________________ 434 - यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली अक्षमक्षं प्रतीत्य प्राप्य यदुत्पद्यते तत्प्रत्यक्षं प्रमाणमिति / कारणविशेषजत्वमपि कार्यस्य समानासमानजातीयव्यवच्छेदसमर्थत्वाल्लक्षणं भवति / यथा यवबीजप्रभवत्वं यवारस्य, अत एव यवाङ्कर इति व्यपदिश्यते। सुखदुःखसंस्काराणामपीन्द्रियजत्वात् प्रत्यक्षप्रमाणत्वप्रसङ्ग इति चेन्न, बुद्धचधिकारेण विशेषितत्वात् / अक्षमक्षं प्रतीत्य या बुद्धिरुत्पद्यते तत् प्रत्यक्षम् / सुखादयश्च न बुद्धिस्वभावाः कुतस्तेषु प्रसक्तिः ? यद्येवं सन्निकर्षस्य प्रामाण्यं न लभ्यते ? सत्यम् / इतो वाक्यान्न लभ्यते, यदि तु करणव्युत्पत्त्या तस्यापि प्रामाण्यमभिमतम्, परिच्छेदहेतुत्वात् / संशयविपर्ययव्यदासो विद्यानिरूपणस्य प्रकृतत्वात् / अक्षं प्रतीत्य यदुत्पद्यते तत् प्रत्यक्षमित्युक्तेऽतिप्रसिद्धत्वाद्वाह्येन्द्रियजमेव प्रत्यक्षमिति कस्यचिद् भ्रान्तिः स्यात्, तन्निवृत्त्यर्थमक्षमक्षमिति वीप्सा 'सकलेन्द्रियावबोधार्थाः कृता / कुगतिप्रादय इति प्रादिसमासः / प्रतिगतमक्षं प्रत्यक्षमित्यनेनास्याभिधेयलिङ्गता, प्रत्यक्षं ज्ञानं प्रत्यक्षा बुद्धिः प्रत्यक्षः प्रत्यय 'इति च / अक्षशब्दस्य बहुष्वर्थेषु निरूढत्वाद्विशिनष्टि-अक्षाणीन्द्रियाणि / तानि च सांख्यरेकादविधान्युक्तानि, तन्निवृत्त्यर्थ परिसख्यां करोति-घ्राणरसनचक्षुस्त्वकछोत्रमनांसीति / [टि.] व्युदासः / इदं हि प्रत्यक्षप्रमाया लक्षणं दशितम् / परस्तु प्रमाण (प्रमा) करणलक्षणाभिप्रायेणवविध लक्षणे सतीन्द्रियार्थ सन्निकर्षस्य प्रामाण्यं न सिद्धयतीति (पर:) प्राह यद्येवम् इति 'इत्थं वीप्सया अर्थनिर्देशस्य फलं 'व्युत्पाद्य कर्तव्यं समासं कथयति 'कुगतिप्रादय इति च इति / तद्धि द्रव्यादिषु इति :- स्मृतिसिन्निहितेऽपि द्रव्यादावुत्पद्यते, [पं०] कारणेत्यादि (कं. 188.4) कारणविशेष इह इन्द्रियाणि ग्राह्याणि / पदयोजना चैवम्-कारणविशेषजत्वमपि कार्यस्य लक्षणं भवतीति / सुखदुःखसंस्काराणामपीति (कं. 188.7) सुखं च दुःखं च भावनाख्य: संस्कारश्च सुखदुःखसंस्कारास्तेषाम् / सप्निकर्षस्येति (कं. 188.9) अनन्तरमेव वक्ष्यमाणस्वरूपस्य / प्रामाण्यं न लभ्यते इति (कं. 188.9) जडत्वेन बुद्धिस्वभावत्वाभावात् / यदित्विति (कं. 188.10) यदि परम् / करणव्युत्त्पत्त्येति (क. 188.10) बुदधतेऽनया बुद्धिः संन्निकर्षः करणत्वात् / तस्यापीति (कं. 188.10) सन्निकर्षस्य परिच्छेदहेतुत्वादिति (कं. 188.11) पदार्थावबोधे साधकतमत्वात् / साधकतमं हि करणमभिधीयते / [कु०] 'प्रसिद्धादिति (कं. 188.12) (मे) अनुसेयत्वाविशेषेऽपि चक्षुरादीनां प्रवृत्तिर्बाह्योपलब्ध्यनुमेयत्वात् / यद्यक्षमक्ष [मिति भाष्ये न विग्रहं [भाष्येण विग्रहः] तर्हि कोऽस्य समास इत्यत आह कुगतीति (कं. 188.14) न च परवल्लिङ्गतया तत्पुरुषस्य प्रत्यक्षा बुद्धिरिति स्त्रीलिङ्गता [ए]व स्यादिति वाक्यं द्विगु प्राप्तापन्नालम् / एवं गतिसमासेषु परवलिङ्गनया प्रतिषेधो वक्तव्य इति काव्यविनस्मरणात् / अत्र च गतिमहं [हः] प्रादीनुपलक्षयति / 1 सति प्रसिद्धत्वात-जे. 1 / 2 समस्तेन्द्रियावरोधार्था-कं. 1, कं. 2 3 इति-कं. 1, कं. 2 / 4 सन्निकर्षप्रामाण्यं -अ, ब, क; 5 इष्टं-अ, ब, क; 6 श्रुताद्य-अ, ब, क; 7 प्रादय मु. कुगतिप्रादयजे. 1, जे. 3 / 8 तद्धि शब्दोऽवधारणे तत्प्रत्यक्षं द्रव्यादिषु मु., तद्धि द्रव्यादिषु-जे. 1, जे. 3 / 9 अतिप्रसिद्धत्वात्-कं /