________________ 433 टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् प्रशस्तपादभाष्यम् {165] विद्यापि चतुर्विधा-प्रत्यक्षलैङ्गिकस्मृत्यार्षलक्षणा। तत्राक्षमक्षं प्रतीत्योत्पद्यत इति प्रत्यक्षम् / अक्षाणीन्द्रियाणि, घ्राणरसनचक्षुस्त्वकछोत्र'मनांसि षट् / - न्यायकन्दली [165) सम्प्रति विद्यां विभजते-'विद्यापि चतुर्विधेति / न केवलमविद्या चतुर्विधा, विद्यापि चतुर्विधेति / 'प्रत्यक्षे लैङ्गिकस्मत्यार्षलक्षणा प्रत्यक्षस्मृत्यार्षस्वभावा। आदौ प्रत्यक्षस्य निर्देशः कारणत्वात्, तदनन्तरमनुमानस्य तत्पूर्वकत्वात्, तदनन्तरं स्मृतेः प्रत्यक्षानुमितेष्वर्थेषु भावात्, लोकिकप्रमाणान्ते संकीर्तनमार्षस्य लोकोत्तराणां पुरुषाणां तद्भावात् / .. - 'प्रत्यक्षस्य . लक्षणं तावत्कथयति-तत्राक्षमक्षं प्रतीत्योत्पद्यत इति प्रत्यक्षमिति / [टि०] // अथ बुद्धिप्रकरणे विद्याभेदनिरूपणे प्रत्यक्षनिरूपणम् // [165] तत्पूर्वकत्वाद् इति - अनुमितानुमानेऽपि पारम्पर्येण प्रत्यक्षपूर्वकत्वमेव / कुतस्तेषु प्रसक्तिः इति / एतेनेन्द्रियजं ज्ञानं प्रत्यक्षमितीश्वरप्रत्यक्षादन्यस्य प्रत्यक्षस्य लक्षणं सूचितम् / यत्तु श्रोत्रादिभिरिन्द्रियरामा मानमपि जन्यते तथापि 'नासा [नादः इ] विन्द्रियरूपतया किन्तु लिङ्गारूपतयेति / 'ज्ञानपदेन च सुखदुःखादीनां [पं०] [165] कारणत्वादिति (कं. 186.9) प्रत्यक्षं ह्यनुमानस्य कारणम् / तत्पूर्वकत्वादिति (कं. 186.10) प्रत्यक्षजन्यत्वात् / प्रत्यक्षजन्यत्वात / .. . [कु०] [165] आदौ प्रत्यक्षस्येति (कं. 186.9) प्रमाणान्तरनरपेक्ष्यादिति शेषः।। . अक्षमक्षेति वीप्सादर्शदव्ययीभावशङ्कया प्रत्यक्षा बुद्धिः प्रत्यक्षः प्रत्य[य] इति स्त्रीलिङ्गानुपपत्तिशङ्कामर्थ प्रतिपादनपरत्वेनोपनयन् कारणोपन्या[स]स्य लक्षणत्वानुपपत्ति परिहरति कारणविशेषजत्वमपीति (कं. 188.4) / अत एवेति (कं. 188.6) लक्षणस्य प्रवृत्तिनिमित्तत्वादेव। सुखदुःखसंस्काराणामिति (कं. 188.7) संस्कारस्येन्द्रियज्जत्वं - मनःकार्यतया द्रष्टव्यम् / सुखादयश्चेति (कं. 188.8) एतेनेन्द्रियरूपादय इच्छादयव्यतिरिक्ता इति द्रष्टव्यम् / कारणव्युत्पत्त्या अव्याप्तिमाशङ्कते “अर्थ[व]मिति (कं. 188.9) / परिहरति सत्यमिति (कं. 188.10) / भावलक्षणरत्यादस्य वाक्यस्येत्यर्थः / 1 मनांसि-दे। 2 विद्यापीनि-कं. 1, कं. 2 / 3 प्रत्यक्षेति-कं. 1, कं. 2 / 4 प्रत्यक्षलक्षणं कथयति-जे. 1, प्रत्यक्षस्य लक्षणं कथयति-जे. 2 / 5 न्द्रियजे-अ, ब, क; 6 नासौ इति न शुद्ध नपुंसके पाठः शुद्धः / 7 'ज्ञानपदेश -ड; 8 यद्येवम् - कं। ... .