________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली विकल्पाद्वस्तुन्येव प्रवृत्तिः" 'इति / एवं तहि वस्तुनि प्रमाणम्, तत्राविसंवादिप्रतीतिहेतुत्वात् / अथ मन्यसे यः क्षणः प्रत्यक्षेण गृह्यते नासौ विकल्पेनाध्यवसीयते, यश्च विकल्पेनाध्यवसीयते, न स प्रवृत्त्या लभ्यत इति क्षणापेक्षया न संवादः, तेषां क्षणिकत्वात् / किन्तु यादृशः 'क्षणः प्रत्यक्षेण गृह्यते तादृशो विकल्पेनाध्यवसीयते, यादृशश्च विकल्पेनाध्यवसीयते तादशश्च प्रवृत्त्या लभ्यत इत्यनाकलितक्षणभेदस्यातद्वयावृत्तवस्तुमात्रापेक्षया संवादः। तत्र च विकल्पो गृहीतग्राहित्वादप्रमाणम्, तथाभूतस्यार्थस्य प्रत्यक्षेणैव गृहीतत्वात् / लिङ्गजस्तु विकल्पः प्रमाणान्तराप्राप्तस्वलक्षणप्रापकतया प्रमाणमिति / तदप्यसारम्, नहि क्षणस्यान्यव्यावृत्तिरभावरूपान्यव्यावृत्त्यपेक्षया वा तस्यारोपितं . साधारणं रूपमवस्तुभूतं प्रत्यक्षेण गृह्यते, हेतुत्वस्य ग्राह्यलक्षणत्वाववस्तुनश्च समस्तार्थ [टि०] प्रमाणं तत्राविसंवादिप्रतीतिहेतुत्वाद् निर्विकल्पकवदिति प्रमाणम् / अन्यत्रार्थेऽविसंवादिप्रतीतिहेतुत्वेपि अन्यत्रार्थे प्रामाण्याभावात्तत्रेत्युक्तम् / न चार्थप्रतीतिहेतुत्वं सविकल्पकस्यासिद्धम्, अन्वयव्यतिरेकाभ्यां तथावधारणात् / ननु तबनुमितिज्ञानमपि सविकल्पकत्वादप्रमाणं स्यादत आह लिङ्गजस्तु विकल्पा इति / [पं०] वदिति दृष्टान्तोऽप्यत्राऽनुक्तेप्यूह्यः / तेषामिति (कं. 191.1) क्षणानाम् / प्रत्यक्षेणेति (कं. 191.2) निर्विकल्पकेन / अनाकलितक्षणमेदस्येति (कं. 191.3) विकल्पस्य / अतघावृत्तमात्रापेक्षया संवाद इति (कं. 191.3) अन्यव्यावृत्तिमात्रेण निर्विकल्पकविकल्पाध्यवसायप्रवृत्तीनां तुल्यत्वात् / प्रत्यक्षणव गृहीतत्वाद् (कं.. 191.5) इति प्रत्यक्षेण = निर्विकल्पकेन, अत एव समाधाता कुतो विषयकता इत्युत्तरत्र वक्ष्यति / प्रमाणान्तराप्राप्तस्वलक्षणप्रापकतया प्रमाणमिति (कं. 191.5) पर्वतादि नियतदेशाधिकरणे साध्यगणकत्वेन यदगृहीतग्राहित्वं तेन लिङ्गजो विकल्प: प्रमाणमित्यर्थः / - न हि क्षणस्यान्यज्यावृत्तिरभावरूपेति (कं. 191.6) विकल्पग्राह्याऽन्यव्यावृत्तिरभावरूपा, अतः सा प्रत्यक्षेण न हि गृह्यते इति योगः / तस्येति (कं. 191.7) क्षणस्य / हेतुत्वस्य ग्राह्यलक्षणत्वादिति (कं. 1917) प्रत्यक्षस्य [कु०] इत्यर्थः / अस्य संवादस्यान्यथासिद्धिमाशङ्कते अर्थेति (कं. 190.19) / आद्य प्रमाणत्वाङ्गीकारः स्पष्ट इति / द्वितीयं दूषयति यदीति (कं. 190.21) / मा भूत् स्वविषयेऽर्थारोप: स्वात्मन्येवासेस्त्विति शङ्कते अथेति (कं. 190.23) / दूषयति एवं तहीति (कं. 190.25) / अविसंवादिप्रतीतिहेतुत्वादिति (कं. 190.26) प्रत्यक्षपृष्ठभाविनियमेन तद्विषयस्य साक्षात्कारित्वनियमादित्यर्थः / क्षणभङ्गेन संवादबाधमाशङ्कते अथ मन्यसे इति (कं. 190.26) / यदि संवादो नास्ति कथं लौकिकानां संवादः प्रतीयत इत्यत आह 'अत्र चेति (कं. 191.4) / अन्यापोहेन सहागृहीतभेदमनुभवगृहीतमेव क्षणं 1 इत्यादि-जे. 1, जे. 2, जे. 3 / 2 क्षणप्रत्यक्षण-कं. 1, कं. 2; जे. 2, जे. 3 / 3 क्षणप्रत्यक्षेण - मे. 1 4 तत्र च-क।