अवस्तुनि सोऽवस्तुभूतसामान्याकारस्य प्रतिभासनात् सामान्याकारप्रवृत्तस्य स्वलक्षण [पं०] वसा या]त् पूर्वदृष्टस्य च तदानीमभावात् वस्त्वननुरोधित्वम् / केशादिज्ञानवदिति (कं. 190.7) आकाशकेशादिज्ञानवत। श्रीधरो वक्ति सविकल्पकमित्यादि (कं. 190.15) कथमुच्यते इति (कं. 190.15) आह सौगता भवद्भिः। इदमेव स्वोक्तमुपपादयति प्रतीयते होत्यादिना (कं. 190.16) / विच्छिन्न इति (क. 190.16) पृथग् रूपः / परवाक्यम् अनर्थजेत्यादि (कं. 190.17) / वस्तुनिर्भासादिति (कं. 190.18) अवस्तुभूतस्य सामान्याकारस्य प्रतिभासनात् / 'असंवादादिति (कं. 190.18) सामान्याकारप्रवृत्तस्य स्वलक्षणप्राप्तेरसंवादः / / __सरिवाक्यं नेति (कं. 190.18) / अर्थानुभवजन्मे (कं. 190.19) त्यागार्थो निर्विकल्पकः / मणिप्रभायां मणिबुद्धिवदिति (कं. 190.20) यथा कुञ्चिकाविवरदष्टमणिप्रभायां मणिभ्रान्त्या प्रवृत्ती मणि प्राप्नोति तथा [कु०] वर्वासनापरिपाक एक विकल्पस्य कारणमिति भावः / 'वस्त्वननुरोधिन इति (कं. 190.7) तदुत्पत्तिव्यतिरेकेण विषयत्वस्य निर्वक्तुमशक्यत्वादिति भावः / / तान्यपेक्षत इति (कं. 190.11) तेषां तत्र वस्तुतस्तस्योपपादितत्वादुपपादयिष्यमाणत्वाद्विषयस्य च तदुत्पत्तिव्यतिरेकेणैव सङ्ख्यायामुपपादितत्वाच्चेति भावः / 1 निराकर्तृ - कं. 1; कं. 2; जे. 3 / 2 सामान्येत्यादि - कं. 1; क. 2 / 3 पृथिवीत्वविशिष्टम् / 4 वस्तु ननु-ड; [ ] एतच्चिह्नान्तर्गतः पाठः अबपुस्तकयो स्ति। 5 स्तापेक्षया। 6 प्रमाणमिवेत्यर्थः - अ, ब, क / 7 एव -ह। 8 विसंवादाद्-कं। 9 वस्त्वनुरोधि - कं /