________________ 438 ग्यायकन्दलीसवलितप्रशस्तपादभाष्यम् ... न्यायकन्दली. [167] केचित् सविकल्पकमेव प्रत्यक्ष'माचक्षते, व्यवसायात्मकत्वेन सर्वस्य व्यवहारयोग्यत्वात, शब्दव्युत्पत्तिरहितानामपि तिरश्चामर्थविकल्पात् प्रवृत्तेः, तान् प्रत्याहस्वरूपालोचनमात्रमिति / स्वरूपस्यालोचनमात्र विकल्परहितं 'ग्रहणमात्रमिति यावत् प्रत्यक्षम् प्रत्यक्ष। यदि हि वस्तुस्वरूपस्य निर्विकल्पकेन ग्रहणं नेष्यते, तदा तद्वाचकशब्दस्य स्मृत्यभावात् सविकल्पकमपि न स्यात् / अतः सविकल्पकमिच्छता निर्विकल्पकमप्येषितव्यम्, तच्च न सामान्यमानं गृह्णाति, भेदस्यापि प्रतिभासनात् / नापि स्वलक्षणमात्रम्, सामान्याकारस्य संवेदनात्, व्यक्त्यन्तरदर्शने प्रतिसन्धानाच्च / किन्तु सामान्यं विशेषं चोभयमपि गृह्णाति, यदि परमिदं सामान्यमयं विशेष इत्येवं विविच्य न प्रत्येति वस्त्वन्तरानुसन्धानविरहात् / पिण्डान्तरानुवृत्तिग्रहणाद्धि सामान्यं 'विविच्यते, . [पं०] [167] केचिदिति (कं. 189.13) वैयाकरणाः / सर्वस्येति (कं. 189.14) प्रमातुः / अर्थविकल्पादिति (कं. 189.15) अर्थविकल्पादेवेत्यर्थः / तद्वाचक शब्बस्मृत्यभावादिति (कं. 189.17) स्वरूपवाचकशब्दस्मरण[णा) भावात् / सविकल्पकमपि न स्यादिति (कं. 189.18) शब्दस्मरणसहकृतस्येन्द्रियार्थसन्निकर्षस्य विकल्पजनकत्वात् / तच्चेति (कं. 189.19) निर्विकल्पकम् / भेदस्यापोति (कं. 189.19) इतरविषयेभ्यो विशेषस्य / स्वलक्षणमात्रमिति (कं. 189.20) विविक्तक्षणक्षयिपरमाणुलक्षणम् / प्रतिसन्धानाच्चे (कं. 189.21) त्यत्र निर्विकल्पकाधिकारा [कु०] [167] व्यवसायात्मकत्वेनेति (कं. 189.14) अभिलापसंसर्गयोग्यत्वेनेत्यर्थः / एतेनेदमभिप्रेतं; सर्वं हि ज्ञानमनुव्यवसायनिश्चितसद्भावम् / अनुव्यवसायश्च विषयावच्छेदेन रूपज्ञानं रसज्ञानमिति / विषयश्च नाम धेयाथं(थि)नः नियमेन तत्सामानाधिकरण्येन प्रतीयमानत्वात् / यद्यदात्मकं न भवति न तं(तद) तेन नियतं सामानाधिकरण्यमनभवत् प्रथि यति यथा गौरश्वो नेति नियमाच्च नामधेयस्तादात्म्यं तदा तं निमित्तभतः सूतरां तादात्म्यमेव / न चासता असम्बद्धेन वा निमित्तसम्बन्धः / ततश्च सर्वदा सर्वया नामजात्याद्यल्लेखेनैव विषया: परिस्फूरन्तीति न कदाचिनिर्विकल्पकं सम्भवतीति / नन्वेतदनुपपन्नं भागासिद्धस्त्यित आह शब्दव्युत्पत्तिरहितानामिति (कं 189.14) / 'अर्थविकल्पाविति (कं. 181.15) प्राग्भवीयशब्दवासनावशां (शात्) तिरश्वामपि नामाद्युल्लेखेनैव ज्ञानमुत्पद्यते इति भावः / 'यन्नावयुक्तमिति-नियमेन सामानाधिकरण्येनैताव[त] प्रतीयमानत्वादिति त[त] सत्या(१) भागासिद्धिरव्युत्पन्नष[त्तेश्च शब्दानामर्थपरत्वस्वभावतया वाचकत्वेनोपाधिनैव सामानाधिकरण्यप्रतीतिरन्यथासिद्धा यथा गौर्वाहीक इत्यत्र गोगुणा उपलक्षणत्वेनोपाधिना वाहीकसामानाधिकरण्यमनभवन्ति / नैतावता वाहीकस्य गोगुणतादात्म्यम् / यत्त्वननुव्यवसायनिर्विकल्पकसद्भावे प्रमाणं नास्तीति तत्राह 'प्रत्यक्ष(कं. १८९.१६)[मिति / अनुव्यवसायाभावेऽपि नामधेयस्मृतिहेतुसंस्कारोवोधेन कार्येण निर्विकल्पकमनुभेयमिति भावः / एवं प्रसाधितस्य निर्विकल्पस्य विषयं विविनक्ति तच्च नेति (कं. 189.19) / व्यक्त्यन्तरदर्शन इति (कं. 189.20) निर्विकल्पकेन काञ्चिक्ति गृहीत्वा 1 माचक्षते न निर्विकल्पकं - जे. 1 / 2 प्रत्यक्षमात्रमिति यावत् - कं. 1, कं. 2; ग्रहणमिति प्रत्यक्षं - जे. 1 / 3 गृह्यते-जे. 3 / 4 शब्दस्य-कं। 5 अथ-Ms | 6 प्रतीकमिदं कन्दल्यां नास्ति-सं। 7 प्रत्यक्षमात्रं-कं।