SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ 430 म्यायकवलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् क्रियाप्रबन्धादन्तहृदये निरिन्द्रिये आत्मप्रदेशे 'यदा निश्चलं मनस्तिष्ठति, तदा प्रलीनमनस्क इत्याख्यायते / प्रलीने च तस्मिन्नुपरतेन्द्रियग्रामो भवति, तस्यामवस्थायां प्रबन्धेन प्राणापानसन्तानप्रवृत्तावात्ममनःसंयोगविशेषात् स्वापाख्यात् संस्काराच्चेन्द्रियद्वारेणैवासत्सु विषयेषु प्रत्यक्षाकारं स्वप्नजानमुत्पद्यते / ___ न्यायकन्दली यदा यथा पुरुषस्य मनः प्रलीयते इन्द्रियाणि च विरमन्ति तदर्शयति-कथमित्यादिना / आत्मनः शरीरव्यापाराद् 'गमनागमनादिलक्षणाद् बुद्धिपूर्वावहनि खिन्नस्य परिश्रान्तस्य प्राणिनो निशि रात्री विश्रामार्थ श्रमोपशमार्थ भुक्तपीतस्याहारस्य रसादिभावेन परिणामार्थ चादृष्टेन कारितं प्रयत्नम पेक्षमाणादात्मान्तःकरणसंयोगान्मनसि यः क्रियाप्रबन्धः क्रियासन्तानो जातस्तस्मादन्तर्हृदये निरिन्द्रिये बाह्येन्द्रियसम्बन्धशून्ये आत्मप्रदेशे निश्चलं मनस्तिष्ठति यदा, तदा पुरुषः प्रलोनमनस्क इत्याख्यायते / प्रलीने च तस्मिन् मनस्युपरतेन्द्रियग्रामो भवति, अन्तःकरणानधिष्ठितानामिन्द्रियाणां विषयग्रहणाभावात् / तस्यां प्रलोन'मनस्काऽवस्थायां प्रबन्धेन बाहुल्येन प्राणापानवायसन्तानस्य निर्गमप्रवेशलक्षणायां प्रवृत्तौ सम्भवन्त्यामात्ममनः संयोगात् स्वापाख्यात स्वाप इति नामधेयात् संस्काराच्च पूर्वानुभतविषयादसत्सु देशकालव्यवहितेषु विषयेषु प्रत्यक्षाकारमपरोक्षसंवेदनाकारं स्वप्नज्ञानमुत्पद्यते / [पं०] पदसम्बन्धः / अत्रैव गद्ये निरिन्द्रिय (कं. 185.4) इति व्याख्येयपदम्, बाहन्द्रियसम्बन्धशून्ये (कं. 185.4) इति व्याख्यानपदम् / प्राणापानवायुसन्तानस्येति (कं. 185.8) उच्छ्वास निःश्वास एव न प्रवाहः स्यात्तदा / [कु०] लक्षणम् / निशीति ( कं. 185.1 ) शयनोपलक्षणम् / उपरतेन्द्रिय ग्रामो "न भवती [ति] (कं. 185.6) स्वकार्यानुत्पाद एवेन्द्रियाणामु[प] रतिः। एतदेवाह अन्तःकरणेति (क. 185.6) / प्राणापानसन्तानस्य प्राणापानक्रियासन्तान एव तद्वति वायावपचर्यते / प्राणापानप्रवृत्तिप्रतिपादनं च आहारस्य रसादिपरिणा[माय जाठरास्याग्नेरूद्धज्वलनं प्रतिपादयितुम् / असत्स्वेतद्देशकालव्यवहितेष्विति (क. 185.9) विव"विषय [प]देनात्यन्तासतः शशविषाणादेर्व्यभिचारं निवर्तयति / अथाप्ययथार्थत्वादविद्यात्वमस्य स्फुटं द्रष्टव्यम् / 1 सम्बन्धात् -दे। 2 'यदा' - कं. 1, कं. 2 दे पुस्तकेषु नास्ति / 3 प्रवृत्तादात्म - दे। 4 गमनागमनादहनि -कं. 1, क. 2 / 5 मपेक्ष्यमाणा-.जे. 1 / 6 मनोऽवस्थायां-कं. 1; कं.२। 7 सन्तान-कं. 1, कं. 2 / 8 संयोगात् स्वाप इति - जे. 1 / 9 सन्ताननिगम् - कं। 10 ग्राम्यो- Ms. / 11 'न' - कन्दल्यां नास्ति / 12 असत्सु देशकाल - कं। 13 अत्र पूर्वानुभूतविषय इति पाठन सन्दर्भदृष्ट्या भाव्यमिति भाति -सं।
SR No.004336
Book TitleNyayakandali
Original Sutra AuthorN/A
AuthorJ S Jetly, Vasant G Parikh
PublisherOriental Research Institute Vadodra
Publication Year1991
Total Pages748
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy