________________ टिप्पणपञ्जिकाकुसुमोदगमाविटीकात्रयोपेतम् 431 प्रशस्तपादभाष्यम् [164] 'तत्तु त्रिविधम्-संस्कारपाटवाद्धातुदोषाददृष्टाच्च / तत्र संस्कारपाटवात् तावत् कामी क्रुद्धो वा यदा यमर्थमादृतश्चिन्तयन् स्वपिति, तदा सैव चिन्तासन्ततिः प्रत्यक्षाकारा सजायते / धातुदोषाद्वातप्रकृति वातदूषितो वा आकाशगमनादीनि पश्यति / पित्तप्रकृतिः पित्तदूषितो. वाग्निप्रवेशकनक पर्वतादीनि पश्यति / श्लेष्मप्रकृतिः श्लेष्मदूषितो वा सरित्समुद्र'प्रतरणहिमपर्वतादीन् पश्यति / न्यायकन्दली [164] तत्तु त्रिविधम् / कुत 'इत्यत्राह-संस्कारपाटवाद्धातुदोषाददृष्टाच्चेति / संस्कारपाटवात् तावत् कामी क्रुद्धो वा यदा यमर्थ प्रियतमां शत्रं वादृतोऽ'नन्यमनाश्चिन्तयन् स्वपिति, तदा सेव 'चिन्तासन्ततिः संस्कारातिशयात् प्रत्यक्षाकारा साक्षादर्थावभासिनी सजायते / शरीरधारणाद्धातवो वसासृङमांसमेदोमज्जास्थिशुक्रात्मानः, तेषां दोषाद् वातादिदूषितत्वाद्विपर्ययो भवतीत्याह-वातप्रकृति यदि वा कुतश्चिन्निमित्तादुपचितेन वातेन दूषितः स्वात्मन आकाशगमनमितस्ततो धावनमित्यादिकं पश्यति / पित्तप्रकृतिः पित्तदूषितो वा अग्निप्रवेशकनकपर्वताभ्युदितार्कमण्डलादिकं पश्यति / श्लेष्मप्रकृतिः श्लेष्मदूषितो वा सरित्समुद्रप्रतरणहिमपर्वतादीन् पश्यति / [पं०] [164] सैव चिन्तासन्तति (कं. १८५.१३)रित्यादि / चित्तसन्तत्याकारः साक्षादिवार्थभासे जायते इत्यर्थः / कुतश्चिनिमित्तादिति (कं. 185.16) चिन्ताभयजागरलङ्घनादौ। अनेन वातस्यागन्तुकतां लक्षयति / पित्तदूषित इति (कं. 185.17) शुण्ठीमरिचादितीक्ष्णद्रव्यसेवा क्रोधादिवशोद्भूतागन्तुकपित्तप्लावितः / श्लेष्मदूषित [कु०] [164] तदा सैवेति (कं. 185.13) तज्जनितसस्कारकायः कोऽपि प्रत्ययविशेषः / कार्यकारणयोरभेदोपचारात्सैवेत्यस्यायते। यदाह संस्कारातिशयादिति (कं. 185.15) / तेषां दोषादिति (कं. 185.14) दोषविशेषस्य स्वप्नविशेषहेतुत्वमागमसिद्ध द्रष्टव्यम् / स्वयमनुभूतेषु "परत्र प्रसिद्धेडिवति (कं. 185.19) केवलं परसम्बन्धितया पूर्व प्रसिद्धेष्वित्यर्थः / संस्कारधर्माभ्यामिति (कं. 185.21) / तृतीयस्या विधाया संस्कारस्यापि 1 'तत्तु त्रिविधम्' इति दे पुस्तके नास्ति। 2 तदु-कं. 1, कं.२। 3 गमनादीन्-कं. 1, कं. 2, कि / 4 पर्वतादीन् - कं. 1, कं. 2 कि। 5 प्रतरणादीनि- दे। 6 इत्याह-संस्कारपाटवादिति - कं. 1, कं. 2 / 7 नुमन्यमानश्चिन्तयन् - कं. 1, कं. 2 / 8 चिन्तासन्ततिः स्मृतिसन्तति:-कं. 1, कं. 2 / 9 यदा - जे. 1 / 10 परत्रा-कं।