________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटोकात्रयोपेतम् 437 प्रशस्तपादभाष्यम् कर्षाद् धर्मादिसामग्ये च स्वरूपालोचनमात्रम्, सामान्यविशेषद्रव्यगुणकर्मविशेषणापेक्षा'दात्ममनःसन्निकर्षात् प्रत्यक्षमुत्पद्यते, सद् द्रव्यं पृथिवी विषाणी शुक्लौ गौर्गच्छतीति / न्यायकन्दली संशयविपर्ययानुत्पत्तिरिति चेन्न, अनियमात् / सामान्यं हि बहुविषयत्वात् स्वाश्रयस्य चक्षुःसन्निकर्षमात्रेणोपलभ्यते, विशेषस्तु स्वल्पविषयत्वात् 'स्वाश्रयस्य तदवयवानां च भूयसां चक्षुरवयविना भूयोभिश्च तदवयवैः सह सग्निकर्षमपेक्षत इति न सहोपलम्भनियमः, सामग्रीभेदात् / अत एव दूरादध्यक्तग्रहणम्, गच्छतश्चक्षुरश्मेरन्तराले 'विशीर्णानामवयवान्तराणामर्थप्राप्त्यभावात् / [टि०] [166-167] ननु शब्दरूपविकल्पमन्तरेण प्रवृत्तिने कुत्रापि दृष्टेत्यत आह शन्दव्युत्पत्तीति / व्यक्त्यन्तरदर्शने इति:-उल्लेखशून्यं प्रतिसन्धानमित्यर्थः / सामान्यविशेषेति-सामान्यं सत्ताद्रव्यत्वादि विशेषः, 'पृथिवीत्वादि स्वलक्षणं व्यक्तिः। [पं०] विशेषोपलम्भस्येति (क. 189.8) विशेषा वक्रकोटरादयः / 'अवश्यंभावभावादिति (क. 189.8) अवश्यंभावेन भावात् / संशयविपर्ययानुत्पत्तिरिति (कं. 189.8) अत्रायं भावः- इन्द्रियार्थसनिकर्ष एच यदि हेतुस्तदा यथा सामान्योपलम्भस्तथा विशेषोपलम्भोऽपि स्याद अर्थगतत्वाविशेषात् / विशेषोपलम्भे च कुतः संशयविपर्ययौ ? * अनियमादिति (के. 189.9) सामान्योपलम्भे सति वि[शेषोपलम्भेनाप्यवश्यं भवितव्यमिति नियमो नास्तीत्यर्थः / सामान्यमिति (कं. 189.9) ऊर्ध्वत्वादि / स्वाश्रयस्येति (कं. 1899) स्थावादेः / विशेषस्वित्यादि (कं. 189.10) विशेषः पुनः स्वाश्रयस्य स्थाण्वादेश्वभुरवयविना सह सन्निकर्षममपेक्षते तथा भूयसा बहूनां तदवयवानां स्वाश्रयभूतस्थावाचवयवानी भूयोभिर्बहुभिस्तदवयवंश्चक्षुरवयवश्व सह सन्निकर्षमपेक्षते स्वल्पविषयत्वात / कोऽर्थो यथा स्थाणादिभिः सह चक्षुरश्म्यं स्थाण्वाद्यवयबैश्च बहुभिः सहस्रचक्षुरश्भ्यवयवा बहवः संयुज्यन्ते तदा विशेषोपलम्भः स्यादित्यर्थः / . सहोपलम्भनियम इति (कं. 189.11) सामान्यविशेषयोर्युगपदुपलम्भनिश्चयः / [10] [166] चतुष्टयसन्निकर्षः संयोग. - तस्मात्संयुक्तसमवायादीनां सन्निकर्षान्त राणां कारणत्वमविरुद्धमेव / सनिकर्षस्य कारणत्वानुमाने प्रतिकूलमाशङ्कते इनियार्थति (कं. 189.7) / परिहरति नेति (क. 189.8) / [अ] नियमाविति (कं. 189.9) यदिन्द्रियं सन्निकृष्टं तत्सर्वमुपलभ्यते इति न नियम्यत इत्यर्थः / 1 आत्मनः-दे। 2 स्वाश्रयस्य च-कं. 1, कं. 2 / 3 प्रकीर्णानामवयवाना-. 1, क. 2 / 4 पृथिवीत्यादि * - अ, ब, क . 5 अवश्यं भाक्तिया-मु. कं। .