________________ 435 टिप्पणपञ्जिकाकुसुमोद्गमाविटीकानयोपेतम् 435 प्रशस्तपादभाग्यम् तद्धि द्रव्यादिषु पदार्थेषूत्पद्यते / न्यायकन्दली . अक्षजं 'विज्ञानं प्रत्यक्षमित्युक्ते स्मृतिरपि प्रत्यक्षा 'स्यात्, अतस्तामसद्विषयां 'व्युदसितुं 'प्रत्यक्षस्य विषयं निर्दिशति-तद्धि द्रव्यादिषु पदार्थेषु उत्पद्यत इति / हिशब्दो ऽवधारणे / तत् प्रत्यक्षं द्रव्यादिष्वेव द्रव्यगुणकर्मसामान्येष्वेवोत्पद्यते, न विशेषसमवाययोरित्यर्थः / द्रव्यस्य प्राधान्यात्प्रथमं तत्र प्रत्यक्षोत्पत्तिमाह-द्रव्ये तावदिति / तावच्छब्दः क्रमार्थः / महति द्रव्ये त्रिविधे पृथिव्यप्तेजोलक्षणे प्रत्यक्ष भवति, कुनः कारणादित्यत्राह -अनेकद्रव्यवत्त्वादिति / अनेकद्रव्यवत्त्वं भूयोऽवयवाश्रितत्वम् / रूपस्य प्रकाश उद्भव [टि०] प्रत्यक्षं तु सन्निहिन एवेति भावः / अनेक द्रव्यवत्वम् इति - अत्रानेकशब्दों बहुत्वार्थः तेन द्वयणुकव्यवच्छेदः / सन्निकर्षोऽत्र संयोगोऽभिहितः तेन संयुक्तसमवायादिसन्निकर्षापेक्षया न पञ्चकादिसन्निकर्षः / ननु यद्महत्तदनेकद्रव्यं, व्यवच्छेद्याभावाद्, द्वयोरुपादानं "व्यर्थम्, अत आह अवयवभूयस्त्वे इति:-महत्त्वं प्रति अवयभू यस्त्वस्यापि "कारणत्वं दर्शयि तुमिति भावः / [पं०] समस्तेन्द्रियावरोधार्थ इति (कं. 188.14) अन्ते मनसोऽपि ग्रहणम् / प्राविसमास इति (कं. 188.14) तत्पुरुषसमासः / अव्ययीभावे हि क्लीबत्वमेव स्यात् / एकादशविधानीति (कं. 188.17) पञ्चघ्राणादीनि बुद्धीन्द्रियाणि पायूपस्थवचःपाणिपादाः पञ्च कर्मेन्द्रियाणि मनश्चेति / स्मृतिरपि प्रत्यक्षा स्यादिति (कं. 188.18) प्रत्यक्षा प्राप्नोति स्मृतेर्मनोजत्वात् / असद्विषयामिति (कं. 188.19) अतीतार्थविषयत्वात्। "तत्रेति = द्रव्ये / उद्भवसमाख्यात इति (कं. 188.24) उद्भव इति [कु०] तं निवृत्त्यर्थमिति (कं. 188.17) विभागस्य न्यूनाधिकसङ्ख्या. व्यवच्छेदकतयाऽधिकसङ्ख्यानिवृत्तिरिति / इन्द्रियलक्षणपर्यालोचनया च वागादीनामनिन्द्रियत्वम् / तच्च शरीरसंयुक्तमतीन्द्रियं साक्षात्कारत्वप्रतीतिसाधनमिति / 'न चाहंकारविशेषविकार इन्द्रियमिति लक्षणम् ; अहङ्कारादि प्रया[मायां प्रमाणाभावात् / न च भोगसाधनमिन्द्रियं शरीरादिष्वतिव्याप्तेः / एवं न्यूनसङ्ख्याव्युदासेन पञ्चेन्द्रियवादिनो बौद्धा निरस्ता वेदितव्याः / षष्ठं हि मन इन्द्रियं द्रव्यप्रकरणे व्युत्यादिस्मृति रपि प्रत्यक्षा स्यादिति मानसोऽप्यपेक्षेषु परिगणनादित्यर्थः (मनसोऽप्यक्षेषु) / असद्विषयां "व्युदसितुमिति (कं. 188.19) अक्षजत्वं हि अपरोक्षत्वाज्जातिमुपलक्षयितुमुक्तम् / सा च सन्निहितवर्तमानविषयास्वेव 1 ज्ञानं-जे.१, जे. 2 / 2 प्राप्नोति-जे. 1, जे. 2 / 3 दर्शयित-कं. 1, कं.२। 4 प्रत्यक्षविषयं-कं. 1, . कं. 2 / 5 तद्वीति - कं 1, कं.२; तद्धि द्रव्यादिषु विषयेषु-जे.३। 6 तत्प्रत्यक्षोत्पत्ति-कं. 1, कं. 2 / 7' द्रव्ये-कं. 1; कं.२। 8 द्रव्यत्वम् -अ, ब। 9 तत-अ। 10 अथ - अ, ब / 11 भूयस्तस्यापि - अ, ब / 12 कारणं - अ, ब, क / 13 प्रतीकमिदं कन्दल्यां नास्ति / 14 दर्शयितुम -के।