________________ टिप्पणपजिफाकुसुमोदगमादिटीकात्रयोपेतम् 429 प्रशस्तपादभाष्यम् [163] 'उपरतेन्द्रियग्रामस्य प्रलीनमनस्कस्येन्द्रियद्वारेणव यदनुभवनं मानसं तत् स्वप्नज्ञानम् / कथम् ? यदा बुद्धिपूर्वादात्मनः शरीरव्यापारादहनि 'खिन्नास्य प्राणिनो निशि विश्रामार्थमाहारपरिणामार्थ वादृष्टकारितप्रयत्नापेक्षादात्मान्तःकरणसंयोगात् मनसि न्यायकन्दली तत्र जातिविशेषविषयत्वेन को नु खल्वत्र प्राणी स्यादित्यनवधारणात्मकं ज्ञानमनध्यवसायः, 'अध्यवसायादविशेषावधारणज्ञानादन्यदिति व्युत्पत्त्या। नन्वयं संशय एव, अनवधारणात्मकत्वात् / न, कारणभेदात्, स्वरूपभेदाच्च / किञ्च, उभयविशेषानस्मरणात् संशयो न त्वनध्यवसायः, प्रतीतिविशेषविषयत्वेनाप्यस्य सम्भवात् / तथानवस्थितोभयकोटिसंस्पर्शी संशयो न त्वमिति भेदः / विद्या त्वयं न भवति, व्यवहारानङ्गत्वादिति / [163] स्वप्ननिरूपणार्थमाह-उपरतेन्द्रियग्रामस्येत्यादि / उपरतः स्वविषयग्रहणाद्विरत इन्द्रियग्रामो यस्य. असावपरतेन्द्रियग्रामः। प्रकर्षेण सर्वात्मना लीनं मनो यस्यासौ प्रलोनमनस्क इति / तस्योपरतेन्द्रियग्रामस्य प्रलीनमनस्कस्यन्द्रियद्वारेण यदनुभवनं पूर्वाधिगमा नपेक्षं परिच्छेदस्वभावं मानसं मनोमात्रप्रभवं तत् स्वप्नज्ञानम् / [टि०] [163-164] ( // अथ अविद्याभेदनिरूपणे स्वप्ननिरूपणम् // ) . .. सैव चिन्तासन्ततिः इति - 'चित्तसन्तत्याकारः साक्षादिवार्थावभासो जायते इत्यर्थः / चित्तसन्ततेस्तु क्षणिकत्वेन “परिणामवादानभ्युपगमेन तथा चात्र प्रत्यक्षाकाग्रूपताया अयोगादिति / / स्वप्नः // ( // इति बुद्धिप्रकरणे अविद्यानिरूपणम् // ) [पं०] [163] आत्मनः शरोरेत्यादि (कं. 184.21) "गद्ये रसादिभावेन परिणामार्थं च निश्चलं मनस्तिष्ठतीत्येवं [कु०] [163] स्वप्ननिरूपणार्थमिति (कं. 184.16) निरूप्यतेऽनेनेति निरूप[ण]लक्षणं तदर्थमित्यर्थः / अत्र चोपरतेन्द्रियग्रामस्येत्यनेन विद्याविपर्ययसंशयानध्यवसायेभ्यो व्यवच्छेदः / अनुभवनमित्यनेन स्मृतः / प्रलीनमनस्कस्येन्द्रियव्यापारो परमहेतुः / इन्द्रियद्वारे "णवेति (कं. 184.19) कदाचिदिह शय्यायामहं सन्निविष्टोऽभूवमिति यथार्थस्यापि स्वप्नज्ञानस्य इन्द्रियद्वारतया अयथार्थत्वादविद्यात्वं दर्शयितुम्-अहनीति (कं. 185.1 / जागरावस्थोप 1 तत्र हि उपरते...दे। 2 खिन्नानां प्राणिनां-कं. 1, कं.२। 3 करणसम्बन्धात्-कं.१, कं. 2 / 4 वसायविशेष - कं. 1, कं. 2 / 5 भावात् -जे.१। 6 नपेक्ष्यम् -जे.१। 7 चित्सन्तत्याकार:-अ, ब; 8 परिणामे-अ, ब; 9 तथात्र - अ, ब, 10 भावेन-ब। 11 एव - कन्दल्यां नास्ति /