________________ 42 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् अनुमानविषयेऽपि नारिकेलद्वीपवासिनः सानामात्रदर्शनात् को नु खल्वयं प्राणी . स्यादित्यनध्यवसायो भवति / न्यायकन्दली वाहीकस्य पनसादिष्वनध्यवसायो भवति, 'टक्कदेशोद्भवस्य पनसादिष्वनध्यवसाय इत्यर्थः / तत्रापि पनसे सत्त्वद्रव्यत्वपृथिवीत्ववृक्षत्व'रूपत्त्वादिशाखाद्यपेक्षोऽध्यवसाय एव, 'द्रव्यमेतत्पार्थिवोऽयं वृक्षोयं रूपादिमान् शाखादिमांश्चेत्यवधारणात् / पनसत्वमपि पनसेष्वनवत्तमाम्रादिभ्यो व्यावृत्तं निविकल्पकप्रत्यक्षमेव / केवलं त्वस्य पनसशब्दो नामधेयमित्युपदेशाभावाद्विशेषसंज्ञाप्रतिपत्तिन भवति पनसशब्दवाच्योऽयमिति प्रतिपत्तिर्न भवति, किन्तु किमप्यस्य नामधेयं भविष्यतीत्येतावन्मात्रप्रतीतिः स्यात् / सेयं सज्ञाविशेषानवधारणात्मिका प्रतीतिरनध्यवसायः। अनुमानविषयेऽपि 'नालिकेरद्वीपवासिनः सानामात्रदर्शनात को न खल्वत्र प्रदेशे प्राणी स्यादित्यनध्यवसायः। 'नालिकेरद्वीपे गवामभावात् तत्रत्यो लोकोऽप्रसिद्ध- / गोजातीयः, तस्य देशान्तरमागतस्य वने सास्त्रामात्रदर्शनात् सामान्येन पिण्डमात्रमनुमाय : [पं०] तत्रेति (कं. 183.7) पिण्डमात्रे। परवाक्यं नन्वयमित्यादि (कं. 183.9) / श्रीधरवाक्यं नेति (कं. 183.9) / कारणभेदमाह उभयेत्यादिना (कं. 183.10) / 'अप्रतीतविशेषविषयत्वेनेत्यादि (कं. 183.10) संशयो हि प्रतीतविशेषविषय एव स्यात् अस्य त्वनध्यवसायस्य प्रसिद्धार्थेषु प्रतीतिविशेषविषयत्वम्, अप्रतीतविशेषविषयत्वमपि दष्टं तस्मादनध्यवसायः संशयात्पृथगिति भावः / स्वरूपभेदमाह तथानवस्थितोभयेत्यादि (कं. 183.11) / [कु.] सास्नामात्रदर्शनात् '[सामान्येन] पिण्डमात्रमनुमायेति (कं. 183.4) चेष्टाविशेषेण प्राण्यवयवत्वमनुमायावयवेनावयविनमनुमाय तस्यैवावयवस्य पूर्वप्रसिद्धप्रामाण्यसम्बन्धितया को न खल्वयं प्राणीत्यनध्यवसायं करोतीत्यर्थः / ज्ञानस्य कथमनध्यवसायत्वमत आह-'अध्यवसायादिति (कं. 183.8) / प्रतीते विशेषे तेन तस्य स्मरणं नास्तीत्यर्थः / व्यवहारानङ्गत्वादिति (कं. 183.12) हानादिव्यवहारानङ्गत्वादित्यर्थः / न तु ज्ञानसामान्यस्य विशेषजिज्ञासामात्रमनध्यवसायः इच्छायाः स्वविषयज्ञानपूर्वकत्वनियमादिति / [ इत्यनध्यवसायः ] 1 टक्कदेशोद्भवस्य-जे.१ / भवति इति जे. 1, जे. 2, जे. 3 इति पुस्तकेषु नास्ति / '2 तत्र हि-जे.१, जे. 2, जे.३ / 3 रूपादि-जे. 1, जे. 2, जे. 3 / 4 द्रव्यमेव तत् -जे. 1 / 5-6 नारिकेल - कं. 1; कं. 2 / 7 प्रतीतिकं. 1, कं.२। 8 कन्दल्यामिदं पदमस्ति-सं। 9 अध्यवसायविशेषावधारणज्ञानात्-कं /